शांतिपर्व

अध्यायः १६४

Santi Parva (Sanskrit) · Adhyaya 164
अक्षर का आकार

वैशंपायन उवाच।

कथान्तरमथासाद्य स्वङ्गयुद्धविशारदः।
नकुलः शरतल्पस्थमिदमाह पितामहाम्।। 1

नकुल उवाच।

धनुः प्रहरणं श्रेष्ठमितिवादः पितामह।
मतस्तु मम धर्मज्ञः खङ्ग एव सुसंशितः।। 2
छिन्ने च कार्मुके राजन्प्रक्षीणेषु शरेषु च।
खङ्गेन शक्यते योद्धुमात्मानं परिरक्षितुम्।। 3
शरासनधरांश्चैव गदाशक्तिधरांस्तदा।
एकः खङ्गधरो वीरः समर्थः प्रतिबाधितुम्।। 4
अत्र मे संशयश्चैव कौतूहलमतीव च।
किंस्वित्प्रहरणं श्रेष्ठं सर्वयुद्धेषु पार्थिव।। 5
कथं चोत्पादितः खङ्गः कस्मै चार्थाय केन वा।
पूर्वाचार्यं च खङ्गस्य प्रव्रवीहि पितामह।। 6

वैशंपायन उवाच।

तस्य तद्वचनं श्रुत्वा माद्रीपुत्रस्य धीमतः।
स्वरकौशलसंयुक्तं सूक्ष्मचित्रार्थवत्सुखम्।। 7
ततस्तस्योत्तरं वाक्यं स्वरवर्णोपपादितम्।
शिक्षया चोपपन्नाय द्रोणशिष्याय पृच्छते।। 8
उवाच सर्वधर्मज्ञो धनुर्वेदस्य पारगः।
शरतल्पगतो भीष्मो नकुलाय महात्मने।। 9

