शांतिपर्व

अध्यायः १८१

Santi Parva (Sanskrit) · Adhyaya 181
अक्षर का आकार

भरद्वाज उवाच।

मेरुमध्ये स्थितो ब्रह्मा कथं स ससृजे प्रजाः।
एतन्मे सर्वमाचक्ष्व याथातथ्येन पृच्छतः।।

भृगुरुवाच।

प्रजाविसर्गं पूर्वं स मानसो मनसाऽसृजत्।
संरक्षणार्थं भूतानां सृष्टं प्रथमतो जलम्।।

यत्प्राणः सर्वभूतानां वर्धन्ते येन च प्रजाः।
परित्यक्ताश्च नश्यन्ति तेनेदं सर्वमावृतम्।।

पृथिवी पर्वता मेघा मूर्तिमन्तश्च ये परे।
सर्वं तद्वारुणं ज्ञेयमापस्तस्तम्भिरे हि ताः।।

भरद्वाज उवाच।

कथं सलिलमुत्पन्नं कथं चैवाग्निमारुतौ।
कथं वा मेदिनी सृष्टेत्यत्र मे संशयो महान्।।

भृगुरुवाच।

ब्रह्मकल्पे पुरा ब्रह्मन्ब्रह्मर्षीणां समागमे।
लोकसंभवसन्देहः समुत्पन्नो महात्मनाम्।।

तेऽतिष्ठन्ध्यानमालम्ब्य मौनमास्थाय निश्चलाः।
त्यक्ताहाराः पवनपा दिव्यं वर्षशतं द्विजाः।।

तेषां ब्रह्ममयी वाणी सर्वेषां श्रोत्रमागमत्।
दिव्या सरस्वती तत्र संबभूव नभस्तलात्।।

पुराऽस्तमितनिःशब्दमाकाशमचलोपमम्।
नष्टचन्द्रार्कपवनं प्रसुप्तमिव संबभौ।।

ततः सलिलमुत्पन्नं तमसीवापरं तमः।
तस्माच्च सलिलोत्पीडात्समजायत मारुतः।।

यथा भाजनमच्छिद्रं निःशब्दमिह लक्ष्यते।
तच्चाम्भसा पूर्यमाणं सशब्दं कुरुतेऽनिलः।।

तथा सलिलसंरुद्धे नभसोन्ते निरन्तरे।
भित्त्वाऽर्णवतलं वायुः समुत्पतति घोषवान्।।

स एष चरते वायुरर्णवोत्पीडसंभवः।
आकाशस्थानमासाद्य प्रशान्तिं नाधिगच्छति।।

तस्मिन्वाय्वम्बुसंघर्षे दीप्ततेजा महाबलः।
प्रादुर्बभूवोर्ध्वशिखः कृत्वा निस्तिमिरं नभः।।

अग्निः पवनसंयुक्तः स्वात्समुत्क्षिपते जलम्।
सोऽग्निमारुतसंयोगाद्धनत्वमुपपद्यते।।

तस्याकाशान्निपतितः स्नेहस्तिष्ठति योऽपरः।
स संघातत्वमापन्नो भूमित्वमनुगच्छति।।

रसानां सर्वगन्धानां स्नेहानां प्राणिनां तथा।
भूमिर्योनिरिह ज्ञेया यस्यां सर्वं प्रसूयते।।

।। इति श्रीमन्महाभारते शान्तिपर्वणि
मोक्षधर्मपर्वणि एकाशीत्यधिकशततमोऽध्यायः।। 181।।