शांतिपर्व
अध्यायः १६३
भीष्म उवाच।
कृतार्थी यक्ष्यमाणश्च सर्ववेदान्तगश्च यः।
आचार्यपितृकार्यार्थं स्वाध्यायार्थमथापि च।।
एते वै साधवो दृष्टा ब्राह्मणाः धर्मभिक्षवः।
निःस्वेभ्यो देयमेतेभ्यो दानं विद्या च भारत।।
अन्यत्र दक्षिणादानं देयं भरतसत्तम।
अन्येभ्योऽपि बहिर्वेदि न कृतान्नं विधीयते।।
सर्वरत्नानि राजा हि यथार्हं प्रतिपादयेत्।
ब्राह्मणायैव यज्ञाश्च सहान्नाः सहदक्षिणाः।।
अन्येभ्यो विमलाचारा यजन्ते गुणतः सदा।
यस्य त्रैवार्षिकं भक्तं पर्याप्तं भृत्यवृत्तये।
अधिकं चापि विद्येत स सोमं पातुमर्हति।।
यज्ञश्चेत्प्रतिरुद्धः स्यादंशेनैकेन यज्वनः।
ब्राह्मणस्य विशेषेण धार्मिके सति राजनि।।
यो वैश्यः स्याद्बहुपशुर्हीनक्रतुरसोमपः।
कुटुम्बात्तस्य तद्वित्तं यज्ञार्थं पार्थिवो हरेत्।।
आहरेद्द्रुह्यतः किंचित्कामं शूद्रस्य वेश्मनि।
न हि वेश्मनि शूद्रस्य किंचिदस्ति परिग्रहः।।
योऽनाहिताग्निः शतगुरयज्वा त्त सहस्रगुः।
तयोरपि कुटुम्बाभ्यामाहरेदविचारयन्।।
अदातृभ्यो हरेद्वित्तं विख्याप्य नृपतिः सदा।
तथैवाचरतो धर्मो नृपतेः स्यादथाखिलः।।
तथैव सप्तमे भक्ते भक्तानि षडनश्नतः।
अश्वस्तनविभागेन हर्तव्यं हीनकर्मणः।।
खलात्क्षेत्रात्तथागाराद्यतो वाऽप्युपपद्यते।
आख्यातव्यं नृपस्यैतत्पृच्छतोऽपृच्छतोपि वा।
न तस्मै धारयेद्दण्डं राजा धर्मेण धर्मवित्।।
क्षत्रियस्य तु बालिश्याद्ब्राह्मणः क्लिश्यते क्षुधा।
श्रुतशीले समाज्ञाय वृत्तिमस्य प्रकल्पयेत्।।
अथैनं परिरक्षेत पिता पुत्रमिवौरसम्।
इष्टिं वैश्वानरीं नित्यं निर्वपेदब्दपर्यये।
अविकल्पः पुरा धर्मो धर्मवादैस्तु केवलः।।
विश्वैर्देवैश्च साध्यैश्च ब्राह्मणैश्च महर्षिभिः।
आपत्सु गरणाद्भीतैर्लिङ्गः प्रतिनिधीकृतः।।
प्रभुः प्रथमकल्पस्य योऽनुकल्पेन वर्तते।
स नाप्नोति फलं तस्य प्रेत्य चेह च दुर्मतिः।।
न ब्राह्मणो वेदयीत किंचिद्राजनि धर्मवित्।
अविद्यावेदनाद्विद्यात्स्ववीर्यं वीर्यवत्तरम्।
तस्माद्राज्ञः सदा तेजो दुःसहं ब्रह्मवादिनाम्।।
मन्ता शास्ता विधाता च ब्राह्मणो देव उच्यते।
तस्मिन्नाकुशलं ब्रूयान्न शुष्कामीरयेद्गिरम्।।
क्षत्रियो बाहुवीर्येण तरेदापदमात्मनः।
धनैर्वैश्यश्च शुद्रश्च मन्त्रैर्होमैश्च वै द्विजः।।
नैव कन्या न युवतिर्नामन्त्रज्ञो न बालिशः।
परिवेष्टाऽग्निहोत्रस्य भवेन्नासंस्कृतस्तथा।।
नरके निपतन्त्येते जुह्वानाः सवनस्य तत्।
तस्माद्वैतानकुशलो होता स्याद्वेदपारगः।।
प्राजापत्यमदत्त्वा च अग्न्याधेयस्य दक्षिणाम्।
अनाहिताग्निरिति सं प्रोच्यते धर्मदर्शिभिः।।
पुण्यान्यन्यानि कुर्वीत श्रद्दधानो जितेन्द्रियः।
अनाप्तदक्षिणैर्यज्ञैर्न यजेत कथंचन।।
प्रजाः पंशूश्च स्वर्गं च हन्ति यज्ञो ह्यदक्षिणः।
इन्द्रियाणि यशः कीर्तिभायुश्चाप्यवकृन्तति।।
उदक्यामासते ये च द्विजाः केचिदनग्नयः।
कुलं चाश्रोत्रियं येषां सर्वे ते शूद्रकर्मिणः।।
उदपानोदके ग्रामे ब्राह्मणो वृपलीयतिः।