भीष्म उवाच।

तत्त्वं शृणुष्व माद्रेय यथैतत्परिपृच्छसि।
सलिलैकार्णवं तात पुरा सर्वमभूदिदम्।
अप्रज्ञातमनाकाशमनिर्देश्यमहीतलम्।। 11
तमस्संवृतमस्पर्शमतिगम्भीरदर्शनम्।
निःशब्दं चाप्रमेयं च तत्र जज्ञे पितामहः।। 12
सोऽसृजद्वायुमग्निं च भास्करं चापि वीर्यवान्।
आकाशममृजच्चोर्ध्वमध्नो भूमिं च नैर्ऋतिम्।। 13
ततः सचन्द्रतारं च नक्षत्राणि ग्रहांस्तथा।
संवत्सरानहोरात्रानृतूनथ लवान्क्षणान्। 14
ततः शरीरं लोकस्थं स्थापयित्वा पितामहः।
जनयामास भगवान्पुत्रानुत्तमतेजसः। 15
मरीचिं भृगुमत्रिं च पुलस्त्यं पुलहं क्रतुम्।
वसिष्ठाङ्गिरसौ चोभौ भरद्वाजं तथैव च।। 16
प्रजापतिस्तथा दक्षः कन्याः षष्टिमजीजनात्।
ताश्च ब्रह्मर्पीन्सर्वान्प्रजार्थं प्रतिपेदिरे।। 17
ताभ्यो विश्वानि भूतानि देवाः पितृगणास्तथा।
गन्धर्वाप्सरसश्चैव रक्षासि विविधानि च।। 18
पतत्रिमृगमीनाश्च गावश्चैव महोरगाः।
नानाकृतिबलाश्चान्ये जलक्षितिविचारिणः।। 19
उद्भिज्जाः स्वेदजाश्चैव साण्डजाश्च जरायुजाः।
अज्ञे तात जगत्सर्वं तथा स्थावरजङ्गमम्।। 20
अतः सर्गमिमं कृत्वा सर्वलोकपितामहः।
अश्वतं वेदपठितं धर्मं च जुजुपे पुनः।। 21
स्मन्धर्मे स्थिता देवाः सहाचार्यपुरोहिताः।
---त्या वसवो रुद्राः ससाध्या मरुदश्विनः। 22
भृ---त्र्यङ्गिरसः सिद्धाः कश्यपश्च तपोधनाः।
वष्ठगौतमागस्त्यास्तथा नारदपर्वतौ।। 23
क्रयो बालखिल्याश्च प्रभासाः सिकतास्तथा।
घृगाच्या सोमवायव्या वैश्वानरमरीचिपाः।। 24
करूपाश्चैव हंसाश्च ऋषयो वाऽग्नियोनयः।
---पप्रस्थाः पृश्नयश्च स्थिता ब्रह्मानुशासने।। 25
दानवेन्द्रास्त्वतिक्रम्य तत्पितामहशासनम्।
धर्मस्यापनयं चक्रुः क्रोधलोभसमन्विताः।। 26
हिरण्यकशिपुश्चैव हिरण्याक्षो विरोचनः।
शम्बरो विप्रचित्तिश्च प्रह्लादो नमुचिर्बलिः।। 27
एते चान्ये च बहवः सगणा दैत्यदानवाः।
धर्मसेतुमतिक्रम्य रेमिरेऽधर्मनिश्चयाः।। 28
सर्वे तुल्याभिजातीया यथा देवास्तथा वयम्।
इत्येवं हेतुमास्थाय स्पर्धमानाः सुरर्षिभिः।। 29
न प्रियं नाप्यनुक्रोशं चक्रुर्भूतेषु भारत।
त्रीनुपायानतिक्रम्य दण्डेन रुरुधुः प्रजाः।। 30
न जग्मुः संविदं तैश्च दर्पादसुरसत्तमाः।
अथ वै भगवान्ब्रह्मा सर्वलोकनमस्कृतः।। 31
तदा हिमवतः पृष्ठे सुरम्ये पद्मतारके।
शतयोजनविस्तारे मणिमुक्ताचयाचिते।। 32
तस्मिन्गिरिवरे पुत्र पुष्पितद्रुमकानने।
तस्थौ स विबुधश्रेष्ठो ब्रह्मा लोकार्थसिद्धये।। 33
ततो वर्षसहस्रान्ते वितानमकरोत्प्रभुः।
विधिना कल्पदृष्टेन यथोक्तेनोपपादितम्।। 34
ऋषिभिर्यज्ञपटुभिर्यथावत्कर्मकर्तृभिः।
मरुद्भिः परिसंकीर्णं दीप्यमानैश्च पावकैः।। 35
काञ्चनैर्यज्ञभाण्डैश्च भ्राजिष्णुभिरलंकृतम्।
वृतं देवगणैश्चैव प्रबभौ यज्ञमण्डलम्।। 36
तथा ब्रह्मर्षिभिश्चैव सदस्यैरुपशोभितम्।
अत्र घोरतमं वृत्तमृषीणां मे परिश्रुतम्।। 37
चन्द्रमा विमलं व्योम यथाऽभ्युदिततारकम्।
