शांतिपर्व
अध्यायः १८०
युधिष्ठिर उवाच।
कुतः सृष्टमिदं सर्वं जगत्स्थावरजङ्गमम्।
प्रलये च किमभ्येति तन्मे ब्रूहि पितामह।।
ससागरः सगगनः सशैलः सबलाहकः।
सभूमिः साग्निपवनो लोकोऽयं केन निर्मितः।।
कथं सृष्टानि भूतानि कथं वर्णविभक्तयः।
शोचाशौचं कथं तेषां धर्माधर्मावथो कथम्।।
कीदृशो जीवतां जीवः क्व वा गच्छन्ति ये मृताः।
अस्माल्लोकादमुं लोकं सर्वं शंसतु नो भवान्।।
भीष्म उवाच।
अत्राप्युदाहरन्तीममितिहासं पुरातनम्।
भृगुणाऽभिहितं श्रेष्ठं भरद्वाजाय पृच्छते।।
कैलासशिखरे दृष्ट्वा दीप्यमानमिवौजसा।
भृगुं महर्षिमासीनं भरद्वाजोऽन्वपृच्छत।।
ससागरः सगगनः शशैलः सवलाहकः।
सभूमिः साग्निपवनो लोकोऽयं केन निर्मितः।।
कथं सृष्टानि भूतानि कथं वर्णविभक्तयः।
शौचाशौचं कथं तेषां धर्माधर्मावथो कथम्।
कीदृशो जीवतां जीवः क्व वा गच्छन्ति ये मृताः।
परलोकमिमं चापि सर्वं शंसितृमर्हसि।।
एवं स भगवान्पृष्टो भरद्वाजेन संशयम्।
ब्रह्मर्पिर्ब्रह्मसंकाशः सर्वं तस्मै ततोऽब्रवीत्।।
भृगुरुवाच।
`नारायणो जगन्मूर्तिरन्तरात्मा सनातनः।
कूटस्थोऽक्षर अव्यक्तो निर्लेपो व्यापकः प्रभुः।।
प्रकृतेः परतो नित्यमिन्द्रियैरप्यगोतरः।
स सिसृक्षुः सहस्रांशादसृजत्पुरुषं प्रभुः।।'
मानसो नाम यः पूर्वो विश्रुतो वै महर्षिभिः।
अनादिनिधनो देवस्तथाऽभेद्योऽदजरामरः।।
अव्यक्त इति विख्यातः शाश्वतोऽथाक्षयोऽव्ययः।
यतः सृष्टानि भूतानि तिष्ठन्ति च म्रियन्ति च।।
सोऽसृजत्प्रथमं देवो महान्तं नाम नामतः।
महान्ससर्जाहंकारं स चापि भगवानथ।
आकाशमिति विख्यातं सर्वभूतधरः प्रभुः।।
आकाशादभवद्वारि सलिलादग्निमारुतौ।
अग्निमारुतसंयोगात्ततः समभवन्मही।।
ततस्ते गेमयं दिव्यं पद्मं सृष्टं स्वयंभुवा।
तस्मात्पद्मात्समभवद्ब्रह्मा वेदमयो निधिः।।
अहंकार इति ख्यातः सर्वभूतात्मभूतकृत्।
ब्रह्मा वै स महातेजा य एते पञ्चधातवः।।
शैलास्तस्यास्थिसंज्ञास्तु मेदो मांसं च मेदिनी।
समुद्रास्तस्य रुधिरमाकाशमुदरं तथा।।
पवनश्चैव निःश्वासस्तेजोऽग्निर्निम्नगाः सिराः।
दिवाकरश्च सोमश्च नयने तस्य विश्रुते।।
नभश्चोर्ध्वं शिरस्तस्य क्षितिः पादौ भुजौ दिशः।
दुर्विज्ञेयो ह्यनन्तात्मा सिद्धैरपि न संशयः।।
स एष भगवान्विष्णुरनन्त इति विश्रुतः।
सर्वभूतात्मभूतस्थो दुर्विज्ञेयोऽकृतात्माभः।।
अहंकारस्य यः स्रष्टा सर्वभूतोद्भवाय वै।
यतः समभवद्विश्वं पृष्टोऽहं यदिह त्वया।।
भरद्वाज उवाच।
गगनस्य दिशां चैव भूतलस्यानिलस्य च।
कान्यत्र परिमाणानि संशयं छिन्धि मेऽर्थितः।।
भृगुरुवाच।
अनन्तमेतदाकाशं सिद्धचारणसेवितम्।
रम्यं नानाश्रयाकीर्णं यस्यान्तो नाधिगम्यते।।
ऊर्ध्वं गतेरधस्तात्तु चन्द्रादित्यौ न दृश्यतः।
तत्र देवाः स्वयं दीप्ताः सूर्यभासोऽग्निवर्चसः।।
ते चाप्यन्तं न पश्यन्ति नभसः प्रथितौजसः।
दुर्गमत्वादनन्तत्वादिति वै विद्धि मानद।।
उपर्युपरि तैर्देवैः प्रज्वलद्भिः स्वयंप्रभैः।
निरुद्धमेतदाकाशमप्रमेयं सुरैरपि।।
पृथिव्यन्ते समुद्रास्तु समुद्रान्ते तमः स्मृतम्।
तप्नसोऽन्ते जलं प्राहुर्जलस्यान्तेऽग्निरेव च।।
रसातलान्ते सलिलं जलान्ते पन्नगाधिपाः।
तदन्ते पुनराकाशमाकाशान्ते पुनर्जलम्।।
एवमन्तं हि नभसः प्रमाणं सलिलस्य च।
अग्निमारुतयोश्चैव दुर्ज्ञेयं दैवतैरपि।।
अग्निमारुततोयानां वर्णाः क्षितितलस्य च।
आकाशसदृशा ह्येते भिद्यन्तेऽतत्वदर्शनात्।।
पठन्ति चैव मुनयः शास्त्रेषु विविधेषु च।
त्रैलोक्यसागरे चैव प्रमाणं विहितं यथा।।
अदृश्यत्वादगम्यत्वात्कः प्रमाणमुदाहरेत्।
सिद्धानां देवतानां च यदा परिमिता गतिः।
तदा गौणमनन्तस्य नामानन्तेति विश्रुतम्।।
नामधेयानुरूपस्य मानसस्य महात्मनः।
यदा तु र्दिव्यं यद्रूपं ह्रसते वर्धते पुनः।
कोऽन्यस्तद्वेदितुं शक्तो योपि स्यात्तद्विधोऽपरः।।
ततः पुष्करतः सृष्टः सर्वज्ञो मूर्तिमान्प्रभुः।
ब्रह्मा धर्ममयः पूर्वः प्रजापतिरनुत्तमः।।
भरद्वाज उवाच।
पुष्कराद्यदि संभूतो ज्येष्ठं भवति पुष्करम्।
ब्रह्माणं पूर्वजं चाह भवान्संदेह एव मे।।
भृगुरुवाच।
मानसस्येह या मूर्तिर्ब्रह्मत्वं समुपागता।
तस्यासनविधानार्थं पृथिवी पद्ममुच्यते।।
कर्णिकां तस्य पद्मस्य मेरुर्गगमुच्छ्रितः।
तस्य मध्ये स्थितो लोकान्सृजते जगतः प्रभुः।
मानसांश्च तथा देवान्भूतानि विविधानि च।।
।। इति श्रीमन्महाभारते शान्तिपर्वणि
मोक्षधर्मपर्वणि अशीत्यधिकशततमोऽध्यायः।। 180।।