शांतिपर्व
अध्यायः १७३
युधिष्ठिर उवाच।
धर्माः पितामहेनोक्ता राजधर्माश्रिताः शुभाः।
धर्ममाश्रमिणां श्रेष्ठं वक्तुमर्हसि सत्तम।।
भीष्म उवाच।
सर्वत्र विहितो धर्मः स्वर्ग्यः सत्यफलोदयः।
बहुद्वारस्य धर्मस्य नेहास्ति विफला क्रिया।।
यस्मिन्यस्मिंस्तु विषये योयो याति विनिश्चयम्।
स तमेवाभिजानाति नान्यं भरतसत्तम्।।
यथायथा च पर्येति लोकतन्त्रमसारवत्।
तथातथा विरागोऽत्र जायते नात्र संशयः।।
एवं व्यवसिते लोके बहुदोषे युधिष्ठिर।
आत्ममोक्षनिमित्तं वै यतेत मतिमान्नरः।।
युधिष्ठिर उवाच।
नष्टे धने वा दारे वा पुत्रे पितरि वा मृते।
यया बुद्ध्या नुदेच्छोक तन्मे ब्रूहि पितामह।।
भीष्म उवाच।
नष्टे धने वा दारे वा पुत्रे पितरि वा मृते।
अहोदुःखमिति ध्यायञ्शोकस्यापचितिं चरेत्।।
अत्राप्युदाहरन्तीममिहासं पुरातनम्।
यथा सेनजितं विप्रः कश्चिदेत्याब्रवीत्सुहृत्।।
पुत्रशोकाभिसंतप्तं राजानं शोकविह्वलम्।
विषण्णमनसं दृष्ट्वा विप्रो वचनमब्रवीत्।।
किंनु मुह्यसि मूढस्त्वं शोच्यः किमनु शोचसि।
यदा त्वामपि शोचंतः शोच्या यास्यन्ति तां गातिम्।।
त्वं चैवाहं च ये चान्ये त्वां राजन्पर्युपासते।
सर्वे तत्र गमिष्यामो यत एवागता वयम्।।
सेनजिदुवाच।
का बुद्धिः किं तपो विप्र कः समाधिस्तपोधन।
किं ज्ञानं किं श्रुतं वा ते यत्प्राप्य न विषीदसि।।
ब्राह्मण उवाच।
हृष्यन्तमवसीदन्तं सुखदुःखविपर्यये।
आत्मानमनुशोचामि यो ममैष हृदि स्थितः।।
पश्य भूतानि दुःखेन व्यतिषिक्तानि सर्वशः।
उत्तमाधममध्यानि तेषु तेष्विह कर्मसु।।
आत्माऽपि चायं न मम सर्वा वा पृथिवी मम।
यथा मम तथाऽन्येषामिति मत्वा न मे व्यथा।
एतां बुद्धिमहं प्राप्य न प्रहृष्ये न च व्यथे।।
यथा काष्ठं च काष्ठं च समेयातां महोदधौ।
समेत्य च व्यपेयातां तद्वद्भूतसमागमः।।
एवं पुत्राश्च पौत्राश्च ज्ञातयो बान्धवास्तथा।
तेषु स्नेहो न कर्तव्यो विप्रयोगो ध्रुवो हि तैः।।
अदर्शनादापतितः पुनश्चादर्शनं गतः।
न त्वाऽसौ वेद न त्वंतं कस्मात्त्वमनुशोचसि।।
सुखान्तप्रभवं दुःखं दुःखान्तप्रभवं सुखम्।
सुखात्संजायते दुःखं दुःखात्संजायते सुखम्।।
सुखस्यानन्तरं दुःखं दुःखस्यानन्तरं सुखम्।
सुखदुःखे मनुष्याणां चक्रवत्परिवर्ततः।।
सुखात्त्वं दुःखमापन्नः पुनरापत्स्यसे सुखम्।
न नित्यं लभते दुःखं न नित्यं लभते सुखम्।।
[शरीरमेवायतनं सुखस्य
