शांतिपर्व

अध्यायः १६५

Santi Parva (Sanskrit) · Adhyaya 165
अक्षर का आकार

वैशंपायन उवाच।

इत्युक्तवति भीष्मे तु तूष्णींभूते युधिष्ठिरः।
पप्रच्छावसथं गत्वा भ्रातृन्विदुरपञ्चमान्।।

धर्मे चार्थे च कामे च लोकवृत्तिः समाहिता।
तेषां गरीयान्कतमो मध्यमः को लघुश्च कः।।

कस्मिंश्चात्मा नियन्तव्यस्त्रिवर्गविजयाय वै।
संपृष्टा नैष्ठिकं वाक्यं यथाबद्वक्तुमर्हथ।।

ततोऽर्थगतितत्त्वज्ञः प्रथमं प्रतिभानवान्।
जगाद विदुरो वाक्यं धर्मशास्त्रमनुस्मरन्।।

विदुर उवाच।

बहुश्रुतं तपस्त्यागः श्रद्धा यज्ञक्रिया क्षमा।
भावशुद्धिर्दया सत्यं संयमश्चात्मसंपदः।।

एतदेवाभिपद्यस्व मा ते भूच्चलितं मनः।
एतन्मूलौ हि धर्मार्थावेतदेकपदं हितम्।।

धर्मेणैवर्षयस्तीर्णा धर्मे लोकाः प्रतिष्ठिताः।
धर्मेण देवा दिवि च धर्मे चार्थः समाहितः।।

धर्मो राजन्गुणः श्रेष्ठो मध्यमो ह्यर्थ उच्यते।
कामो यवीयानिति च प्रवदन्ति मनीषिणः।।

तस्माद्धर्मप्रधानेन भवितव्यं यतात्मना।
तथा च सर्वभूतेषु वर्तितव्यं यतात्मना।।

वैशंपायन उवाच।

समाप्तवचने तस्मिन्भीमकर्मा धनञ्जयः।
ततोऽर्थगतितत्त्वज्ञो जगौ वाक्यं प्रचोदितः।।

कर्मभूमिरियं राजन्निह वार्ता प्रशस्यते।
कृषिर्वाणिज्यगोरक्षं शिल्पानि विविधानि च।।

अर्थ इत्येव सर्वेषां कर्मणामव्यतिक्रमः।
निवृत्तेऽर्थे न वर्तेते धर्मकामाविति श्रुतिः।।

विषहेतार्थवान्धर्ममाराधयितुमुत्तमम्।
कामं च चरितुं शक्तो दुष्प्रापमकृतात्मभिः।।

अर्थस्यावयवावेतौ धर्मकामाविति श्रुतिः।
अर्थसिद्ध्या विनिर्वृत्तावृभावेतौ भविष्यतः।।

तद्गतार्थं हि पुरुषं विशिष्टतरयोनयः।
ब्रह्माणमिव भूतानि सततं पर्युपासते।।

जटाजिनधरा दान्ताः पङ्कदिग्धा जितेन्द्रियाः।
मुण्डा निस्तन्तवश्चापि वसन्त्यर्थार्थिनः पृथक्।।

काषायवसनाश्चान्ये श्मश्रुला हि सुसंयताः।
विद्वांसश्चैव शान्ताश्च मुक्ताः सर्वपरिग्रहैः।।

`अर्थार्थिनः सन्ति नित्यं परितष्यन्ति कर्मभिः।'
अर्थार्थिनः सन्ति केचिदपरे स्वर्गकाङ्क्षिणः।
कुलप्रत्यागमाश्चैके स्वंस्वं धर्ममनुष्ठिताः।।

आस्तिका नास्तिकाश्चैव नियताः संयमे परे।
अप्रज्ञानं तमोभूतं प्रज्ञानं तु प्रकाशिता।।

भृत्यान्भोगैर्द्विषो दण्डैर्यो योजयति सोऽर्थवान्।
एतन्मतिमतांश्रेष्ठ मतं मम यथातथम्।
अनयोस्तु विबोध त्वं वचनं शक्रकण्वयोः।।

वैशंपायन उवाच।

तथा धर्मार्थकुशलौ माद्रीपुत्रावनन्तरम्।
नकुलः सहदेवश्च वाक्यमूचतुरुत्तमम्।।

आसीनश्च शयानश्च विचरन्नपि वा स्थितः।
अर्थयोगं दृढं कुर्याद्योगैरुच्चावचैरपि।।

अस्मिंस्तु वै विनिर्वृत्ते दुर्लभे परमप्रिये।
इह कामानवाप्नोति प्रत्यक्षं नात्र संशयः।।

योऽर्थो धर्मेण संयुक्तो धर्मो यश्चार्थसंयुतः।
मध्विवामृतसंसृष्टं तस्मादेतौ मताविह।।

अनर्थस्य न कामोस्ति तथाऽर्थोऽधर्मिणः कुतः।
तस्मादुद्विजले लोको धर्मार्थाभ्यां बहिष्कृतात्।।

तस्माद्धर्मप्रधानेन साध्योऽर्थः संयतात्मना।
विश्वस्तेषु हि भूतेषु कल्पते सर्वमेव हि।।

धर्मं समाचरेत्पूर्वं ततोऽर्थं धर्मसंयुतम्।
ततः कामं चरेत्पश्चात्सिद्धार्थस्य हि तत्फलम्।।

