शांतिपर्व
अध्यायः १९३
भीष्म उवाच।
हन्त वक्ष्यामि ते पार्थ ध्यानयोगं चतुर्विधम्।
यं ज्ञात्वा शाश्वतीं सिद्धिं गच्छन्तीह महर्षयः।।
यथा स्वनुष्ठितं ध्यानं तथा कुर्वन्ति योगिनः।
महर्षयो ज्ञानतृप्ता निर्वाणगतमानसाः।।
नावर्तन्ते पुनः पार्थ मुक्ताः संसारदोषतः।
अन्मदोषपरिक्षीणाः स्वभावे पर्युपस्थिताः।।
निर्द्वन्द्वा नित्यसत्वस्था विमुक्तिं नित्यमश्रिताः।
असङ्गीन्यविवादीनि मनः शान्तिकराणि च।।
तत्र ध्यानेन संश्लिष्टमेकाग्रे धारयेन्मनः।
तत्र च ध्यानसंरोधादथ ज्ञानी भवत्युत।।
चतुर्विधेषु भावेषु योऽर्थसक्तः सदैव हि।
तज्ज्ञात्वा वास्तवं तेषामर्थेषु परिवर्तते।
पिण्डीकृत्येन्द्रियग्राममासीनः काष्ठवन्मुनिः।।
शब्दं न विन्देच्छ्रोत्रेण त्वचा स्पर्शं न वेदयेत्।
रूपं न चक्षुषा विद्याज्जिह्वया न रसांस्तथा।।
घ्रेयाण्यपि च सर्वाणि जह्याद्राणेन योगवित्।
पञ्चवर्गप्रमाथीनि नेच्छेच्चैतानि वीर्यवान्।।
ततो मनसि संसृज्य पञ्चवर्ग विचक्षणः।
समादध्यान्मनो भ्रान्तमिन्द्रियैः सह पञ्चमिः।।
विसंचारि निरालम्बं पञ्चद्वारं चलाचलम्।
पूर्वं ध्यानपदे धीरः समादध्यान्मनो नरः।।
इन्द्रियाणि मनश्चैव यदा पिण्डीकरोत्ययम्।
एव ध्यानपथः पूर्वो मया समनुवर्णितः।।
तस्य तत्पूर्वसंरुद्धमात्सषष्ठं मनोऽन्तरा।
स्फुरिष्यति समुद्धान्तं विद्युदम्बुधरे यथा।।
जलबिन्दुर्यथा लोलः पर्णस्थः सर्वतश्चलः।
एवमेवास्य तच्चित्तं भ्रमति ध्यानवर्त्मनि।।
समाहितं क्षणं किंचिद्ध्यानवर्त्मनि तिष्ठति।
पुनर्वायुपथं प्राप्तं मनो भवति वायुवत्।।
अनिर्वेदो गतक्लेशो गततन्द्रीरमत्सरः।
समादध्यात्पुनश्चेतो ध्यानेन ध्यानयोगवित्।।
विचारश्च विवेकश्च वितर्कश्चोपजायते।
मुनेः समादधानस्य प्रथमं ध्यानमादितः।।
मनसा क्लिश्यमानस्तु समाधानं च कारयेत्।
न निर्वेदं मुनिर्गच्छेत्कुर्यादेवात्मनो हितम्।।
पांसुभस्मकरीषाणां यथा वै राशयश्चिताः।
सहसा वारिणा सिक्ता न यान्ति परिभावनम्।।
किंचित्स्निग्धं यथा च स्याच्छुष्कचूर्णमभावितम्।
क्रमशस्तु शनैर्गच्छेत्सर्वं तत्परिभावनम्।।
एवमेवेन्द्रियग्रामं शनैः संपरिभावयेत्।
संहरेत्क्रमशश्चैनं स सम्यक्प्रशमिष्यति।।
स्वयमेव मनश्चैवं पञ्चवर्गं च भारत।
पूर्वं ध्यानपथे स्थाप्य नित्ययोगेन शाम्यति।।
न तत्पुरुषकारेण न च दैवेन केनचित्।
सुखमेष्यति तत्तस्य न भवन्ति विपत्तयः।।
सुखेन तेन संयुक्तो रस्यते ध्यानकर्मणि।
गच्छन्ति योगिनो ह्येवं निर्वाणं तन्निरामयम्।।
।। इति श्रीमन्महाभारते शान्तिपर्वणि
मोक्षधर्मपर्वणि त्रिनवत्यधिकशततमोऽध्यायः।। 193।।