शांतिपर्व

अध्यायः १८२

Santi Parva (Sanskrit) · Adhyaya 182
अक्षर का आकार

भरद्वाज उवाच।

त एते धातवः पञ्च ब्रह्मा यानसृजत्पुरा।
आवृता यैरिमे लोका महाभूताभिसंज्ञिताः।।

यदाऽसृजत्सहस्राणि भूतानां स महामतिः।
पञ्चानामेव भूतत्वं कथं समुपपद्यते।।

भृगुरुवाच।

अमितानां महाशब्दो भूतानां याति संभवम्।
ततस्तेषां महाभूतशब्दोऽयमुपपद्यते।।

चेष्टा वायुः खमाकाशमूष्माऽग्निः सलिलं द्रवः।
पृथिवी चात्र संघातः शरीरं पाञ्चभौतिकम्।।

इत्येतैः पञ्चभिर्भूतैर्युक्तं स्थावरजङ्गमम्।
श्रोत्रं घ्राणं रमः स्पर्शो दृष्टिश्चेन्द्रियसंज्ञिताः।।

भरद्वाज उवाच।

पञ्चभिर्यदि भूतैस्तु यक्ताः स्थावरजङ्गमाः।
स्थावराणां न दृश्यन्ते शरीरे पञ्च धातवः।।

अनूष्मणामचेष्टानां घनानां चैव तत्त्वतः।
वृक्षा नोपलभ्यन्ते शरीरे पञ्च धातवः।।

न शृणुन्ते न पश्यन्ति न गन्धरसवेदिनः।
न चस्पर्शं विजानन्ति ते कथं पाञ्चभौतिकाः।।

अद्रवत्वादनग्नित्वादभूतित्वादवायुतः।
आकाशस्याप्रमेयत्वाद्वृक्षाणां नास्ति भौतिकम्।।

भृगुरुवाच।

घनानामपि वृक्षाणामाकाशोऽस्ति न संशयः।
तेषां पुष्पफलव्यक्तिर्नित्यं समुपपद्यते।।

ऊष्मतो म्लायते वर्णं त्वक्फलं पुष्पमेव च।
म्लायते शीर्यते चापि स्पर्शस्तेनात्र विद्यते।।

वाय्वग्न्यशनिनिष्पेषैः फलं पुष्पं विशीर्यते।
श्रोत्रेण गृह्यते शब्दस्तस्माच्छृण्वन्ति पादपाः।।

वल्ली वेष्टयते वृक्षं सर्वतश्चैव गच्छति।
न ह्यदृष्टेश्च मार्गोऽस्ति तस्मात्पश्यन्ति पादपाः।।

पुण्यापुण्यैस्तथा गन्धैर्धूपैश्च विविधैरपि।
अरोगाः पुष्पिताः सन्ति तस्माज्जिघ्रन्ति पादपाः।।

पादैः सलिलपानाच्च व्याधीनां चापि दर्शनात्।
व्याधिप्रतिक्रियत्वाच्च विद्यते रसनं द्रुमे।।

वक्रेणोत्पलनालेन यथोर्ध्वं जलमाददेत्।
तथा पवनसंयुक्तः पादैः पिबति पादपः।।

सुखदुःखयोश्च ग्रहणाच्छिन्नस्य च विरोहणात्।
जीवं पश्यामि वृक्षाणामचैतन्यं न विद्यते।।

तेन तज्जलमादत्तं जरयत्यग्निमारुतौ।
आहारपरिणामाच्च स्नेहो वृद्धिश्च जायते।।

जङ्गमानां च सर्वेषां शरीरे पञ्च धातवः।
प्रत्येकशः प्रभिद्यन्ते यैः शरीरं विचेष्टते।।

त्वक्च मांसं तथाऽस्थीनि मज्जा स्नायुश्च पञ्चमम्।
इत्येतदिह संघातं शरीरे पृथिवीमयम्।।

तेजो ह्यग्निस्तथा क्रोधश्चक्षुरूष्मा तथैव च।
अग्निर्जरयते यच्च पञ्चाग्नेयाः शरीरिणः।।

श्रोत्रं घ्राणं तथाऽऽस्यं च हृदयं कोष्ठमेव च।
आकाशात्प्राणिनामेते शरीरे पञ्च धातवः।।