दुःखस्य चाप्यायतनं शरीरम्।
यद्यच्छरीरेण करोति कर्म
तेनैव देही समुपाश्नुते तत्।।
जीवितं च शरीरेण तेनैव सह जायते।
उभे सह विवर्तेते उभे सह विनश्यतः।।
स्नेहपाशैर्बहुविधैराविष्टविषया जनाः।
अकृतार्थाश्च सीदन्ते जलैः सैकतसेतवः।।
स्नेहेन तैलवत्सर्वं सर्गचक्रे निपीड्यते।
तिलपीडैरिवाक्रम्य क्लेशैरज्ञानसंभवैः।।
संचिनोत्यशुभं कर्म कलत्रापेक्षया नरः।
एकः क्लेशानवाप्नोति परत्रेह च मानवः।।
पुत्रदारकुटुम्बेषु प्रसक्ताः सर्वमानवाः।
शोकपङ्कार्णवे मग्ना जीर्णा वनगजा इव।।
पुत्रनाशे वित्तनाशे ज्ञातिसंबन्धिनामपि।
प्राप्यते सुमहद्दुःखं दावाग्निप्रतिमं विभो।
दैवायत्तमिदं सर्वं सुखदुःखे भवाभवौ।।
असुहृत्ससुहृच्चापि सशत्रुर्मित्रवानपि।
सप्रज्ञः प्रज्ञया हीनो दैवेन लभते सुखम्।।]
नालं सुखाय सुहृदो नालं दुःखाय दुर्हृदः।
न च प्रज्ञाऽलमर्थानां न सुखानामलं धनम्।।
न बुद्धिर्धनलाभाय न मौढ्यमसमृद्ध्ये।
लोकपर्यायवृत्तान्तं प्राज्ञो जानाति नेतरः।।
बुद्धिमन्तं च शूरं च मूढं भीरुं जडं कविम्।
दुर्बलं बलवन्तं च भागिनं भजते सुखम्।।
धेनुर्वत्सस्य गोपस्य स्वामिनस्तस्करस्य च।
पयः पिबति यस्तस्या धेनुस्तस्येति निश्चयः।।
ये च मूढतमा लोके ये च बुद्धेः परं गताः।
ते नराः सुखमेधन्ते क्लिश्यत्यन्तरितो जनः।।
अन्तेषु रेमिरे धीरा न ते मध्येषु रेमिरे।
अन्तप्राप्तिं सुखं प्राहुर्दुःखमन्तरमन्तयोः।।
सुखं स्वपिति दुर्मेधाः स्वानि कर्माण्यचिन्तयन्।
अविज्ञानेन महता कम्बलेनेव संवृतः।।
ये च बुद्धिं परां प्राप्ता द्वन्द्वातीता विमत्सराः।
तान्नैवार्था न चानर्था व्यथयन्ति कदाचन।।
अथ ये बुद्धिमप्राप्ता व्यतिक्रान्ताश्च मूढताम्।
तेऽतिवेलं प्रहृष्यन्ति संतापमुपयान्ति च।।
नित्यं प्रमुदिता मूढा दिवि देवगणा इव।
अवलेपेन महता परितृप्ता विचेतसः।।
सुखं दुःखान्तमालस्यं दुःखं दाक्ष्यं सुखोदयम्।
भूतिश्चैव श्रिया सार्धं दक्षे वसति नालसे।।
सुखं वा यदि वा दुःखं प्रियं वा यदि वाऽप्रियम्।
प्राप्तं प्राप्तमुपासीत हृदयेनापराजितः।।
शोकस्थानसहस्राणि भयस्थानशतानि च।
दिवसेदिवसे मूढमाविशन्ति न पण्डितम्।।
बुद्धिमन्तं कृतप्रज्ञं शुश्रूषुमनहंकृतम्।
शान्तं जितेन्द्रियं चापि शोको न स्पृशते नरम्।।
एतां बुद्धिं समास्थाय शुद्धचित्तश्चरेद्बुधः।
`शुक्लकृष्णगतिज्ञं तं देवासुरविनिर्गमम्।'