विदार्याग्निं तथा भूतमुत्थितं श्रूयते तदा।। 38
लोनीत्पलसवर्णाभं तीक्ष्णदंष्ट्रं कृशोदरम्।
प्रांशुमुद्धर्षणं चापि तथैव ह्यमितौजसम्।। 39
अस्मिन्नुत्पद्यमाने च प्रचचास वसुंधरा।
महोर्मिकलिलावर्तश्रुक्षुभे स महोदधिः।। 40
पेतुश्चोत्का महोत्पाताः शाखाश्च मुमुचुर्द्रुमाः।
अप्रसन्ना दिशः सर्वाः पवनश्चाशिवो ववौ।
मुहुर्मुहुश्च भूतानि प्राव्यथन्त भयात्तथा।। 41
ततः स तुमुलं दृष्ट्वा तद्भूतं समुपस्थितम्।
महर्षिसुरगन्धर्वानुवाचेदं पितामहः।। 42
मयैवं चिन्तितं भूतमसिर्नामैष वीर्यवान्।
रक्षणार्थाय लोकस्य वधाय च सुरद्विषाम्।। 43
ततस्तद्रुपमुत्सृज्य बभौ निस्त्रिंश एव सः।
विमलस्तीक्ष्णधारश्च कालान्तक इवोद्यतः।। 44
ततस्तं नीलकण्ठाय रुद्रायर्षभकेतवे।
ब्रह्मा ददावसिं तीक्ष्णमधर्मप्रतिवारणम्।। 45
ततः स भगवान्रुद्रो ब्रह्मर्षिगणपूजितः।
प्रगृह्मासिममेयात्मा रूपमन्यच्चकार ह।। 46
चतुर्बाहुः स्पृशन्मूर्ध्ना भूमिष्ठोऽपि दिशो दश।
ऊर्ध्वदृष्टिर्महाबाहुर्मुखाज्ज्वालाः समुत्सृजन्।। 47
विकुर्वन्बहुधा वर्णान्नीलपाण्डुरलोहितान्।
बिभ्रत्कृष्णाजिनं वासो हेमप्रवरतारकम्।। 48
नेत्रं चैकं ललाटस्थं भास्करप्रतिमं महत्।
शुशुभाते सुविमले द्वे नेत्रे कृष्णपिङ्गले।। 49
ततो देवो महादेवः शूलपाणिर्भगाक्षिहा।
संप्रगृह्य तु निस्त्रिंशं कालाग्निसमवर्चसम्।। 50
त्रिकूटं चर्म चोद्यम्य सविद्युतमिवाम्बुदम्।
चचार विविधान्मार्गान्दानवान्तचिकीर्षया।
विधुन्वन्नसिमाकाशे तथा युद्धचिकीर्षया।। 51
तस्य नादं विनदतो महाहासं च मुञ्चतः।
बभौ प्रतिभयं रूपं तदा रुद्रस्य भारत।। 52
तद्रूपधारिणं रुद्रं रौद्रकर्मचिकीर्षया।
निशाम्य दानवाः सर्वे हृष्टाः समभिदुद्रुवुः।। 53
अश्मभिश्चाम्यवर्षन्त प्रदीप्तैश्च तथोल्मुकैः।
घोरैः प्रहरणैश्चान्यैः क्षुरधारैरयस्मयैः।। 54
ततस्तु दानवानीकं संप्रणेतृकमप्युत।
खङ्गं दृष्ट्वा बलाधूतं प्रमुमोह चचाल च।। 55
चित्रं शीघ्रपदत्वाच्च चरन्तमसिपाणिनम्।
तमेकमसुराः सर्वे सहस्रमिति मेनिरे।। 56
छिन्दन्भिन्दन्रुजन्कृन्तन्दारयन्प्रथमन्नपि।
अचरद्वैरिसङ्घेषु दावाग्निरिव कक्षगः।। 57
असिवेगप्रभग्नास्ते छिन्नबाहूरुवक्षसः।
उत्तमाङ्गप्रकृत्ताश्च पेतुरुर्व्यां महाबलाः।। 58
अपरे दानवा भग्नाः खङ्गधारावपीडिताः।
अन्योन्यमभिनर्दन्तो दिशः संप्रतिपेदिरे।। 59
भूमिं केचित्प्रविविशुः पर्वतानपरे तथा।
अपरे जग्मुराकासमपरेऽम्भः समाविशन्।। 60
तस्मिन्महति संवृत्ते समरे भृशदारुणे।
बभूव भूः प्रतिभया मांसशोणितकर्दमा।। 61
दानवानां शरीरैश्च पतितैः शोणितोक्षितैः।
समाकीर्णा महाबाहो शैलैरिव सकिंशुकैः।। 62
`रुधिरेण परिक्लिन्ना प्रबभौ वसुधा तदा।
रक्तार्द्रवसना श्यामा नारीव मदविह्वला।।' 63
स रुद्रो दानवान्हत्वा कृत्वा धर्मोत्तरं जगत्।
रौद्रं रुपमथाक्षिप्य चक्रे रूपं शिवं शिवः।। 64
