शांतिपर्व
अध्यायः १७८
युधिष्ठिर उवाच।
बान्धवाः कर्म वित्तं वा प्रज्ञा वेह पितामह।
नरस्य का प्रतिष्ठा स्यादेतत्पृष्टो वदस्व मे।।
भीष्म उवाच।
प्रज्ञा प्रतिष्ठा भूतानां प्रज्ञा लाभः परो मतः।
प्रज्ञा निःश्रेयसी लोके प्रज्ञा स्वर्गो मतः सताम्।।
प्रज्ञया प्रापितार्थो हि बलिरैश्वर्यसंक्षये।
प्रह्लादो नमुचिर्मङ्किस्तस्याः किं विद्यते परम्।।
अत्राप्युदाहरन्तीममितिहासं पुरातनम्।
इन्द्रकाश्यपसंवादं तन्निबोध युधिष्ठिर।।
वैश्यः कश्चिदृषिसुतं काश्यपं संशितव्रतम्।
रथेन पातयामास श्रीमान्दृप्तस्तपस्विनम्।।
आर्तः स पतितः क्रुद्धस्त्यक्त्वाऽऽत्मानमथाब्रवीत्।
मरिष्याम्यधनस्येह जीवितार्थो न विद्यते।।
तथा मुमूर्षमासीनमकूजन्तमचेतसम्।
इन्द्रः सृगालरूपेण बभाषे क्षुब्धमानसम्।।
मनुष्ययोनिमिच्छन्ति सर्वभूतानि सर्वशः।
मनुष्यत्वे च विप्रत्वं सर्व एवाभिनन्दति।।
मनुष्यो ब्राह्मणश्चासि श्रोत्रियश्चासि काश्यप।
सुदुर्लभमवाप्यैतन्न दोषान्मर्तुमर्हसि।।
सर्वे लाभाः साभिमाना इति सत्यवती श्रुतिः।
संतोषणीयरूपोऽसि लोभाद्यदभिमन्यसे।।
अहो सिद्धार्थता तेषां येषां सन्तीह पाणयः।
[अतीव स्पृहये तेषां येषां सन्तीह पाणयः।।]
पाणिमद्भ्यः स्पृहाऽस्माकं यथा तव धनस्य वै।
न पाणिलाभादधिको लाभः कश्चन विद्यते।।
अपाणित्वाद्वयं ब्रह्मन्कण्टकं नोद्धरामहे।
जन्तूनुच्चावचानङ्गे दशतो न कषाम वा।।
अथ येषां पुनः पाणी देवदत्तौ दशाङ्गुली।
उद्धरन्ति कृमीनङ्गाद्दशतो निकषन्ति च।।
वर्षाहिमातपानां च परित्राणानि कुर्वते।
चेलमन्नं सुखं शय्यां निवातं चोपभुञ्जते।।
अधिष्ठाय च गां लोके भुञ्जते वाहयन्ति च।
उपायैर्बहुभिश्चैव वश्यानात्मनि कुर्वते।।
ये खल्वजिह्वाः कृपणा अल्पप्राणा अपाणयः।
सहन्ते तानि दुःखानि दिष्ट्या त्वं न तथा मुने।।
दिष्ट्या त्वं न शृगालो वै न कृमिर्न च मूषकः।
न सर्पो न च मण्डूको न चान्यः पापयोनिजः।।
एतावताऽपि लाभेन तोष्टुमर्हसि काश्यप।
किं पुनर्योसि सत्वानां सर्वेषां ब्राह्मणोत्तमः।।
इमे मां कृमयोऽदन्ति येषामुद्धरणाय वै।
नास्ति शक्तिरपाणित्वात्पश्यावस्थामिमां मम।।
अकार्यमिति चैवेमं नात्मानं संत्यजाम्यहम्।
नातः पापीयसीं योनिं पतेयमपरामिति।।
मध्ये वै पापयोनीनां सृगालीयामहं गतः।
पापीयस्यो बहुतरा इतोऽन्याः पापयोनयः।।
जात्यैवैके सुखितराः सन्त्यन्ये भृशदुःखिताः।
नैकान्तं सुखमेवेह क्वचित्पश्यामि कस्यचित्।।
मनुष्या ह्याढ्यतां प्राप्य राज्यमिच्छन्त्यनन्तरम्।
राज्याद्देवत्वमिच्छन्ति देवत्वादिन्द्रतामपि।।
भवेस्त्वं यद्यपि त्वाढ्यो न राजा न च दैवतम्।
देवत्वं प्राप्य चेन्द्रत्वं नैव तुष्येस्तथा सति।।
न तृप्तिः प्रियलाभेऽस्ति तृष्णा नाद्भिः प्रशाम्यति।
संप्रज्वलति सा भूयः समिद्भिरिव पावकः।।
अस्त्येव त्वयि शोकोऽपि हर्षश्चापि तथा त्वयि।
सुखदुःखे तथा चोभे तत्र का परिदेवना।।
परिच्छिद्यैव कामानां सर्वेषां चैव कर्मणाम्।
