शांतिपर्व
अध्यायः १७६
युधिष्ठिर उवाच।
ईहमानः समारम्भान्यदि नासादयेद्धनम्।
धनतृष्णाभिभूतश्च किं कुर्वन्सुखमाप्नुयात्।।
भीष्म उवाच।
सर्वसाम्यमनायासः सत्यवाक्यं च भारत।
निर्वेदश्चाविधित्सा च यस्य स्यात्स सखी नरः।।
एतान्येव पदान्याहुः पञ्च वृद्धाः प्रशान्तये।
एष स्वर्गश्च धर्मश्च सुखं चानुत्तमं सताम्।।
अत्राप्युदाहरन्तीममितिहासं पुरातनम्।
निर्वेदान्मङ्किना गीतं तन्निबोध युधिष्ठिर।।
ईहमानो धनं मङ्किर्भग्नेहश्च पुनः पुनः।
केनचिद्धनलेशेन क्रीतवान्दम्यगोयुगम्।।
सुसंबद्धौ तु तौ दम्यौ दमनायाभिनिःसृतौ।
आसीनमुष्ट्रं मध्येन सहसैवाभ्यधावताम्।।
तयोः संप्राप्तयोरुष्ट्रः स्कन्धदेशममर्पणः।
उत्थायोत्क्षिप्य तौ दम्यौ पससार महाजवः।।
ह्रियमाणौ तु तौ दम्यौ तेनोष्ट्रेण प्रमाथिना।
प्रियमाणौ च संप्रेक्ष्य मङ्किस्तत्राब्रवीदिदम्।।
न जात्वविहितं शक्यं दक्षेणाषीहितुं धनम्।
युक्तेन श्रद्धया सम्यगीहां समनुतिष्ठता।।
पूर्वमर्यैर्विहीनस्य युक्तस्याप्युतिष्ठतः।
इमं पश्यत संगत्या मम दैवमुपप्लवम्।।
उद्यम्योद्यम्य मे दम्यौ विषमेणैव गच्छतः।
उत्क्षिप्य काकतालीयमुन्माथेनेव जम्बुकः।।
मणीवोष्ट्रस्य लम्वेते प्रियौ वत्सतरौ मम।
शुद्वं हि दैवमेवेदं हठे नैवास्ति पौरुषम्।।
यदि वाऽप्युपपद्येत पौरुषं नाम कर्हिचित्।
अन्विष्यमाणं तदपि दैवमेवावतिष्ठते।।
तस्मान्निर्वेद एवेह गन्तव्यः सुखभीप्सता।
सुखं स्वपिति निर्विण्णो निराशश्चार्थसाधने।।
अहो सम्यक्शुकेनोक्तं सर्वतः परिमुच्यता।
प्रतिष्ठता महारण्यं जनकस्य निवेशनात्।।
यः कामानाप्नुयात्सर्वान्यश्चैतान्केवलांस्त्यजेत्।
प्रापणात्सर्वकामानां परित्यागो विशिष्यते।।
नान्तं सर्वविधित्सानां गतपूर्वोऽस्ति कश्चन।
शरीरे जीविते चैव तृष्णा मर्त्यस्य वर्धते।।
निवर्तस्य विधित्साभ्यः शाम्य निर्विद्य कामुक।
असकृच्चासि निकृतो न च निर्विद्यसे मनः।।
यदि नाहं विनाश्यस्ते यद्येवं रमसे मया।
मा मां योजय लोभेन वृथाऽत्वं वित्तकामुक।।
संचितं संचितं द्रव्यं नष्टं तव पुनः पुनः।
कदा तां मोक्ष्यसे मूढ धनेहां धनकामुक।।
अहो नु मम बालिश्यं योऽहं क्रीडनकस्तव।
`क्लेशैर्नानाविधैर्नित्यं संयोजयसि निर्घृणः।'
किं नैवं जातु पुरुषः परेषां प्रेष्यतामियात्।।
न पूर्वे नापरे जातु कामानामन्तमाप्नुवन्।
त्यक्त्वा सर्वसमारम्भान्प्रतिबुद्धोऽस्मि जागृमि।।
नूनं मे हृदयं कामं वज्रसारमयं दृढम्।
