शांतिपर्व
अध्यायः १७४
युधिष्ठिर उवाच।
अतिक्रामति कालेऽस्मिन्सर्वभूतक्षयावहे।
किं श्रेयः प्रतिपद्येत तन्मे ब्रूहि पितामह।।
भीष्म उवाच।
अत्राप्युदाहरन्तीममितिहासं पुरातनम्।
पितुः पुत्रेण संवादं तं निबोध युधिष्ठिर।।
द्विजातेः कस्यचित्पार्थ स्वाध्यायनिरतस्य वै।
बभूव पुत्रो मेधावी मेधावीनाम नामतः।।
सोऽब्रवीत्पितरं पुत्रः स्वाध्यायकरणे रतम्।
मोक्षधर्मार्थकुशलो लोकतन्त्रविचक्षणः।।
पुत्र उवाच।
धीरः किंस्वित्तात कुर्यात्प्रजानन्
क्षिप्रं ह्यायुर्भ्रश्यते मानवानाम्।
पितस्तदाचक्ष्व यथार्थयोगं
ममानुपूर्व्या येन धर्मं चरेयम्।।
पितोवाच।
वेदानधीत्य ब्रह्मचर्येण पुत्र
पुत्रानिच्छेत्पावनार्थं पितृणाम्।
अग्नीनाधाय विधिवच्चेष्टयज्ञो
वनं प्रविश्याथ मुनिर्बुभूषेत्।।
पुत्र उवाच।
एवमभ्याहते लोके समन्तात्परिवारिते।
अमोघासु पतन्तीषु किं धीर इव भाषसे।।
पितोवाच।
कथमभ्याहतो लोकः केन वा परिवारितः।
अमोघाः काः पतन्तीह किंनु भीषयसीव माम्।।
पुत्र उवाच।
मृत्युनाभ्याहतो लोको जरया परिवारितः।
अहोरात्राः पतन्त्येते ननु कस्मान्न बुध्यसे।
अमोघा रात्रयश्चापि नित्यमायान्ति यान्ति च।।
पितोवाच।
यथाऽहमेतज्जानामि न मृत्युस्तिष्ठतीति ह।
सोऽहं कथं प्रतीक्षिष्ये जालेनेवावृतश्चरन्।।
पुत्र उवाच।
रात्र्यांरात्र्यां व्यतीतायामायुरल्पतरं यदा।
तदैव बन्ध्यं दिवसमिति विन्द्याद्विचक्षणः।।
गाधोदके मत्स्य इव सुखं विन्देत कस्तदा।
अनवाप्तेषु कामेषु मृत्युरभ्योति मानवम्।।
पुष्पाणीव विचिन्वन्तमन्यत्र गतमानसम्।
वृकीवोरणमासाद्य मृत्युरादाय गच्छति।।
अद्यैव कुरु यच्छ्रेयो मा त्वां कालोऽत्यगादयम्।
अकृतेष्वेव कार्येषु मृत्युर्वै संप्रकर्षति।।
श्वः कार्यमद्य कुर्वीत पूर्वाह्णे चापराह्णिकम्।
नहि प्रतीक्षते मृत्युः कृतमस्य न वा कृतम्।।
को हि जानाति कस्याद्य मृत्युकालो भविष्यति।
युवैव धर्मशीलः स्यादनित्यं खलु जीवितम्।
कृते धर्मे भवेत्कीर्तिरिह प्रेत्य च वै सुखम्।।
मोहेन हि समाविष्टः पुत्रदारार्थमुद्यतः।
कृत्वा कार्यमकार्यं वा पुष्टिमेषां प्रयच्छति।।
तं पुत्रपशुसंपन्नं व्यासक्तमनसं नरम्।
सुप्तं व्याघ्रो मृगमिव मृत्युरादाय गच्छति।।
संचिन्वानकमेवैनं कामानामवितृप्तकम्।
व्याघ्रः पशुमिवादाय मृत्युरादाय गच्छति।।