मूलं बुद्धीन्द्रियग्रामं शकुन्तानिव पञ्जरे।।
न द्वितीयस्य शिरसश्छेदनं विद्यते क्वचित्।
न च पाणेस्तृतीयस्य यन्नास्ति न ततो भयम्।।
न खल्वप्यरसज्ञस्य कामः क्वचन जायते।
संस्पर्शाद्दर्शनाद्वापि श्रवणाद्वापि जायते।।
न त्वं स्मरसि वारुण्या लट्वाकानां च पक्षिणाम्।
ताभ्यां चाभ्यधिको भक्ष्यो न कश्चिद्विद्यते क्वचित्।।
यानि चान्यानि भूतेषु भक्ष्यभोज्यानि काश्यप।
येषामभुक्तपूर्वाणि तेषामस्मृतिरेव ते।।
अप्राशनमसंस्पर्शमसंदर्शनमेव च।
पुरुषस्यैष नियमो मन्ये श्रेयो न संशयः।।
पाणिमन्तो बलवन्तो धनवन्तो न संशयः।
मनुष्या मानुषैरेव दासत्वमुपपादिताः।।
वधबन्धपरिक्लेशैः क्लिश्यन्ते च पुनः पुनः।
ते खल्वपि रमन्ते च मोदन्ते च हसन्ति च।।
अपरे बाहुबलिनः कृतविद्या मनस्विनः।
जुगुप्सितां च कृपणां पापवृत्तिमुपासते।।
उत्सहन्ते च ते वृत्तिमन्यामप्युपसेवितुम्।
स्वकर्मणा तु नियतं भवितव्यं तु तत्तथा।।
न पुल्कसो न चण्डाल आत्मानं त्यक्तुमिच्छति।
तया तुष्टः स्वया योन्या मायां पश्यस्व यादृशीम्।।
दृष्ट्वा कुणीन्पक्षहतान्मनुष्यानामयाविनः।
सुसंपूर्णः स्वया योन्या लब्धलाभोसि काश्यप।।
यदि ब्राह्मणदेहस्ते निरातङ्को निरामयः।
अङ्गानि च समग्राणि न च लोकेषु धिक्कृतः।।
न केनचित्प्रवादेन सत्येनैवापहारिणा।
धर्मायोत्तिष्ठ विप्रर्षे नात्मानं त्यक्तुमर्हसि।।
यदि ब्रह्मञ्शृणोष्येतच्छ्रद्दधासि च मे वचः।
वेदोक्तस्यैव धर्मस्य फलं मुख्यमवाप्स्यसि।।
स्वाध्यायमग्निसंस्कारमप्रमत्तोऽनुपालय।
सत्यं दमं च दानं च स्पर्धिष्ठा मा च केनचित्।।
ये केचन स्वध्ययनाः प्राप्ता यजनयाजनम्।
कथं ते चानुशोचेयुर्ध्यायेयुर्वाऽप्यशोभनम्।।
इच्छन्तस्ते विहाराय सुखं महदवाप्नुयुः।
येऽनुजाताः सुनक्षत्रे सुतिथौ सुमुहूर्तके।
यज्ञदानप्रजेहायां यतन्ते शक्तिपूर्वकम्।।
नक्षत्रेष्वासुरेष्वन्ये दुस्तिथौ दुर्मुहूर्तजाः।
सम्पतन्त्यासुरीं योनिं यज्ञप्रसववर्जिताः।।
अहमासं पण्डितको हैतुको वेदनिन्दकः।
आन्वीक्षिकीं तर्कविद्यामनुरक्तो निरर्थिकाम्।।
हेतुवादान्प्रवदिता वक्ता संसत्सु हेतुमत्।
आक्रोष्टा चातिवक्ता च ब्रह्मवाक्येषु च द्विजान्।।
नास्तिकः सर्वशङ्की च मूर्खः पण्डितमानिकः।
तस्येयं फलनिर्वृत्तिः सृगालत्वं मम द्विज।।
अपि जातु तथा तत्स्यादहोरात्रशतैरपि।
यदहं मानुषीं योनिं सृगालः प्राप्नुयां पुनः।।
संतुष्टश्चाप्रमत्तश्च यज्ञदानतपोरतः।
ज्ञेयं ज्ञाता भवेयं वै वर्ज्यं वर्जयिता तथा।।
भीष्म उवाच।
ततः स मुनिरुत्थाय काश्यपस्तमुवाच ह।
अहो बतामि कुशलो बुद्धिमांश्चेति विस्मितः।।
समवैक्षत तं विप्रो ज्ञानदीर्घेण चक्षुषा।
ददर्श चैनं देवानां देवमिन्द्रं शचीपतिम्।।
ततः संपूजयामास काश्यपो हरिवाहनम्।
अनुज्ञातस्तु तेनाथ प्रविवेश स्वमालयम्।।
।। इति श्रीमन्महाभारते शान्तिपर्वणि
मोक्षधर्मपर्वणि अष्टसप्तत्यधिकशततमोऽध्यायः।। 178।।