शांतिपर्व

अध्यायः १७१

Santi Parva (Sanskrit) · Adhyaya 171
अक्षर का आकार

भीष्म उवाच।

अथ तत्र महार्चिष्माननलो वातसारथिः।
तस्याविदूरे रक्षार्थं खगेन्द्रेण कृतोऽभवत्।।

स चापि पार्श्वे सुष्वाप विश्वस्तो बकराट् तदा।
कृतघ्नस्तु स दुष्टात्मा तं जिघांसुरजागरीत्।।

ततोऽलातेन दीप्तेन स सुप्तं निजघान तम्।
निहत्य च मुदा युक्तः सोऽनुबन्धं न दृष्टवान्।।

स तं विपक्षरोमाणं कृत्वाऽग्नावपचत्तदा।
तं गृहीत्वा सुवर्णं च ययौ द्रुततरं द्विजः।।

`ततो दाक्षायणीपुत्रं नागतं तं तु भारत।
विरूपाक्षश्चिन्तयन्वै हृदयेन विदूयता।।'

ततोऽन्यस्मिन्गते चाह्नि विरूपाक्षोऽब्रवीत्सुतम्।
न प्रेक्षे राजधर्माणमद्य पुत्र खगोत्तमम्।

स पूर्वसन्ध्यां ब्रह्माणं वन्दितुं याति सर्वदा।
मां चादृष्ट्वा कदाचित्स न गच्छति गृहं खगः।।

द्विरात्रमुभयोः सन्ध्योर्नाभ्यगच्छन्ममालयम्।
तस्मान्न शुद्ध्यते भावो मम स ज्ञायतां सुहृत्।।

स्वाध्यायेन वियुक्तो हि ब्रह्मवर्चसवर्जितः।
स गतस्तत्र मे शङ्का हन्यात्तं स द्विजाधमः।।

दुराचारः स दुर्बुद्धिरिङ्गितैर्लक्षितो मया।
निष्कृपो दारुणाकारो दुष्टो दस्युरिवाधमः।
गौतमः स गतस्तत्र तेनोद्विग्नं मनो मम।।

पुत्र शीघ्रमितो गत्वा राजधर्मनिवेशनम्।
ज्ञायतां स विशुद्धात्मा यदि जीवति वा चिरम्।।

स एवमुक्तस्त्वरितो रक्षोभिः सहितो ययौ।
* न्यग्रोधे राजधर्माणमपश्यन्निहतं ततः।।

रुदित्वा बहुशस्तस्मै विलप्य च स राक्षसः।
गतो रोषसमाविष्टो गौतमग्रहणाय वै।।

गृहीतो गौतमः पापो रक्षोभिः क्रोधमूर्च्छितैः।
राजधर्मशरीरस्य कङ्कालश्चाप्यथो धृतः।।

मनुव्रजं तु नगरं यातुधानास्ततो गताः।
क्रोधरक्तेक्षणा घोरा गौतमस्य वधे धृताः।।

पार्थिवस्वाग्रतो न्यस्तः कङ्कालो राजधर्मणः।
तं दृष्ट्वा विमना राजा सामात्यः सगणोऽभवत्।।

आर्तरावो महानासीद्गृहे तस्य महात्मनः।
समुत्थितः स्रीसङ्घस्य निहते काश्यपात्मजे।।

राजा चैवाब्रवीत्पुत्रं पापोऽयं वध्यतामिति।।

राक्षमा ऊचुः।

अस्य मांसं वयं सर्वे खादिष्यामः समागताः।
पापकृत्पापकर्मा च पापात्मा पापमास्थितः।
हन्तव्य एव पापात्मा कृतघ्नो नात्र संशयः।।

विरूपाक्ष उवाच।

कृतघ्नं पापकर्माणां न भक्षयितुमुत्सहे।
दासेभ्यो दीयतामेप मित्रध्रुक्पुरुपाधमः।।

भीष्म उवाच।

दासाः सर्वे समाहूता यातुधानास्तथा परे।
नेच्छन्ति स्म कृतघ्नं तं खादितुं पुरुषोत्तम।।

शिरोभिश्चागता भूमिं महाराज ततो बलात्।
मानार्थं जातु निर्बन्धं किल्विषं दातुमर्हसि।।

