शांतिपर्व

अध्यायः १९१

Santi Parva (Sanskrit) · Adhyaya 191
अक्षर का आकार

युधिष्ठिर उवाच।

आचारस्य विधिं तात प्रोच्यमानं त्वयाऽनघ।
श्रोतुमिच्छामि धर्मज्ञ सर्वज्ञो ह्यसि मे मतः।।

भीष्म उवाच।

दुराचारा दुर्विचेष्टा दुष्प्रज्ञाः प्रियसाहसाः।
असन्तस्त्वभिविख्याताः सन्तश्चाचारलक्षणाः।।

पुरीषं यदि वा मूत्रं ये न कुवन्ति मानवाः।
राजमार्गे गवां मध्ये धान्यमध्ये शिवालये।
अग्न्यगारे तथा तीरे ये न कुर्वन्ति ते शुभाः।।

शौचमावश्यकं कृत्वा देवतानां च तर्पणम्।
धर्ममाहुर्मनुष्याणामुपस्पृश्य नदीं तरेत्।।

सूर्यं सदोपतिष्ठेन न स्वपेद्भास्करोदये।
सायंप्रातर्जपेत्सन्ध्यां तिष्ठन्पूर्वां तथेतराम्।।

पञ्चार्द्रो भोजनं भुञ्ज्यात्प्राद्भुखो मौनमास्थितः।
न निन्द्यादन्नभक्ष्यांश्च स्वादुस्वादु च भक्षयेत्।।

नार्द्रपाणिः समुत्तिष्ठेन्नार्द्रपादः स्वपेन्निशि।
देवर्षिर्नारदः प्राह एतदाचारलक्षणम्।।

शोचिष्केशमनड्वाहं देवगोष्ठं चतुष्पथम्।
ब्राह्मणं धार्मिकं चैव नित्यं कुर्यात्प्रदक्षिणम्।।

अतिथीनां च सर्वेषां प्रेष्याणां स्वजनस्य च।
सामात्यं भोजनं भृत्यैः पुरुषस्य प्रशस्यते।।

सायंप्रातर्मनुष्याणामशनं वेदनिर्मितम्।
नान्तरा भोजनं दृष्टमुपवासी तथा भवेत्।।

होमकाले तथ्ना जुह्वन्नृतुकाले तथा व्रजन्।
अनन्यस्त्रीजनः प्राज्ञो ब्रह्मचारी तथा भवेत्।।

अमृतं ब्राह्मणोच्छिष्टं जनन्या हृदयं कृतम्।
तज्जनाः पर्युपासन्ते सत्यं सन्तः समासते।।

लोष्टमदीं तृणच्छेदी नखखादी तु यो नरः।
नित्योच्छिष्टः संकसुको नेहायुर्विन्दते महत्।।

यजुषा संस्कृतं मांसं निवृत्तो मांसभक्षणात्।
भक्षयेन्न वृथामांसं पृष्ठमांसं च वर्जयेत्।।

स्वदेशे परदेशे वा अतिर्थि नोपवासयेत्।
काम्यकर्मफलं लब्ध्वा गुरूणामुपपादयेत्।।

गुरूणामासनं देयं कर्तव्यं चाभिवादनम्।
गुरूनभ्यर्च्य युज्येत आयुषा यशसा श्रिया।।

नेक्षेतादित्यमुद्यन्तं न च नग्नां परस्त्रियम्।
मैथुनं सततं धर्म्यं गुह्ये चैव समाचरेत्।।

तीर्थानां हृदयं तीर्थं शुचीनां हृदयं शुचिः।
सर्वमार्यकृतं धर्म्यं वालसंस्पर्शनानि च।।

दर्शनेदर्शने नित्यं सुखप्रश्नमुदाहरेत्।
सायं प्रातश्च विप्राणां प्रदिष्टमभिवादनम्।।

देवगोष्ठे गवां मध्ये ब्राह्मणानां क्रियापथे।
स्वाध्याये भोजने चैव दक्षिणं पाणिमुद्धरेत्।।

सायं प्रातश्च विप्राणां पूजनं च यथाविधि।
पण्यानां शोभते पण्यं कृषीणामृद्ध्यतां कृषिः।
बहुकारं च सस्यानां वाह्ये वाहो गवां तथा।।

संपन्नं भोजने नित्यं पानीये तर्पणं तथा।
सुशृतं पायसे ब्रूयाद्यवाग्वां कृसरे तथा।।

श्मश्रुकर्मणि संप्राप्ते क्षुते स्नानेऽथ भोजने।
व्याधितानां च सर्वेषामायुष्ममभिनन्दनम्।।

प्रत्यादित्यं न मेहेत न पश्येदात्मनः शकृत्।
सुतैः स्त्रिया च शयनं सह भोज्यं च वर्जयेत्।।

त्वंकारं नामधेयं च ज्येष्ठानां परिवर्जयेत्।
अवराणां समानानामुभयं नैव दुष्यति।।

हृदयं पापवृत्तानां पापमाख्याति वैकृतम्।
ज्ञानपूर्वं विनश्यन्ति गूहमाना महाजने।।

ज्ञानपूर्वकृतं पापं छादयन्त्यबहुश्रुताः।
नैनं मनुष्याः पश्यन्ति पश्यन्त्येव दिवौकसः।।

पापेनापिहितं पापं पापमेवानुवर्तते।
धर्मेणापिहितो धर्मो धर्ममेवानुवर्तते।
धार्मिकेण कृतो धर्मो धर्ममेवानुवर्तते।।

पापं कृतं न स्मरतीह मूढो
विवर्तमानस्य तदेति कर्तुः।
राहुर्यथा चन्द्रमुपैति चापि
तथाऽबुधं पापमुपैति कर्म।।

आशया संचितं द्रव्यं दुःखेनैवोपभुज्यते।
तद्बुधा न प्रशंसन्ति मरणं न प्रतीक्षते।।

मानसं सर्वभूतानां धर्ममाहुर्मनीषिणः।
तस्मात्सर्वेषु भूतेषु मनसा शिवमाचरेत्।।

एक एव चरेद्धर्मं नास्ति धर्मे सहायता।
केवलं विधिमासाद्य सहायः किं करिष्यति।।

धर्मो योनिर्मनुष्याणां देवानाममृतं दिवि।
प्रेत्यभावे सुखं धर्माच्न्छश्वत्तैरुपभुज्यते।।

।। इति श्रीमन्महाभारते शान्तिपर्वणि
मोक्षधर्मपर्वणि एकनवत्यधिकशततमोऽध्यायः।। 191।।