श्लेष्मा पित्तमथ स्वेदो वसा शोणितमेव च।
इत्यापः पञ्चधा देहे भवन्ति प्राणिनां सदा।।

प्राणात्प्राणयते प्राणी व्यानाद्व्यायच्छते तथा।
गच्छत्यपाने वाक्चैव समानने समः स्थितः।।

उदानादुच्छ्वसिति च प्रतिभेदाच्च भाषते।
इत्येते वायवः पञ्च चेष्टयन्तीह देहिनम्।।

भूमेर्गन्धगुणान्वेत्ति रसं चाद्भ्यः शरीरवान्।
ज्योतेः पश्यति रूपाणि स्पर्शं वेत्ति च वायुतः।
`शब्दं शृणोति च तदैवाकाशात्तु शरीरवान्।।

गन्धः स्पर्शो रसो रूपं शब्दश्चात्र गुणाः स्मृताः।
तस्य गन्धस्य वक्ष्यामि विस्तराभिहितान्गुणान्।।

इष्टश्चानिष्टगन्धश्च मधुरः कटुरेव च।
निर्हारी संहतः स्निग्धो रूक्षो विशद एव च।
एवं नवविधो ज्ञेयः पार्थिवो गन्धविस्तरः।।

ज्योतिः पश्यति चक्षुर्भ्यां स्पर्शं वेत्ति च वायुना।
शब्दः स्पर्शश्च रूपं च रसश्चापि गुणाः स्मृताः।।

रसज्ञानं तु वक्ष्यामि तन्मे निगदतः शृणु।
रसो बहुविधः प्रोक्तः सूरिभिः प्रथितात्मभिः।।

मधुरो लवणस्तिक्तः कषायोऽम्लः कटुस्तथा।
एवं षङ्किधविस्तारो रसो वारिमयः स्मृतः।।

शब्दः स्पर्शश्च रूपं च त्रिगुणं ज्योतिरुच्यते।
ज्योतिः पश्यति रूपाणि रूपं च बहुधा स्मृतम्।
ह्रस्वो दीर्घस्तथा स्थूलश्चतुरस्रोऽणुवृत्तवान्।।

शुक्लः कृष्णस्तथा रक्तः पीतो नीलारुणस्तथा।
कठिनश्चिक्कणः श्लक्ष्णः पिच्छिलो मृदुदारुणः।
एवं द्वादशविस्तारो ज्योतीरूपगुणः स्मृतः।।

शब्दस्पर्शौ च विज्ञेयौ द्विगुणो वायुरित्युत।
वायव्यस्तु गुणः स्पर्शः स्पर्शश्च बहुधा स्मृतः।।

उष्णः शीतः सुखो दुःखः स्निग्धो विशद एव च।
तथा खरो मृदू रूक्षो लघुर्गुरुतरोऽपि च।
एवं द्वादशधा स्पर्शो व्याव्यो गुण उच्यते।।

तत्रैकगुणमाकाशं शब्द इत्येव तत्स्मृतम्।
तस्य शब्दस्य वक्ष्यामि विस्तरं विविधात्मकम्।।

षड्‌ज ऋषभगान्धारौ मध्यमो धैवतस्तथा।
पञ्चमश्चापि विज्ञेयस्तथा चापि निषादवान्।।

एष सप्तविधः प्रोक्तः शब्द आकाशसंभवः।
त्र्यैस्वर्येण तु सर्वत्र स्थितोऽपि पटहादिषु।।

[मृदङ्गभेरीशङ्खानां स्तनयित्नो रथस्य च।
यः कश्चिच्छ्रूयते शब्दः प्राणिनो प्राणिनोऽपि वा।
एतेषामेव सर्वेषां विषये संप्रकीर्तितः।।

एवं बहुविधाकारः शब्द आकाशसंभवः।
आकाशजं शब्दमाहुरेभिर्वायुगुणैः सह।।]

अव्याहतैश्चेतयने न वेत्ति विषमस्थितैः।
आप्याय्यन्ते च ते नित्यं धातवस्तैस्तु धातुभिः।।

आपोऽग्निर्मारुतश्चैव नित्यं जाग्रति देहिषु।
मूलमेते शरीरस्य व्याप्य प्राणानिह स्थिता।।

।। इति श्रीमन्महाभारते शान्तिपर्वणि
मोक्षधर्मपर्वणि द्व्यशीत्यधिकशततमोऽध्यायः।। 182।।