शांतिपर्व
अध्यायः १६२
युधिष्ठिर उवाच।
आनृशंस्यं विजानामि दर्शनेन सतां सदा।
नृशंसान्न विजानामि तेषां कर्म च भारत।।
कण्टकान्कूपमग्निं च वर्जयन्ति यथा नराः।
तथा नृशंसकर्माणं वर्जयन्ति नरा नरम्।।
नृशंसो दह्यते व्यक्तं प्रेत्य चेह च भारत।
तस्मात्त्वं ब्रूहि कौरव्य तस्य धर्मविनिश्चयम्।।
भीष्म उवाच।
स्पृहाऽस्यान्तर्गता चैव विदितार्था च कर्मणाम्
आक्रोष्टा क्रुश्यते चैव बन्धिता बध्यते स च।।
दत्तानुकीर्तिर्विषमः क्षुद्रो नैकृतिकः शठः।
असंभोगी च मानी च तथा सङ्गी विकत्थनः।।
सर्वातिशङ्की पुरुषो बलीशः कृपणोऽथवा।
वर्गप्रशंसीं सततमाश्रमद्वेपसंकरी।।
हिंसाविकारी सततमविशेषगुणागुणः।
बह्वलीको मनस्वी च लुब्धोऽत्यर्थं नृशंसकृत्।।
धर्मशीलं गुणोपेतं पाप इत्यवगच्छति।
आत्मशीलोपमानेन न विश्वसिति कस्यचित्।।
परेषां यत्र दोपः स्यात्तद्गुह्यं संप्रकाशयेत्।
समानेष्वेव दोपेषु वृत्त्यर्थमुपघातयेत्।।
तथोपकारिणं चैव मन्यते वञ्चितं परम्।
दत्त्वाऽपि च धनं काले संतपत्युपकारिणे।।
भक्ष्यं पेयमथालेह्यं यच्चान्यत्साधु भोजनम्।
प्रेक्षमाणेषु योऽश्नीयान्नृशंसमिति तं वदेत्।।
ब्राह्मणेभ्यः प्रदायाग्रं यः सुहृद्भिः सहाश्नुते।
स प्रेत्य लभते स्वर्गमिह चानन्त्यमश्नुते।।
एष ते भरतश्रेष्ठ नृशंसः परिकीर्तितः।
सदा विवर्जनीयो हि पुरुषेण बुभूषता।।
।। इति श्रीमन्महाभारते शान्तिपर्वणि
आपद्धर्मपर्वणि द्विषष्ट्यधिकशततमोऽध्यायः।। 162।।