शांतिपर्व
अध्यायः १७७
युधिष्ठिर उवाच।
केन वृत्तेन वृत्तज्ञ वीतशोकश्चरेन्महीम्।
किंच कुर्वन्नरो लोके प्राप्नोति गतिमुत्तमाम्।।
भीष्म उवाच।
अत्राप्युदाहरन्तीममितिहासं पुरातनम्।
प्रह्लादस्य च संवादं मुनेराजगरस्य च।।
चरन्तं ब्राह्मणं कंचित्कल्यचित्तमनामयम्।
पप्रच्छ राजा प्रह्लादो बुद्धिमान्प्राज्ञसत्तमः।।
प्रह्लाद उवाच।
स्वस्थः शक्तो मृदुर्दान्तो निर्विधित्सोऽनसूयकः।
सुवाग्बहुमतो लोके प्राज्ञश्चरसि बालवत्।।
नैव प्रार्थयसे लाभं नालाभेष्वनुशोचसि।
नित्यतृप्त इव ब्रह्मन्न किंचिदिव मन्यसे।।
स्रोतसा ह्रियमाणासु प्रजासु विमना इव।
धर्मकामार्थकार्येषु कूटस्थ इव लक्ष्यसे।।
नानुतिष्ठसि धर्मार्थौ न कामे चापि वर्तसे।
इन्द्रियार्थाननादृत्य मुक्तश्चरसि साक्षिवत्।।
का नु प्रज्ञा श्रुतं वा किं वृत्तिर्वा का नु ते मुने।
क्षिप्रमाचक्ष्व मे ब्रह्मञ्श्रेयो यदिह मन्यसे।।
भीष्म उवाच।
अनुयुक्तः स मेधावी लोकधर्मविधानवित्।
उवाच श्लक्ष्णया वाचा प्रह्लादमनपार्थया।।
पश्य प्रह्लाद भूतानामुत्पत्तिमनिमित्ततः।
ह्रासं वृद्धिं विनाशं च न प्रहृष्ये न च व्यथे।।
स्वभावादेव संदृश्या वर्तमानाः प्रवृत्तयः।
स्वभावनिरताः सर्वाः प्रतिपाद्या न केनचित्।।
पश्य प्रह्लाद संयोगान्विप्रयोगपरायणान्।
संचयांश्च विनाशान्तान्न क्वचिद्विदधे मनः।।
अन्तवन्ति च भूतानि गुणयुक्तानि पश्यतः।
उत्पत्तिनिधनज्ञस्य किं पर्यायेणोपलक्षये।
जलजानामपि ह्यन्तं पर्यायेणोपलक्षये।
महतामपि कायानां सूक्ष्माणां च महोदधौ।।
जङ्गमस्थावराणां च भूतानामसुराधिप।
पार्थिवानामपि व्यक्तं मृत्युं पश्यामि सर्वशः।।
अन्तरिक्षचराणां च दानवोत्तमपक्षिणाम्।
उत्तिष्ठते यथाकालं मृत्युर्बलवतामपि।।
दिवि संचरमाणानि ह्रस्वानि च महान्ति च।
ज्योतींष्यपि यथाकालं पतमानानि लक्षये।।
इति भूतानि संपश्यन्ननुषक्तानि मृत्युना।
सर्वं सामान्यतो विद्वान्कृतकृत्यः सुखं स्वपे।।
सुमहान्तमपि ग्रासं ग्रसे लब्धं यदृच्छया।
शये पुनरभुञ्जानो दिवसानि बहून्यपि।।
आशयन्त्यपि मामन्नं पुनर्बहुगुणं बहु।
पुनरल्पं पुनस्तोकं पुनर्नैवोपपद्यते।।
कणं कदाचित्खादामि पिण्याकमपि च ग्रसे।
भक्षये शालिमांसानि भक्षांश्चोच्चावचान्पुनः।।
शये कदाचित्पर्यङ्के भूमावपि पुनः शये।
प्रासादे चापि मे शय्या कदाचिदुपपद्यते।।
धारयामि च चीराणि शाणक्षौमाजिनानि च।
महार्हाणि च वासांसि धारयाम्यहमेकदा।।
न सन्निपतितं धर्म्यमुपभोगं यदृच्छया।
प्रत्याचक्षे न चाप्येनमनुरुध्ये सुदुर्लभम्।।
अचलमनिधनं शिवं विशोकं
शुचिमतुलं विदुषां मते प्रविष्टम्।
अनभिमतमसेवितं विमूढै
र्व्रतमिदमाजगरं शुचिश्चरामि।।
अचलितमतिरच्युतः स्वधर्मा
त्परिमितसंसरणः परावरज्ञः।
विगतभयकषायलोभमोहो
व्रतमिदमाजगरं शुचिश्चरामि।।
अनियतफलभक्ष्यभोज्यपेयं
विधिपरिणामविभक्तदेशकालम्।
हृदयसुखमसेवितं कदर्यै
र्व्रतमिदमाजगरं सुचिश्चरामि।।
इदमिदमिति तृष्णयाऽभिभूतं
जनमनवाप्तधनं विषीदमानम्।
निपुणमनुनिशाम्य तत्त्वबुद्ध्या
व्रतमिदमाजगरं शुचिश्चरामि।।
बहुविधमनुदृश्य चार्थहेतोः
कृपणमिहार्यमनार्यमाश्रयं तम्।
उपशमरुचिरात्मवान्प्रशान्तो
व्रतमिदमाजगरं शुचिश्चरामि।।
सुखमसुखमलाभमर्थलाभं
रतिमरतिं मरणं च जीवितं च।
विधिनियतमवेक्ष्य तत्त्वतोऽहं
व्रतमिदमाजगरं शुचिश्चरामि।।
अपगतभयरागमोहदर्पो
धृतिमतिबुद्धिसमन्वितः प्रशान्तः।
उपगतफलभोगिनो निशाम्य
व्रतमिदमाजगरं शुचिश्चरामि।।
अनियतशयनासनः प्रकृत्या
दमनियमव्रतसत्यशौचयुक्तः।
अपगतफलसंचयः प्रहृष्टो
व्रतमिदमाजगरं शुचिश्चरामि।।
अपगतमसुखार्थमीहनार्थै
रुपगतबुद्धिरवेक्ष्य चात्मसंस्थम्।
तृपितमनियतं मनो नियन्तुं
व्रतमिदमाजगरं शुचिश्चरामि।।
न हृदयमनुरुध्यते मनो वा
प्रियसुखदुर्लभतामनित्यतां च।
तदुभयमुपलक्षयन्निवाहं
व्रतमिदमाजगरं शुचिश्चरामि।।
बहु कथितमिदं हि बुद्धिमद्भिः
कविभिरपि प्रथयद्भिरात्मकीर्तिम्।
इदमिदमिति तत्रतत्र हन्त
स्वपरमतैर्गहनं प्रतर्कयद्भिः।।
तदिदमनुनिशाम्य विप्रपातं
पृथगभिपन्नमिहाबुधैर्मनुष्यैः।
अनवसितमनन्तदोषपारं
नृपु विहरामि विनीतदोषतृष्णः।।
भीष्म उवाच।
अजगरचरितं व्रतं महात्मा
य इह नरोऽनुचरेद्विनीतरागः।
अपगतभयलोभमोहमन्युः
स खलु सुखी विचरेदिमं विहारम्।।
।। इति श्रीमन्महाभारते शान्तिपर्वणि
मोक्षधर्मपर्वणि सप्तसप्तत्यधिकशततमोऽध्यायः।। 177।।