उदयास्तमयज्ञं हि न शोकः स्प्रष्टुमर्हति।।
यन्निमत्तो भवेच्छोकस्रासो वा क्रोध एव वा।
आयासो वा यतो मूलं तदेकाङ्गमपि त्यजेत्।।
यद्यत्त्यजति कामनां तत्सुखस्याभिपूर्यते।
कामानुसारी पुरुषः कामाननुविनश्यति।।
यच्च कामसुखं लोके यच्च दिव्यं महत्सुखम्।
तृष्णाक्षयसुखस्यैते नार्हतः षोडशीं कलाम्।।
पूर्वदेहकृतं कर्म शुभं वा यदि वाऽशुभम्।
प्राज्ञं मूढं तथा शूरं भजते तादृशं नरम्।।
एवमव किलैतानि प्रियाण्येवाप्रियाणि च।
जीवेषु परिवर्तन्ते दुःखानि च सुखानि च।।
एतां बुद्धिं समास्थाय नावसीदेद्गुणान्वितः।
सर्वान्कामाञ्जुगुप्सेन कोपं कुर्वीत पृष्ठतः।।
वृत्त एव हृदि प्रौढो मृत्युरेप मनोभवः।
क्रोधो नाम शरीरस्थो देहिनां प्रोच्यते बुधैः।।
यदा संहरते कामान्कूर्मोऽङ्गानीव सर्वशः।
तदात्मज्योतिरात्मश्रीरात्मन्येव प्रसीदति।।
किंचिदेव ममत्वेन यदा भवति कल्पितम्।
तदेव परितापाय नाशे संपद्यते तदा।।
न बिभेति यदा चायं यदा चास्मान्न विभ्यति।
यदा नेच्छति न द्वेष्टि ब्रह्म संपद्यते तदा।।
उभे सत्यानृते त्यक्त्वा शोकानन्दौ भयाभये।
प्रियाप्रिये परित्यज्य प्रशान्तात्मा भविष्यति।।
यदा न कुरुते धीरः सर्वभूतेषु पापकम्।
कर्मणा मनसा वाचा ब्रह्म संपद्यते तदा।।
या दुस्त्यजा दुर्मतिभिर्या न जीर्यति जीर्यतः।
योसौ प्राणान्तिको रोगस्तां तृष्णां त्यजतः सुखं।।
अत्र पिङ्गलया गीता गाथा शृणु नराधिप।
यथा सा कृच्छ्रकालेऽपि लेभे शर्म सनातनम्।।
संकेते पिङ्गला वेश्या कान्तेनासीद्विनाकृता।
अथ कृच्छ्रगता शान्तां बुद्धिमास्थापयत्तदा।।
पिङ्गलोवाच।
उन्मत्ताऽहमनुन्मत्तं कान्तमन्ववसं चिरम्।
अन्तिके रमणं सन्तं नैनमध्यगमं पुरा।।
एकस्थूणं नवद्वारमपिधास्याम्यगारकम्।
का ह्यकान्तमिहायान्तं कान्त इत्यभिमंस्यते।।
अकामाः कामरूपेण धूर्ताश्च नररूपिणः।
न पुनर्वञ्चयिष्यन्ति प्रतिबुद्धाऽस्मि जागृमि।।
अनर्थोऽपि भवत्यर्थो दैवात्पूर्वकृतेन वा।
संबुद्धाऽहं निराकारा नाहमद्याजितेन्द्रिया।।
सुखं निराशः स्वपिति नैराश्यं परमं सुखम्।
आशामनाशां कृत्वा हि सुखं स्वपिति पिङ्गला।।
भीष्म उवाच।
एतैश्चान्यैश्च विप्रस्य हेतुमद्भिः प्रभाषितैः।
पर्यवस्थापितो राजा सेनजिन्मुमुदे सुखम्।।
।। इति श्रीमन्महाभारते शान्तिपर्वणि
आपद्धर्मपर्वणि त्रिसप्तत्यधिकशततमोऽध्यायः।। 173।।