शांतिपर्व
अध्यायः १७२
भीष्म उवाच।
विद्वान्संस्कारयामास पार्थिवो राजधर्मणः।
गन्धैर्बहुभिरव्यग्रो दाहयामास पूजितम्।।
तस्य देवस्य वचनादिन्द्रस्य बकराडिह।
तेनैवामृतसिक्ताश्च पुनः संजीवितो बकः।।
राजधर्माऽपि तं प्राह सहस्राक्षमरिंदमम्।
गौतमो ब्राह्मणः क्वाऽसौ मुच्यतां मत्प्रियः सखा।।
भीष्म उवाच।
तस्य वाक्यं समाज्ञाय कौशिकः सुरसत्तमः।
गौतमं ह्यभ्यनुज्ञाप्य प्रीतोऽथ गमनोत्सुकः।।
प्रतीतः स गतः सौम्यो राजधर्मा स्वमालयम्।
नृशंसो गौतमो मुक्तो मित्रध्रुक्पुरुषाधमः।।
सभाण्डोपस्करो यातः स तदा शबरालयम्।
तत्रासौ शबरी देहे प्रसूतो निरयोपमे।।
एष शापो महांस्तत्र मुक्तः सुरगणैस्तदा।।
दग्धे राक्षसराजेन खगराजे प्रतापिना।
चितायाः पार्श्वतो दोग्ध्री सुरभिर्जीवयच्च तम्।।
तस्या वक्राच्च्युतः फेनो दुग्धमात्रस्तदाऽनघ।
समीरणाहृतो यातश्चितां तां राजधर्मणः।।
देवराजस्ततः प्राप्तो विरूपाक्षपुरं तदा।
विरूपाक्षोऽपि तं शक्रमयाचत पुनः पुनः।
काश्यपश्य सुतो देव भ्राता मे जीवतामिति।।
विरूपाक्षमुवाचेदमीश्वरः पाकशासनः।
ब्रह्मणा व्याहृतो रोषाद्राजधर्मा कदाचन।।
यस्मात्त्वं नागतो द्रष्टुं मम नित्यमिमां सभाम्।
तस्माद्बको भवान्भावी धर्मशीलः परात्मवित्।।
आगमिष्यति ते वासं कदाचित्पापकर्मकृत्।
शबरावासगो विप्रः कृतघ्नो वृषलीपतिः।।
यदा निहन्ता मोक्षस्ते तदा भावीत्युवाच तम्।
तस्मादेष गतो लोकं ब्रह्मणः परमेष्ठिनः।।
भीष्म उवाच।
स चापि निरयं प्राप्तो दुष्कृतिः कुलपांसनः।।
एतच्छ्रुत्वा सभामध्ये तद्वाक्यं नारदेरितम्।
मयाऽपि तव राजेन्द्र यथावदनुवर्णितम्।।
ब्रह्मघ्ने च सुरापे च चोरे भ्रष्टव्रते तथा।
निष्कृतिर्विहिता राजन्कृतघ्ने नास्ति निष्कृतिः।।
कुतः कृतघ्नस्य यशः कुतः स्थानं कुतः सुखम्।
अश्रद्धेयः कृतघ्नो हि कृतघ्ने नास्ति निष्कृतिः।।
मित्रद्रोहो न कर्तव्यः पुरुषेण विशेषतः।
मित्रध्रुङ्गिरयं घोरं नरकं प्रतिपद्यते।।
कृतज्ञमनसा भाव्यं मित्रभावेन चानघ।
मित्रात्प्रभवते सर्वं मित्रं धन्यतरं स्मृतम्।।
अर्थाद्वा मित्रलाभाद्वा मित्रलाभो विशिष्यते।
सुलभा मित्रतोऽर्थास्तु मित्रेण यतितुं क्षमम्।।
मित्रं चाभिमतं स्निग्धं फलं चापि सतां फलम्।
सत्कारैः स्वजनोपेतः पूजयेत विचक्षणः।।
परित्याज्यो बुधैः पापः कदर्यः कुलपांसनः।
मित्रद्रोही कुलाङ्गारः पापकर्मा कुलाधमः।।
एषा सज्जनसांनिध्ये प्रज्ञा प्रोक्ता मयाऽनघ।
मित्रदुहि कृतघ्ने च किं भूयः श्रोतुमिच्छसि।।
वैशंपायन उवाच।
एतच्छ्रुत्वा ततो वाक्यं भीष्मेणोक्तं महात्मना।
युधिष्ठिरः प्रीतमना बभूव जनमेजय।।
।। इति श्रीमन्महाभारते शान्तिपर्वणि
आपद्धर्मपर्वणि द्विसप्तत्यधिकशततमोऽध्यायः।। 172।।