शांतिपर्व
अध्यायः १६६
युधिष्ठिर उवाच।
पितामह महाप्राज्ञ कुरूणां प्रीतिवर्धन।
प्रश्नं कंचित्प्रवक्ष्यामि तन्मे व्याख्यातुमर्हसि।।
कीदृशा मानवाः सेव्याः कै प्रीति परमा भवेत्।
आयत्यां च तदात्वे च के क्षमास्तान्वदस्व मे।।
न हि तत्र धनं स्फीतं न च संबन्धिबान्धवाः।
तिष्ठन्ति यत्र सुहृदस्तिष्ठन्तीति मतिर्मम।।
दुर्लभो हि सुहृच्छ्रोता दुर्लभश्च हितः सुहृत्।
एतद्धर्मभृतां श्रेष्ठ सर्वं व्याख्यातुमर्हसि।।
भीष्म उवाच।
सन्धेयान्पुरुषान्राजन्नसन्धेयांश्च तत्त्वतः।
वदतो मे निबोध त्वं निखिलेन युधिष्ठिर।।
लुब्धः क्रूरस्त्यक्तधर्मा निकृतिः शठ एव च।
क्षुद्रः पापसमाचारः सर्वशङ्की तथाऽलसः।।
दीर्घसूत्रोऽनृजुः क्रुष्टो गुरुदारप्रधर्पकः।
व्यसने यः परित्यागी दुरात्मा निरपत्रपः।।
सर्वतः पापदर्शी च नास्तिको वेदनिन्दकः।
संप्रकीर्णेन्दियो लोके यः कालनिरतश्चरेत्।।
असभ्यो लोकविद्विष्टः समये चानवस्थितः।
पिशुनोऽथाकृतप्रज्ञो मत्सरी पापनिश्चयः।।
दुःशीलोऽथाकृतात्मा च नृशंसः कितवस्तथा।
मित्रैरपकृतिर्नित्यमटतेऽर्थं धनेप्सया।।
ददतश्च यथाशक्ति यो न तुष्यति मन्दधीः।
अधैर्यमपि यो युङ्क्ते सदा मित्रं नराधमः।।
अस्थानक्रोधनो यश्च अकस्माच्च विरज्यते।
सुहृदश्चैव कल्याणानाशु त्यजति किल्बिपी।।
अल्पेऽप्यपकृते मूढे न संस्मरनि यत्कृतम्।
कार्यसेवी च मित्रेषु मित्रद्वेषी नराधिप।
शत्रुर्मित्रमुखो यश्च जिह्नप्रेक्षी विलोचनः।
न तुष्यति च कल्याणे यम्त्यजेत्तादृशं नरम्।।
पानपो द्वेषणः क्रोधी निर्घृणः परुपस्तथा।
परोपतापी मित्रध्रुक् तथा प्राणिवधे रतः।।
कृतघ्नश्चाधमो लोके न सन्धेयः कथंचन।
मित्रद्वेषी ह्यसंधेयः सन्धेयानपि मे शृणु।।
कुलीना वाक्यसंपन्ना ज्ञानविज्ञानकोविदाः।
रूपवन्तो गुणोपेतास्तथाऽलुब्धा जितश्रमाः।।
सन्मित्राश्च कृतज्ञाश्च सर्वज्ञा लोभवर्जिताः।
माधुर्यगुणसंपन्नाः सत्यसन्धा जितेन्द्रियाः।।
व्यायामशीलाः सततं भृत्यपुत्राः कुलोद्वहाः।
दोषैः प्रमुक्ताः प्रथितास्ते ग्राह्याः पार्थिवैर्नराः।।
यथाशक्ति समाचाराः संप्रतुष्यन्ति हि प्रभो।
नास्थाने क्रोधवन्तश्च न चाकस्माद्विरागिणः।।
विरक्ताश्च न दुष्यन्ति मनसाऽप्यर्थकोविदाः।
आत्मानं पीडयित्वाऽपि सुहृत्कार्यपरायणाः।
विरज्यन्ति न मित्रेभ्यो वासो रक्तमिवाविकम्।।
दोषांश्च लोभमोहादीनर्थेषु युवतीपु च।
न दर्शयन्ति सुहृदो विश्वस्ता बन्धुवत्सलाः।।
लोष्टकाञ्चनतुल्यार्थाः सुहृत्सु दृढबुद्धयः।
ये चरन्त्यनभीमाना निसृष्टार्थविभूषणाः।
संगृह्णन्तः परिजनं स्वाम्यर्थपरमाः सदा।।
ईदृशैः पुरुषश्रेष्ठैर्यः सन्धिं कुरुते नृपः।
तस्य विस्तीर्यते राज्यं ज्योत्स्ना ग्रहपतेरिव।।
सत्ववन्तो जितक्रोधा बलवन्तो रणे सदा।
जन्मशीलगुणोपेताः सन्धेयाः पुरुषोत्तमाः।
ये च दोपसमायुक्ता नराः प्रोक्ता मयाऽन।
तेषामप्यधमा राजन्कृतघ्ना मित्रघातकाः।
त्यक्तव्यास्तु दुराचाराः सर्वेषामिति निश्चयः।
।। इति श्रीमन्महाभारते शान्तिपर्वणि
आपद्धर्मपर्वणि षट्षष्ट्यधिकशततमोऽध्यायः।। 166।।