वैशंपायन उवाच।

विरेमतुस्तु तद्वाक्यमुक्त्वा तावश्विनोः सुतौ।
भीमसेनस्ततो वाक्यमिदं वक्तुं प्रचक्रमे।।

नाकामः कामयत्यर्थं नाकामो धर्ममिच्छति।
नाकामः कामयानोऽस्ति तस्मात्कामो विशिष्यते।।

कामेन युक्ता ऋषयस्तपस्येव समाहिताः।
पलाशाः शाकमूलाशा वायुभक्षाः सुसंयताः।।

वेदोपवेदेष्वपरे युक्ताः स्वाध्यायपारगाः।
श्राद्धे यज्ञक्रियायां च तथा दानप्रतिग्रहे।।

वणिजः कर्षका गोपाः कारवः शिल्पिनस्तथा।
देशधर्मकृतश्चैव युक्ताः कामेन कर्मसु।।

समुद्रं वा विशन्त्यन्ये नराः कामेन संयुताः।
कामो हि विविधाकारः सर्वं कामेन संततम्।।

नास्ति नासीन्न भविता भूतं काममृते परम्।
एतत्सारं महाराज धर्मार्थावत्र संश्रितौ।।

नवनीतं यथा दध्नस्तथा कामोऽर्थधर्मतः।
श्रेयस्तैलं न पिण्याको घृतं श्रेय उदश्वितः।।

श्रेयः पुष्पफलं काष्ठात्कामो धर्मार्थयोर्वरः।
पुष्पतो मध्विव परं कामात्संजायते सुखम्।
कामो धर्मार्थयोर्योनिः कामश्चाथ तदात्मकः।।

[नाकामतो ब्राह्मणाः स्वन्नमर्था
न्नाकामतो ददति ब्राह्मणेभ्यः।
नाकामतो विविधा लोकचेष्टा
तस्मात्कामः प्राक् त्रिवर्गस्य दृष्टः।।]

सुचारुवेषाभिरलंकृताभि
र्मदोत्कटाभिः प्रियवादिनीभिः।
रमस्व योषिद्भिरुपेत्य कामं
कामो हि राजन्परमाभिरामः।।

बुद्धिर्ममैषा परिखास्थितस्य
माभूद्विचारस्तव धर्मपुत्र।
स्वात्संहितं सद्भिरफल्गुसार
मसस्तवाक्यं परमानृशंसम्।।

वर्मार्थकामाः सममेव सेव्या
यो ह्येकभक्तः स नरो जघन्यः।
द्वयोस्तु सक्तं प्रवदन्ति मध्यमं
स उत्तमो योऽभिरतस्त्रिवर्गे।।

प्राज्ञः सुहृच्चन्दनसारलिप्तो
विचित्रमाल्याभरणैरुपेतः।
ततो वचः संग्रहविस्तरेण
प्रोक्त्वाऽथ वीरान्विरराम भीमः।।

ततो मुहूर्तादथ धर्मराजो
वाक्यानि तेषामनुचिन्त्य सम्यक्।
उवाच वाचाऽवितथं स्मयन्वै
बहुश्रुतो धर्मभृतां वरिष्ठः।।

वाक्यं निबोधध्वमनन्यभावाः।।

यो वै न पापे निरतो न पुण्ये
नार्थे न धर्मे मनुजो न कामे।
विमुक्तदोषः समफल्गुसारो
विमुच्यते दुःखसुखात्स सिद्धः।।

भूतानि जातीमरणान्वितानि
जराविकारैश्च समन्वितानि।
भूयश्च तैस्तैरुपसेवितानि
मोक्षं प्रशंसन्ति न तं च विद्मः।।

स्नेहेन बद्धस्य न सन्ति तानि
चैवं स्वयंभूर्भगवानुवाच।
बोधाय निर्वाणपरा भवन्ति
तस्मान्न कुर्यात्प्रियमप्रियं च।।

एतच्च मुख्यं न तु कामकारो
यथा नियुक्तोऽस्मि तथा करोमि।
भूतानि सर्वाणि विधिर्नियुङ्क्ते
विधिर्बलीयानिति वित्त सर्वे।।

न कर्मणाऽप्नोत्यनवाप्यमर्थं
यद्भावि तद्वै भवतीति विद्मः।
त्रिवर्गहीनोऽपि हि विन्दतेऽर्थं
तस्माददो लोकहिताय गुह्यम्।।

वैशंपायन उवाच।

तदग्र्यबुद्धेर्वचनं मनोनुगं
समस्तमाज्ञाय तथाहि हेतुमत्।
तदा प्रणेदुश्च जहर्षिरे च ते
कुरुप्रवीराय च चक्रिरेऽञ्जलिम्।।

सुचारुवर्णाक्षरशब्दभूषितां
मनोनुगां निर्गतवाक्यकण्टकाम्।
निशम्य तां पार्थिवभाषितां गिरं
पार्थस्य सर्वे प्रणता बभूवुः।।

तथैव राजा प्रशशंस् वीर्यवान्
पुनश्च पप्रच्छ सरिद्वरासुतम्।
धर्मार्थकामेषु विनिश्चयज्ञं
ततः परं धर्ममहीनचेतसम्।।

।। इति श्रीमन्महाभारते शान्तिपर्वणि
आपद्धर्मपर्वणि पञ्चषष्ट्यधिकशततमोऽध्यायः।। 165।।