अपित्वा द्वादश समाः शूद्रकर्मैव गच्छति।।
अभार्यी शयने विभ्रच्छूद्रं वृद्धं च वै द्विजः।
अब्राह्मणं भन्यमानस्तृणेष्वासीत पृष्ठतः।
तथा संशुध्यते राजञ्शृणु चात्र वचो मम।।
यदेकरात्रेण करोति पापं
कृष्णं वर्णं ब्राह्मणः सेवमानः।
स्थानासनाभ्यां विहरन्वती स
त्रिभिर्वर्षैः शमयेदात्मपापम्।।
न नर्मयुक्तमतृतं हिनस्ति
न स्त्रीषु राजन्न विवाहकाले।
प्राणात्यये सर्वधनापहारे
पञ्चानृतान्याहुरपातकानि।।
श्रद्दधानः शुभां विद्यां हीनादपि समाप्नुयात्।
सुवर्णमपि चामेध्यादाददीताविचारयन्।।
स्त्रीरत्नं दुष्कुलाच्चापि विषादप्यमृतं पिबेत्।
अदूष्या हि स्त्रियो रत्नमाप इत्येव धर्मतः।।
गोब्राह्मणहितार्थं च वर्णानां संकरेषु च।
वैश्यो गृह्णीत शस्त्राणि परित्राणार्थमात्मनः।।
सुरापो ब्रह्महा चैव गुरुतल्पगतस्तथा।
अचिरेण महाराज पतितो वै भवत्युत।।
सुवर्णहरणं स्तैन्यं विप्रस्वं चेति पातकम्।
विहारो मद्यपानं च अगम्यागमनं तथा।।
पतितैः संप्रयोगश्च ब्राह्मणीयोनितस्तथा।
अनिर्देश्यानि मन्यन्ते प्राणान्तानीति धारणा।।
संवत्सरेण पतति पतितेन सहाचरन्।
याजनाध्यापनाद्दानान्न तु यानासनाशनात्।।
एतानि हित्वातोऽन्यानि निर्देश्यानीति धारणा।
निर्देश्यकेन विधिना कालेनाव्यसनी भवेत्।।
अनुत्तीर्य न होतव्यं प्रेतकर्मण्युपाश्रिते।
त्रिषु त्वेतेषु पूर्वेषु न कुर्वीत विचारणम्।।
अमात्यान्वा गुरून्वापि जह्याद्धर्मेण धार्मिकः।
प्रायश्चित्तान्यकुर्वाणा नैते कुर्वन्ति संविदम्।।
अधर्मकारी धर्मेण तपसा हन्ति किल्विषम्।
ब्राह्मणायावगुर्येत स्पृष्टे गुरुतरं भवेत्।।
अस्तेनं स्तेन इत्युक्त्वा द्विगुणं पापमाप्नुयात्।
त्रिभागं ब्रह्महत्यायाः कन्यां प्राप्नोति दुष्यति।
यस्तु दूषयिता तस्याः शेषं प्राप्नोति पाप्मनः।।
ब्राह्मणानवगर्ह्येह स्पृष्ट्वा गुरुतरं भवेत्।
वर्षाणां हि शतं पापः प्रतिष्ठां नाधिगच्छति।।
सहस्रं चैव वर्षाणां निपत्य नरकं वसेत्।
तस्मान्नैवावगुर्याद्धि नैव जातु निपातयेत्।।
शोणितं यावतः पांसून्संगृह्णीयाद्द्विजक्षतात्।
तावतीः स समा राजन्नरके प्रतिपद्यते।।
भ्रूणहाऽऽहवमध्ये तु शुध्यते शस्त्रपाततः।
आत्मानं जुहुयादग्नौ समिद्धे तेन शुध्यते।।
सुरापो वारुणीमुष्णां पीत्वा पापाद्विमुच्यते।।
तया स काये निर्दग्धे मृत्युं वा प्राप्य शुध्यति।
लोकांश्च लभते विप्रो नान्यथा लभते हि सः।।
गुरुतल्पमधिष्ठाय दुरात्मा पापचेतनः।
शिलां ज्वलन्तीमासाद्य मृत्युना सोभिशुध्यति।।
अधवा शिश्नवृषणावादायाञ्जलिना स्वयम्।
नैर्ऋतीं दिशमास्थाय निपतेत्सत्वजिह्मगः।।
ब्राह्मणार्थेऽपि वा प्राणान्संत्यजंस्तेन शुध्यति।।
अश्वमेधेन वाऽपीष्ट्वा अथवा गोसवेन वा।
मरुत्सोमेन वा सम्यगिह प्रेत्य च पूज्यते।।
तथैव द्वादशसमाः कापोतं धर्ममाचरेत्।
एककालं चरेद्भैक्षं स्वकर्मोदाहरञ्जने।।
एवं वा तपसा युक्तो ब्रह्महा सवनी भवेत्।
एवं गर्भमविज्ञातमात्रेयीं वा निपातयेत्।।