यातुधाना नृपेणोक्ताः पापकर्मा विशस्यताम्।
दह्यतां त्यज्यतां वाऽयं दर्शनादपनीयताम्।।

ततस्ते रुपिता दासाः शूलपट्टसपाणयः।
खण्डशो विकृतं हत्वा क्रव्याद्भ्यो ह्यददुस्तदा।।

क्रव्यादास्त्वपि राजेन्द्र नेच्छन्ति पिशिताशनाः।
मृतानपि हि क्रव्यादाः कृतघ्नान्नोपभुञ्जते।।

ब्रह्मस्वहरणे चोरे ब्रह्मघ्ने गुरुतल्पगे।
निष्कृतिर्विहिता सद्भिः कृतघ्ने नास्ति निष्कृतिः।।

मित्रद्रुहं कृतघ्नं च नृशंसं च नराधमम्।
क्रव्यादाः किमयश्चैव नोपभुञ्जन्ति वै सदा।।

।। इति श्रीमन्महाभारते शान्तिपर्वणि
आपद्धर्मपर्वणि एकसप्तत्यधिकशततमोऽध्यायः।। 171।।

न्यग्रोधं तत्र चापश्यत्कङ्कालं राजधर्मणः।
स रुदन्नगमत्पुत्रो राक्षसेन्द्रस्य धीमतः।
त्वरमाणः परं शक्त्या गौतमग्रहणाय वै।।

ततो विदूरे जगृहुगौतमं राक्षसास्तदा।।

राजधमर्शरीरं च पक्षास्थिचरणोज्झितम्।
तमादायाथ रक्षांसि द्रुतं मेरुव्रजं ययुः।।

राज्ञश्च दर्शयामासुः शरीरं राजधर्मणः।
कृतघ्नं पुरुषं तं च गौतमं पापकारिणम्।।

रुरोद राजा तं दृष्ट्वा सामात्यः सपुरोहितः।
आर्तनादश्च सुमहानभूत्तस्य निवेशने।
सस्त्रीकुमारं च पुरं बभूवास्वस्थमानसम्।।

अथाव्रवीन्नृपः पुत्रं पापोऽयं वध्यतामिति।
अस्य मांसैरिमे सर्वे विहरन्तु यथेष्टतः।।

पापाचारः पापकर्मा पापात्मा पापसाधनः।
हन्तव्योऽयं मम मतिर्भवद्भिरिति राक्षसाः।।

इत्युक्ता राक्षसेन्द्रेण राक्षसा घोरविक्रमाः।
नेच्छन्त तं भक्षयितुं पापकर्माणमित्युत।।

दस्यूनां दीयतामेष साध्वद्य पुरुषाधमः।
इत्यूचुस्ते गहाराज राक्षसेन्द्रं निशाचराः।।

शिरोभिः प्रणताः सर्वे व्याहरन्राक्षसाधिपम्।
न दातुमर्हसि त्वं नो भक्षणायास्य किल्विषम्।।

एवमस्त्विति तानाह राक्षसेन्द्रो निशाचरान्।
दस्यूनां दीयतामेष कृतघ्नोऽद्यैव राक्षसाः।।

इत्युक्ता राक्षसास्तेन शूलपट्टसपाणयः।
कृत्वा तं खण्डशः पापं दस्युभ्यः प्रददुस्तदा।।

दस्यवश्चापि नैच्छन्त तमत्तुं पापकारिणम्।
क्रव्यादा अपि राजेन्द्र कृतघ्नं नोपभुञ्जते।।

ब्रह्मघ्ने च सुरापे च चौरे भग्नव्रते तथा।
निष्कृतिर्विहिता राजन्कृतघ्ने नास्ति निष्कृतिः।।

मित्रदोही कृतघ्नश्च नृशंसश्च नराधमः।
क्रव्यादैः कृमिभिश्चैव न भुज्यन्ते हि तादृशाः।।

भीष्म उवाच।

ततश्चितां बकपतेः कारयामास राक्षसः।
रत्नैर्गन्धैश्च बहुभिर्वस्त्रैश्च समलंकृताम्।।

ततः प्रज्वाल्य नृपतिर्बकराजं प्रतापवान्।
प्रेतकार्याणि विधिवद्राक्षसेन्द्रश्चकार ह।।

