शांतिपर्व

अध्यायः १६७

Santi Parva (Sanskrit) · Adhyaya 167
अक्षर का आकार

युधिष्ठिर उवाच।

विस्तरेणार्थसंबन्धं श्रोतुमिच्छामि तत्त्वतः।
मित्रद्रोही कृतघ्नश्च यः प्रोक्तस्तं च मे वद।।

भीष्म उवाच।

हन्त ते वर्तयिष्येऽहमितिहासं पुरातनम्।
उदीच्यां दिशि यद्वृत्तं म्लेच्छेषु मनुजाधिप।।

ब्राह्मणो मध्यदेशीयः कृष्णाङ्गो ब्रह्मवर्जितः।
ग्रामं दस्युगणाकीर्णं प्राविशद्धनतृष्णया।।

तत्र दस्युर्धनयुतः सर्ववर्णविशेषवित्।
ब्रह्मण्यः सत्यसन्धश्च दाने च निरतोऽभवत्।।

तस्य क्षयमुपागम्य ततो भिक्षामयाचत।
प्रतिश्रयं च वासार्थं भिक्षां चैवाथ वार्षिकीम्।।

प्रादात्तस्मै स विप्राय वस्त्रं च सदशं नवम्।
नारीं चापि वयोपेतां भर्त्रा विरहितां तथा।।

एतत्संप्राप्य हृष्टात्मा गौतमोऽथ द्विजस्तथा।
तस्मिन्गृहवरे राजंस्तया रेमे स गौतमः।।

कुटुस्बार्थं च दस्योश्च साहाय्यं चाप्यथाकरोत्।
सोऽवसद्वर्षमेकं वै समृद्धे शबरालये।।

बाणवेधे परं यत्नमकरोच्चैव गौतमः।
चक्राङ्गान्स च नित्यं वै सर्वतो वनगोचरान्।
जघान गौतमो राजन्यथा दस्युगणास्तथा।।

हिंसापटुर्घृणाहीनः सदा प्राणिवधे रतः।
गौतमः सन्निकर्षेण दस्युभिः समतामियात्।।

तथा तु वसतस्तस्य दस्युग्रामे सुखं तदा।
अगमन्बहवो मासा निघ्नतः पक्षिणो बहून्।।

ततः कदाचिदपरो द्विजस्तं देशमागतः।
जटाचीराजिनधरः स्वाध्यायनिरतः शुचिः।।

विनीतो वेदशास्त्रेषु वेदान्तानां च पारगः।
अदृश्यत ततस्तत्र सखा तस्यैव तु द्विजः।
तं दस्युग्राममगमद्यत्रासौ गौतमोऽभवत्।।

स तु विप्रगृहान्वेपी शूद्रान्नपरिवर्जकः।
ग्रामे दस्युसमाकीर्णे व्यचरत्सर्वतो द्विजः।।

ततः स गौतमगृहं प्रविवेश द्विजोत्तमः।
गौतमश्चापि संप्राप्तस्तावन्योन्येन संगतौ।।

चक्राङ्गभारस्कन्धं तं धनुष्पाणिं धृतायुधम्।
रुधिरेणावसिक्ताङ्गं गृहद्वारमुपागतम्।।

तं दृष्ट्वा पुरुषादाभमपध्वस्तं क्षमागतम्।
अभिज्ञाय द्विजो व्रीडन्निदं वाक्यमथाब्रवीत्।।

किमिदं कुरुपे मोहाद्विप्रस्त्वं हि कुलोद्भवः।
मध्यदेशपरिज्ञातो दस्युभावं गतः कथम्।।

पूर्वान्स्मर द्विज ज्ञातीन्प्रख्यातान्वेदपारगान्।
येषां वंशेऽभिजातस्त्वमीदृशः कुलपांसनः।।

अवबुध्यात्मनाऽऽत्मानं सत्वं शीलं श्रुतं दमम्।
अनुक्रोशं च संस्मृत्य त्यज वासमिमं द्विज।।

स एवमुक्तः सुहृदा तेन तत्र हितैपिणा।
प्रत्युवाच ततो राजन्विनिश्वस्य तदाऽऽर्तबत्।।

निर्धनोऽस्मि द्विजश्रेष्ठ नापि वेदविदप्यहम्।
वित्तार्थमिह संप्राप्तं विद्धि मां द्विजसत्तम।।

त्वद्दर्शनात्तु विप्रेन्द्र कृतार्थोऽस्म्यद्य वै द्विज।
अध्वानं सह यास्यावः श्वो वसस्वाद्य शर्वरीम्।।

स तत्र न्यवसद्विप्रो घृणी किंचिदसंस्पृशन्।
क्षुधितश्छन्द्यमानोऽपि भोजनं नाभ्यनन्दत।।

।। इति श्रीमन्महाभारते शान्तिपर्वनि
आपद्धर्मपर्वणि सप्तषष्ट्यधिकशततमोऽध्यायः।। 167।।