शांतिपर्व
अध्यायः १७९
युधिष्ठिर उवाच।
यद्यस्ति दत्तमिष्टं वा तपस्तप्तं तथैव च।
गुरूणां वाऽपि शुश्रूषा तन्मे ब्रूहि पितामह।।
भीष्म उवाच।
`यथाऽस्मिंश्च तथा तत्र जानीयां नृपसत्तम।
दुष्कर्तारो यथा लोके यत्कुर्वन्ति तथा शृणु।।'
आत्मनाऽनर्थयुक्तेन पापे निविशते मनः।
स्वकर्म कलुषं कृत्वा दुःखे महति धीयते।।
दुर्भिक्षादेव दुर्भिक्षं क्लेशात्क्लेशं भयाद्भयम्।
मृतेभ्यः प्रमृता यान्ति दरिद्राः पापकारिणः।।
उत्सवादुत्सवं यान्ति स्वर्गात्स्वर्गं सुखात्सुखम्।
श्रद्दधानाश्च दान्ताश्च सत्वस्थाः शुभकारिणाः।।
व्यालकुञ्जरदुर्गेषु सर्पचोरभयेषु च।
हस्तावापेन गच्छन्ति नास्तिकाः किमतः परम्।।
प्रियदेवातिथेयाश्च वदान्याः प्रियसाधवः।
क्षेम्यमात्मवतां मार्गमास्थिता हस्तदक्षिणम्।।
पुलाका इव धान्येषु पुत्तिका इव पक्षिषु।
तद्विधास्ते मनुष्येषु येषां धर्मो न कारणम्।।
सुशीघ्रमपि धावन्तं विधानमनुधावति।
शेते सह शयानेन येनयेन यथाकृतम्।।
उपतिष्ठति तिष्ठन्तं गच्छन्तमनुगच्छति।
करोति कुर्वतः कर्म छायेवाऽनुविधीयते।।
येनयेन यथा यद्यत्पुरा कर्म समार्जितम्।
तत्तदेव नरो भुङ्क्ते नित्यं विहितमात्मना।।
स्वकर्मफलनिक्षेपं विधानपरिरक्षितम्।
भूतग्राममिमं कालः समन्तात्परिकर्षति।।
अचोद्यमानानि यथा पुष्पाणि च फलानि च।
स्वं कालं नातिवर्तन्ते तथा कर्म पुराकृतम्।।
संमानश्चावमानश्च लाभालाभौ क्षयोदयौ।
प्रवृत्तानि विवर्तन्ते विद्यानान्ते पुनःपुनः।।
आत्मना विहितं दुःखमात्मना विहितं सुखम्।
गर्भशय्यामुपादाय भुज्यते पौर्वदेहिकम्।।
बालो युवा च वृद्धश्च यत्करोति शुभाशुभम्।
तस्यांतस्यामवस्थायां भुङ्क्ते जन्मनिजन्मनि।।
यथा धेनुसहस्रेषु वत्सो विन्दति मातरम्।
तथा पूर्वकृतं कर्म कर्तारमनुगच्छति।।
संक्लिन्नमग्रतो वस्त्रं पश्चाच्छुध्यति वारिणा।
`दुष्कर्मापि तथा पश्चात्पूयते पुण्यकर्मणा।।
तपसा तप्यते देहस्तपसा विन्दते महत्।।'
उपवासैः प्रतप्तानां दीर्घं सुखमनन्तरम्।।
दीर्घकालेन तपसा सेवितेन तपोवने।
धर्मनिर्धूतपापानां संसिद्ध्यन्ते मनोरथाः।।
शकुनीनामिवाकाशे मत्स्यानामिव चोदके।
पदं यथा न दृश्येत तथा धर्मविदां गतिः।।
अलमन्यैरुपालम्भैः कीर्तितैश्च व्यतिक्रमैः।
पेशलं चानुरूपं च कर्तव्यं हितमात्मनः।।
।। इति श्रीमन्महाभारते शान्तिपर्वणि
मोक्षधर्मपर्वणि एकोनाशीत्यधिकशततमोऽध्यायः।। 179।।