यदनर्थशताविष्टं शतधा न विदीर्यते।।
त्यजामि काम त्वां चैव यच्च किंचित्प्रियं तव।
तवाहं प्रियमन्विच्छन्नात्मन्युपलभे सुखम्।।
काम जानामि ते मूलं संकल्पात्किल जायसे।
न त्वां संकल्पयिष्यामि समूलो नभविष्यसि।।
ईहा धनस्य न सुखा लुब्ध्वा चिन्ता च भूयसी।
लब्धनाशो यथा मृत्युर्लब्धं भवति वा न वा।।
परित्यागे न लभते ततो दुःखतरं नु किम्।
न च तुष्यति लब्धेन भूय एव च मार्गति।।
अनुतर्पुल एवार्थः स्वादु गाङ्गभिवोदकम्।
मद्विलापनमेततु प्रतिबुद्धोऽस्मि संत्यज।।
य इमं मामकं देहं भूतग्रामः समाश्रितः।
स यात्वितो यथाकामं वसतां वा यथासुखम्।।
न युष्मास्विह मे प्रीतिः कामलोभानुसारिषु।
तस्मादुत्सृज्य वः सर्वान्सत्वमेवाश्रयाम्यहम्।।
सर्व भूतान्यहं देहे पश्यन्मनसि चात्मनः।
योगे बुद्धिं श्रुते सत्वं मनो ब्रह्मणि धारयन्।।
विहरिष्याम्यनासक्तः सुखी लोकान्निरामयः।
यथा मां त्वं पुनर्नैवं दुःखेषु प्रणिधास्यसि।।
त्वया हि मे प्रणुन्नस्य गतिरन्या न विद्यते।
तृष्णा शोकश्रमाणां हि त्वं काम प्रभवः सदा।।
धननाशेऽधिकं दुःखं मन्ये सर्वमहत्तरम्।
ज्ञातयो ह्यवमन्यन्ते मित्राणि च धनाच्च्युतम्।।
अवज्ञानसहस्रैस्तु दोषाः कष्टतराऽधने।
धने सुखकला या तु साऽपि दुःखैर्विधीयते।।
धनमस्येति पुरुषं पुरो निघ्नन्ति दस्यवः।
क्लिश्यन्ति विविधैर्दण्डैर्नित्यमुद्वेजयन्ति च।।
धनलोलुपता दुःखमिति बुद्धं चिरान्मया।
यद्यदालम्बसे कामं तत्तदेवानुरुध्यसे।।
अतत्त्वज्ञोऽसि बालश्च दुस्तोषोऽपूरणोऽनलः।
नैव त्वं वेत्थ सुलभं नैव त्वं वेत्थ दुर्लभम्।।
पाताल इव दुष्पूरो मां दुःखैर्योक्तुमिच्छसि।
नाहमद्य समावेष्टुं शक्यः काम पुनस्त्वया।।
निर्वेदमहमासाद्य द्रव्यनाशाद्यदृच्छया।
निवृत्तिं परमां प्राप्य नाद्य कामान्विचिन्तये।।
अतिक्लेशान्सहामीह नाहं बुद्ध्याम्यबुद्धिमान्।
निकृतो धननाशेन शये सर्वाङ्गविज्वरः।।
परित्यजामि काम त्वां हित्वा सर्वं मनोगतम्।
न त्वं मया पुनः काम नस्योतेनेव रंस्यसे।।
क्षमिष्ये क्षिपमाणानां न हिंसिष्ये विहिंसितः।
द्वेष्यमुक्तः प्रियं वक्ष्याम्यनादृत्य तदप्रियम्।।
तृप्तः स्वस्थेन्द्रियो नित्यं यथालब्धेन वर्तयन्।
न सकामं करिष्यामि त्वामहं शत्रुमात्मनः।।
निर्वेदं निर्वृतिं तृप्तिं शान्तिं सत्यं दमं क्षमाम्।
सर्वभूतदयां चैव विद्धि मां शरणागतम्।।
तस्मात्कामश्च लोभश्च तृष्णा कार्पण्यमेव च।
