शांतिपर्व

अध्यायः १६२

Santi Parva (Sanskrit) · Adhyaya 162
अक्षर का आकार

युधिष्ठिर उवाच।

आनृशंस्यं विजानामि दर्शनेन सतां सदा।
नृशंसान्न विजानामि तेषां कर्म च भारत।।

कण्टकान्कूपमग्निं च वर्जयन्ति यथा नराः।
तथा नृशंसकर्माणं वर्जयन्ति नरा नरम्।।

नृशंसो दह्यते व्यक्तं प्रेत्य चेह च भारत।
तस्मात्त्वं ब्रूहि कौरव्य तस्य धर्मविनिश्चयम्।।

भीष्म उवाच।

स्पृहाऽस्यान्तर्गता चैव विदितार्था च कर्मणाम्
आक्रोष्टा क्रुश्यते चैव बन्धिता बध्यते स च।।

दत्तानुकीर्तिर्विषमः क्षुद्रो नैकृतिकः शठः।
असंभोगी च मानी च तथा सङ्गी विकत्थनः।।

सर्वातिशङ्की पुरुषो बलीशः कृपणोऽथवा।
वर्गप्रशंसीं सततमाश्रमद्वेपसंकरी।।

हिंसाविकारी सततमविशेषगुणागुणः।
बह्वलीको मनस्वी च लुब्धोऽत्यर्थं नृशंसकृत्।।

धर्मशीलं गुणोपेतं पाप इत्यवगच्छति।
आत्मशीलोपमानेन न विश्वसिति कस्यचित्।।

परेषां यत्र दोपः स्यात्तद्गुह्यं संप्रकाशयेत्।
समानेष्वेव दोपेषु वृत्त्यर्थमुपघातयेत्।।

तथोपकारिणं चैव मन्यते वञ्चितं परम्।
दत्त्वाऽपि च धनं काले संतपत्युपकारिणे।।

भक्ष्यं पेयमथालेह्यं यच्चान्यत्साधु भोजनम्।
प्रेक्षमाणेषु योऽश्नीयान्नृशंसमिति तं वदेत्।।

ब्राह्मणेभ्यः प्रदायाग्रं यः सुहृद्भिः सहाश्नुते।
स प्रेत्य लभते स्वर्गमिह चानन्त्यमश्नुते।।

एष ते भरतश्रेष्ठ नृशंसः परिकीर्तितः।
सदा विवर्जनीयो हि पुरुषेण बुभूषता।।

।। इति श्रीमन्महाभारते शान्तिपर्वणि
आपद्धर्मपर्वणि द्विषष्ट्यधिकशततमोऽध्यायः।। 162।।