इदं कृतमिदं कार्यमिदमन्यत्कृताकृतम्।
एवमीहासुखासक्तं कृतान्तः कुरुते वशे।।
कृतानां फलमप्राप्तं कर्मणां कर्मसंज्ञितम्।
क्षेत्रापणगृहासक्तं मृत्युरादाय गच्छति।।
दुर्बलं बलवन्तं च शूरं भीरुं जडं कविम्।
अप्राप्तं सर्वकामार्थान्मृत्युरादाय गच्छति।।
नृत्युर्जरा च व्याधिश्च दुःखं चानेककारणम्।
अनुषक्तं यदा देहे किं स्वस्थ इव तिष्ठसि।।
जातमेवान्तकोऽन्ताय जरा चान्वेति देहिनम्।
अनुषक्ता द्वयेनैते भावाः स्थावरजङ्गमाः।।
अत्योर्वा मुखमेतद्वै या ग्रामे वसतो रतिः।
वानामेष वै गोष्ठो यदरण्यमिति श्रुतिः।।
तेबन्धनी रज्जुरेषा या ग्रामे वसतो रवि।
छेत्त्वेता सुकृतो यान्ति नैनां छिन्दन्ति दुष्कृतः।।
हिंसयति यो जन्तून्मनोवाक्कायहेतुभिः।
जीवितार्थापनयनैः प्राणिभिर्न स हिंस्यते।।
न मृत्युसेनामायान्तीं जातु कश्चित्प्रबाधते।
ऋते सत्यमसत्त्याज्यं सत्ये ह्यमृतमाश्रितम्।।
तस्मात्सत्यव्रताचारः सत्ययोगपरायणः।
सत्यागमः सदा दान्तः सत्येनैवान्तकं जयेत्।।
अमृतं चैव मृत्युश्च द्वयं देहे प्रतिष्ठितम्।
मृत्युरापद्यते मोहात्सत्येनापद्यतेऽमृतम्।।
सोऽहं ह्यहिंस्रः सत्यार्थी कामक्रोधबहिष्कृतः।
समदुःखसुखः क्षेमी मृत्युंहास्याम्यमर्त्यवत्।।
शान्तियज्ञरतो दान्तो ब्रह्मयज्ञे स्थितो मुनिः।
वाङ्भनः कर्मयज्ञश्च भविष्याम्युदगायने।।
पशुयज्ञैः कथं हिंस्रैर्मादृशो चष्टुमर्हति।
अन्तवद्भिरिव प्राज्ञः क्षेत्रयज्ञैः पिशाचवत्।।
यस्य वाङ्भनसी स्यातां सम्यक्प्रणिहिते सदा।
तपस्त्यागश्च सत्यं च स वै सर्वमवाप्नुयात्।।
नास्ति विद्यासमं चक्षुर्नास्ति सत्यसमं तपः।
नास्ति रागसमंदुःखं नास्ति त्यागसमं सुखम्।।
आत्मन्येवात्मना जात आत्मनिष्ठोऽप्रजोपि वा।
आत्मन्येव भविष्यामि न मां तारयति प्रजा।।
नैतादृशं ब्राह्मणस्यास्ति वित्तं
यथैकता समता सत्यता च।
शीलं स्थितिर्दण्डनिधानमार्जवं
ततस्ततश्चोपरभः क्रियाभ्यः।।
किं ते धनैर्बान्धवैर्वापि किं ते
किं ते दारैर्ब्राह्मण यो मरिष्यसि।
आत्मानमन्विच्छ गुहां प्रविष्टं
पितामहास्ते क्व गताः पिता च।।
भीष्म उवाच।
पुत्रस्यैतद्वचः श्रुत्वा यथाऽकार्षीत्पिता नृप।
तथा त्वमपि वर्तस्व सत्यधर्मपरायणः।।
।। इति श्रीमन्महाभारते शान्तिपर्वणि
मोक्षधर्मपर्वणि चतुःसप्तत्यधिकशततमोऽध्यायः।। 174।।