त्यजन्तु मां प्रतिष्ठन्तं सत्वस्थो ह्यस्मि सांप्रतम्।।
प्रहाय कामं लोभं च क्रोधं पारुष्यमेव च।
नाद्य लोभवशं प्राप्तो दुःखं प्राप्स्याम्यनात्मवान्।।
यद्यस्त्यजति कामानां तत्सुखस्याभिपूर्यते।
कामस्य वशगो नित्यं दुःखमेव प्रपद्यते।।
कामानुबन्धं नुदते यत्किंचित्पुरुषो रजः।
कामक्रोधोद्भवं दुःखमह्रीररतिरेव च।।
एष ब्रह्मप्रतिष्ठोऽहं ग्रीष्मे शीतमिव ह्रदम्।
शाम्यामि परिनिर्वामि सुखमासे च केवलम्।।
यच्च कामसुखं लोके यच्च दिव्यं महत्सुखम्।
तृष्णाक्षयसुखस्यैते नार्हतः षोडशीं कलाम्।।
आत्मना सप्तमं कामं हत्वा शत्रुमिवोत्तमम्।
प्राप्यावध्यं ब्रह्मपुरं राजेव च वसाम्यहम्।।
एतां बुद्धिं समास्थाय मङ्किर्निर्वेदमागतः।
सर्वान्कामान्परित्यज्य प्राप्य ब्रह्म महत्सुखम्।।
दम्यनाशकृते मङ्किरमृतत्वं किलागमत्।
अच्छिनत्काममूलं स तेन प्राप परां गतिम्।।
अत्राप्युदाहरन्तीमं श्लोकं मोक्षोपसंहितम्।
गीतं विदेहराजेन जनकेन प्रशाम्यता।।
अनन्तमिव मे वित्तं यस्य मे नास्ति किंचन।
मिथिलायां प्रदीप्तायां न मे दह्यति किंचन।।
अत्रैवोदाहरन्तीमं बोध्यस्य पदसंचयम्।
निर्वेदं प्रति विन्यस्तं तं निबोध युधिष्ठिर।।
बोध्यं शान्तमृषिं राजा नाहुषः पर्यपृच्छत।
निर्वेदाच्छान्तिमापन्नं शास्त्रप्रज्ञानतर्पितम्।।
उपदेशं महाप्राज्ञ शमस्योपदिशस्व मे।
कां बुद्धिं समनुप्राप्य शान्तश्चरसि निर्वृतः।।
बोध्य उवाच।
उपदेशेन वर्तामि नानुशास्मीह कंचन।
लक्षणं तस्य वक्ष्येऽहं तत्स्वयं परिमृष्यताम्।।
पिङ्गला कुररः सर्पः सारङ्गान्वेषणं वने।
इषुकारः कुमारी च षडेते गुरवो मम।।
[*भीष्म उवाच।
आशा बलवती राजन्नैराश्यं परमं सुखम्।
आशां निराशां कृत्वा तु सुखं स्वपिति पिङ्गला।।
सामिषं कुररं दृष्ट्वा वध्यमानं निरामिषैः।
आमिषस्य परित्यागात्कुररः सुखमेधते।।
गृहारम्भो हि दुःखाय न सुखाय कदाचन।
सर्पः परकृतं वेश्म प्रविश्य सुखमेधते।।
सुखं जीवन्ति मुनयो भैक्ष्यवृत्तिं समाश्रिताः।
अद्रोहणैव भूतानां सारङ्ग इव पक्षिणः।।
`अल्पेभ्यश्च महद्भ्यश्च शास्त्रेभ्यो मतिमान्नरः।
सर्वतः सारमादद्यात्पुष्पेभ्य इव षट्पदः।।'
इषुकारो नरः कश्चिदिपावासक्तमानसः।
समीपेनापि गच्छन्तं राजानं नावबुद्धवान्।।
बहूनां कलहो नित्यं द्वयोः संकथनं ध्रुवम्।
एकाकी विचरिष्यानि कुमारीशङ्खको यथा।।]
।। इति श्रीमन्महाभारते शान्तिपर्वणि
मोक्षधर्मपर्वणि षट्सप्तत्यधिकशततमोऽध्यायः।। 176।।