ततो महर्षयः सर्वे सर्वे देवगणास्तथा।
जयेनाद्भुतकल्पेन देवदेवमथास्तुवन्।। 65
ततः स भगवान्रुद्रो दानवक्षतजोक्षितम्।
असिं धर्मस्य गोप्तारं ददौ सत्कृत्य विष्णवे।। 66
विष्णुर्मरीचये प्रादान्मरीचिर्भार्गवाय तम्।
महर्षिभ्यो ददौ खङ्गमृषयो वासवाय च।। 67
महेन्द्रो लोकपालेभ्यो लोकपाला तु पुत्रक।
मनवे सूर्यपुत्राय ददुः खङ्गं सुविस्तरम्।। 68
ऊचुश्चैनं तथा वाक्यं मानुषाणां त्वमीश्वरः।
असिना धर्मगर्भेण पालयस्व प्रजा इति।। 69
धर्मसेतुमतिक्रान्ताः स्थूलसूक्ष्मार्थकारणात्।
विभज्य दण्डं रक्ष्याः स्युर्धर्मतो न यदृच्छया।। 70
दुर्वाचा निग्रहो दण्डो हिरण्यबहुलस्तथा।
व्यङ्गता च शरीरस्य वधो नाल्पस्य करणात्।। 71
असेरेतानि रूपाणि दुर्वारादीनि नि दशेत्।
असेरेवं प्रमाणानि परमाण्यभ्यतिक्रमात्।। 72
अभिषिच्याथ पुत्रं स्वं प्रजानामधिपं ततः।
मनुः प्रजानां रक्षार्थं क्षुपाय प्रददावसिम्।। 73
क्षुपाज्जग्राह चेक्ष्वाकुरिक्ष्वाकोश्च पुरूरवाः।
आयुश्च तस्माल्लोभे तं नहुषश्च ततो भुवि।। 74
ययातिर्नहुषाच्चापि पूरुस्तस्माच्च लब्धवान्।
आधूर्तश्च गयस्तस्मात्ततो भूमिशयो नृपः।। 75
भरतश्चापि दौष्यन्तिर्लेभे भूमिशयादसिम्।
तस्माल्लोभे च धर्मज्ञो राजन्नैलबिलस्तथा।। 76
ततस्त्वैलबिलाल्लेभे धुन्धुमारो नरेश्वरः।
धुन्धुमाराच्च काम्भोजो मुचुकुन्दस्ततोऽभजत्।। 77
मुचुकुन्दान्मरुत्तश्च मरुत्तादपि रैवतः।
रैवताद्युवनाश्वश्च युवनाश्वात्ततो रघुः।। 78
इक्ष्वाकुवंशजस्तस्माद्धरिणाश्वः प्रतापवान्।
हरिणाश्वादसिं लेभे शुनकः शुनकादपि।। 79
उशीनरो वै धर्मात्मा तस्माद्भोजाः सयादवाः।
यदुभ्यश्च शिबिर्लेभे शिबेश्चापि प्रतर्दनः।। 80
प्रतर्दनादष्टकश्च रुशदश्वोऽष्टकादपि।
रुशदश्वाद्भरद्वाजो द्रोणस्तस्मात्कृपस्ततः।
ततस्त्वं भ्रातृभिः सार्धं परमासिमवाप्तवान्।। 81
कृत्तिकास्तस्य नक्षत्रमसेरग्निश्च दैवतम्।
रोहिण्यो गोत्रमस्याथ रुद्राश्च गुरुसत्तमाः।। 82
असेरष्टौ हि नामानि रहस्यानि निबोध मे।
पाण्डवेय सदा यानि कीर्तयँल्लभते जयम्।। 83
असिर्विशसनः खङ्गस्तीक्ष्णचर्मा दुरासदः।
श्रीगर्भो विजयश्चैव धर्मपालस्तथैव च।। 84
अग्र्यः प्रहरणानां च खङ्गो भुवि परिश्रुतः।
महेश्वरप्रणीतश्च पुराणे निश्चयं गतः।
`एतानि चैव नामानि पुराणे निश्चितानि वै।।' 85
पृथुस्तूत्पादयामास धनुराद्यमरिंदमः।
तेनेयं पृथिवी दुग्धा सस्यानि सुबहून्यपि।
धर्मेण च यथापूर्वं वैन्येन परिरक्षिता।। 86
तदेतदार्षं माद्रेय प्रमाणं कर्तुमर्हसि।
असेश्च पूजा कर्तव्या सदा युद्धविशारदैः।। 87
इत्येष प्रथमः कल्पो मया ते कथितः पुनः।
एवमेवासिसर्गोऽयं यथावद्भरतर्षभ।। 88
सर्वथा तमिह श्रुत्वा स्वङ्गस्यागममुत्तमम्।
लभते पुरुषः कीर्ति प्रेत्य चानन्त्यमश्नुते।। 89
।। इति श्रीमन्महाभारते शान्तिपर्वणि
आपद्धर्मपर्वणि चतुःषष्ट्यधिकशततमोऽध्यायः।। 164।।