तस्मिन्काले च सुरभिर्देवी दाक्षायणी शुभा।
उपरिष्टात्ततस्तस्य सा बभूव पयस्विनी।।

तस्य वक्राच्च्युतः फेनः क्षीरमिश्रस्तदाऽनघ।
सोऽपतद्वै ततस्तस्यां चितायां राजधर्मणः।।

ततः संजीवितस्तेन बकराजस्तदाऽनघ।
उत्पत्य च समीयाय विरूपाक्षं बकाधिपः।।

ततोऽभ्ययाद्देवराजो विरूपाक्षपुरं तदा।
प्राह चेदं विरूपाक्षं दिष्ट्या संजीवितस्त्वया।।

श्रावयामास चेन्द्रस्तं विरूपाक्षं पुरातनम्।
यथा शापः पुरा दत्तो ब्रह्मणा राजधर्मणः।।

यदा बकवती राजन्ब्रह्माणं नोपसर्पति।
ततो रोषादिदं प्राह स्वगेन्द्राय पितामहः।।

यस्मान्मूढो मम सभां नागतोऽसौ बकाधमः।
तस्माद्वधं स दुष्टात्मा न चिरात्समवाप्स्यति।।

तदयं तस्य वचनान्निहतो गौतमेन वै।
तेनैवामृतसिक्तश्च पुनः संजीवितो बकः।।

राजधर्मा बकः प्राह प्रणिपत्य पुरंदरम्।
यदि तेऽनुग्रहकृता मयि बुद्धिः सुरेश्वर।
सखाऽयं मे सुदयितं गौतमं जीवयेत्युत।।

तस्य वाक्यं समादाय वासवः पुरुषर्षभ।
सिक्त्वाऽमृतेन तं विप्रं गौतमं जीवयत्तदा।।

सभाण्डोपस्कारं राजंस्तमासाद्य बकाधिपः।
संपरिष्वज्य सुहृदं प्रीत्या परमया युतः।।

अथ तं पापकर्माणं राजधर्मा बकाधिपः।
विसर्जयित्वा सधनं प्रविवेश स्वमालयम्।।

यथोचितं च स बको ययौ ब्रह्मसदस्तथा।
ब्रह्मा चैनं महात्मानमातिथ्येनाभ्यपूजयत्।।

गौतमश्चापि संप्राप्य पुनस्तं शबरालयम्।
शूद्रायां जनयामास पुत्रान्दुष्कृतकारिणः।।

शापश्च सुमहांस्तस्य दत्तः सुरगणैस्तदा।
कुक्षौ पुनर्भ्वाः पापोऽयं जनयित्वा चिरात्सुतान्।
निरयं प्राप्स्यति महत्कृतघ्नोऽयमिति प्रभो।।

एतत्प्राह पुरा सर्वं नारदो मम भारत।
संस्मृत्य चापि सुमहदाख्यानं भरतर्षभ।
मयाऽपि भवते सर्वं यथावदनुवर्णितम्।।

कुतः कृतघ्नस्य यशः कुतः स्थानं कुतः सुखम्।
अश्रद्धेयः कृतघ्नो हि कृतघ्ने नास्ति निष्कृतिः।।

मित्रद्रोहो न कर्तव्यः पुरुषेण विशेषतः।
मित्रध्रुङ्गरकं घोरमनन्तं प्रतिपद्यते।।

कृतज्ञेन सदा भाव्यं मित्रकामेन चैव ह।
मित्राच्च लभते सर्वं मित्रात्पूजां लभेत च।।

मित्राद्भोगांश्च भुञ्जीत मित्रेणापत्सु मुच्यते।
सत्कारैरुत्तमैर्मित्रं पूजयेत विचक्षणः।।

परित्याज्यो बुधैः पापः कृतघ्नो निरपत्रपः।
मित्रद्रोही कुलाङ्गारः पापकर्मा नराधमः।।

एष धर्मभूतां श्रेष्ठ प्रोक्तः पापो मया तव।
मित्रद्रोही कृतघ्नो वै किं भूयः श्रोतुमिच्छसि।।

वैशंपायन उवाच।

एतच्छ्रुत्वा तदा वाक्यं भीष्मेणोक्तं महात्मना।
युधिष्ठिरः प्रीतमना बभूव जनमेजय।।