शांतिपर्व

अध्यायः १७५

Santi Parva (Sanskrit) · Adhyaya 175
अक्षर का आकार

युधिष्ठिर उवाच।

धनिनश्चाधना ये च वर्तयन्ति स्वतन्त्रिणः।
सुखदुःखागमस्तेषां कः कथं वा पितामह।।

भीष्म उवाच।

अत्राप्युदाहरन्तीममितिहासं पुरातनम्।
शम्याकेन विमुक्तेन गीतं शान्तिगतेन च।।

अब्रवीन्मां पुरा कश्चिद्ब्राह्मणस्त्यागमाश्रितः।
क्लिश्यमानः कुदारेण कुचेलेन बुभुक्षया।।

उत्पन्नमिह लोके वै जन्मप्रभृति मानवम्।
विविधान्युपवर्तन्ते दुःखानि च सुखानि च।।

तयोरेकतरो मार्गो यदेनमुपसन्नयेत्।
न सुखं प्राप्य संहृष्येन्नासुखं प्राप्य संज्वरेत्।।

न वै चरसि यच्छ्रेय आत्मनो वा न रंस्यसे।
अकामात्माऽपि हि सदा धुरमुद्यम्य चैव ह।।

अकिञ्चनः परिपतन्सुखमास्वादयिष्यसि।
अकिञ्चनः सुखं शेते समुत्तिष्ठति चैव ह।।

आकिञ्चन्यं सुखं लोके पथ्यं शिवमनामयम्।
अनमित्रपथो ह्येष दुर्लभः सुलभः सताम्।।

अकिञ्चनस्य शुद्धस्य उपपन्नस्य सर्वतः।
अवेक्षमाणस्त्रील्लोँकान्न तुल्यमिह लक्षये।।

आकिञ्चन्यं च राज्यं च तुलया समतोलयम्।
अत्यरिच्यत दारिद्र्यं राज्यादपि गुणाधिकम्।।

आकिञ्चन्ये च राज्ये च विशेषः सुमहानयम्।
नित्योद्विग्नो हि धनवान्मृत्योरास्यगतो यथा।।

नैवास्याग्निर्न चादित्यो न मृत्युर्न च दस्यवः।
प्रभवन्ति धनं हर्तुमितरे स्युः कुतः पुनः।।

तं वै सदा कामचरमनुपस्तीर्णशायिनम्।
बाहूपधानं शाम्यन्तं प्रशंसन्ति दिवौकसः।।

धनवान्क्रोधलोभाभ्यामाविष्टो नष्टचेतनः।
तिर्यग्दृष्टिः शुष्कमुखः पापको भ्रुकुटीमुखः।।

निर्दशन्नधरोष्ठं च क्रुद्धो दारुणभाषिता।
कस्तमिच्छेत्परिद्रष्टुं दातुमिच्छति चेन्महीम्।।

श्रिया ह्यभीक्ष्णं संवासो मोहयत्यविचक्षणम्।
सा तस्य चित्तं हरति शारदाभ्रमिवानिलः।।

अथैनं रूपमानश्च धनमानश्च विन्दति।
अभिजातोऽस्मि सिद्धोऽस्मि नास्मि केवलमानुषः।
इत्येभिः कारणैस्तस्य त्रिभिश्चित्तं प्रमाद्यति।।

संप्रसक्तमना भोगान्विसृज्य पितृसंचितान्।
परिक्षीणः परस्वानामादानं साधु मन्यते।।

तमतिक्रान्तमर्यादमाददानं ततस्ततः।
प्रतिषेधन्ति राजानो लुब्धा मृगमिवेषुभिः।।

एवमेतानि दुःखानि तानि तानीह मानवम्।
विविधान्युपवर्तन्ते गात्रसंस्पर्शजान्यपि।।

तेषां परमदुःखानां बुद्ध्या भैषज्यमाचरेत्।
लोकधर्मं समाज्ञाय ध्रुवाणामध्रुवैः सह।।

नात्यक्त्वा सुखमाप्नोति नात्यक्त्वा विन्दते परम्।
नात्यक्त्वा चाभयः शेते त्यक्त्वा सर्वं सुखी भवेत्।।

इत्येतद्धास्तिनपुरे ब्राह्मणेनोपवर्णितम्।
शम्याकेन पुरा मह्यं तस्मात्त्यागः परो मतः।।

।। इति श्रीमन्महाभारते शान्तिपर्वणि
मोक्षधर्मपर्वणि पञ्चसप्तत्यधिकशततमोऽध्यायः।। 175।।