द्विगुणा ब्रह्महत्या वै आत्रेयीहिंसने भवेत्।
सुरापी नियताहारो ब्रह्मचारी क्षपाचरः।।
ऊर्ध्वं त्रिभ्योऽपि वर्षेभ्यो यजेताग्निष्टुता परम्।
ऋषभैकसहस्रं वा गा दत्त्वा शौचमाप्नुयात्।।
वैश्यं दत्त्वा तु वर्षे द्वे ऋषभैकशतं च गाः।
शूद्रं हत्वाऽब्दमेवैकमृषभं च शतं च गाः।।
श्ववराहखरान्हत्वा शौद्रमेव व्रतं चरेत्।
मार्जारचाषमण्डूकान्काकं व्यालं च मूषिकम्।।
उक्तः पशुवधे दोषो राजन्प्राणिनिपातनात्।
`अनस्थिकेषु गोमूत्रं पानमेकं प्रचक्षते।'
प्रायश्चित्तान्यथान्यानि प्रवक्ष्याम्यनुपूर्वशः।।
तल्पे वाऽन्यस्य चौर्ये च पृथक् संवत्सरं चरेत्।
त्रीणि श्रोत्रियभार्यायां परदारे च द्वे स्मृते।।
काले चतुर्थे भुञ्जानो ब्रह्मचारी व्रती भवेत्।
स्थानासनाभ्यां विहरेत्रिरह्नाऽभ्युपयन्नपः।।
`ऐवमेव चरन्राजंस्तस्मात्पापात्प्रमुच्यते।'
एवमेव निराकर्ता यश्चाग्नीनपविध्यति।।
त्यजत्यकारणे यश्च पितरं मातरं गुरुम्।
पतितः स्यात्स कौरव्य यथा धर्मेषु निश्चयः।।
ग्रासाच्छादनयानं च शयनं ह्यासनं तथा।
`ब्रह्मचारी द्विजेभ्यश्च दत्त्वा पापात्प्रमुच्यते।।'
भार्यायां व्यभिचारिण्यां निरुद्धायां विशेषतः।
यत्पुंसः परदारेषु तदेनां चारयेद्व्रतम्।
श्रेयांसं शयने हित्वा पापीयांसं समृच्छति।
श्वभिस्तमर्दयेद्राजा संस्थाने बहुविस्तरे।।
पुमांसं बन्धयेत्पाशैः शयने तप्त आयसे।
अप्यादधीत दारूणि तत्र दह्येत पापकृत।।
एव दण्डो महाराज स्त्रीणां भर्तृव्यतिक्रमे।
संवत्सारोऽभिशस्तस्य दुष्टस्य द्विगुणो भवेत्।।
द्वे तस्य त्रीणि वर्षाणि चत्वारि सहसेविनः।
कुमारः पञ्चवर्षाणि चरेद्भैक्षं मुनिव्रतः।।
परिवित्तिः परिवेत्ता या चैव परिविद्यते।
पाणिग्राहस्त्वधर्मेण सर्वे ते पतिताः स्मृताः।।
चरेयुः सर्व एवैते वीरहा यद्व्रतं चरेत्।
चान्द्रायणं चरेन्मासं कृच्छ्रं वा पापशुद्धये।।
परिवेत्ता प्रयच्छेता तां स्नुषां परिवित्तये।
ज्येष्ठेन त्वभ्यनुज्ञातो यवीयाप्यनन्तरम्।
एनसो मोक्षमाप्नोति तौ च सा चैव धर्मतः।।
अमानुषीषु गोवर्जमनादिष्टं न दुष्यति।
अधिष्ठातारमत्तारं पशूनां पुरुषं विदुः।।
परिधायोर्ध्ववालं तु पात्रमादाय मृन्मयम्।
चरेत्सप्तगृहान्भैक्षं स्वकर्म परिकीर्तयन्।।
तथैव लब्धभोजी स्याद्द्वादशाहात्स शुध्यति।
चरेत्संवत्सरं चापि तद्व्रतं येन कृन्तति।।
भवेत्तु मानुषेष्वेवं प्रायश्चिमनुत्तमम्।
दानं वा दानशक्तेषु सवेर्मतत्प्रकल्पयेत्।।
अनास्तिकेषु गोमात्रं दानमेकं प्रचक्षते।
श्ववराहमनुष्याणां कुक्कुटस्य खरस्य च।।
मांसं मूत्रं पुरीषं च प्राश्य संस्कारमर्हति।
ब्राह्मणस्तु सुरापस्य गन्धमादाय सोमपाः।।
अपख्यहं पिबेदुष्णाः संयतात्मा जितेन्द्रियः।
अपः पीत्वा तु स पुनर्वायुभक्षो भवेन्त्र्यहम्।।
एवमेतत्समुद्दिष्टं प्रायश्चित्तिषेवणम्।
ब्राह्मणस्य विशेषेण यदज्ञानेन जायते।।
।। इति श्रीमन्महाभारते शान्तिपर्वणि
आपद्धर्मपर्वणि त्रिषष्ट्यधिकशततमोऽधअयायः।। 163।।