शांतिपर्व
अध्यायः १६१
युधिष्ठिर उवाच।
यतः प्रभवति क्रोधः कामो वा भरतर्षभ।
शोकमोहौ विधित्सा च परासुत्वं तथा मदः।।
लोभो मात्सर्यमीर्ष्या च कुत्साऽसूया कृपा भयम्।
एतत्सर्वं महाप्राज्ञ याथातथ्येन मे वद।।
भीष्म उवाच।
त्रयोदशैतेऽतिबलाः शत्रवः प्राणिनां स्मृताः।
उपासते महाराज समन्तात्पुरुषानिह।।
एते प्रमत्तं पुरुषमप्रमत्तास्तुदन्ति च।
वृका इव विलुम्पन्ति दृष्ट्वेव पुरुषेतरान्।।
एभ्यः प्रवर्तते दुःखमेभ्यः पापं प्रवर्तते।
इति मर्त्यो विजानीयात्सततं पुरुषर्षभ।।
एतेषामुदयं स्थानं क्षयं च पृथिवीपते।
हन्त ते कथयिष्यामि क्रोधस्योत्पत्तिमादितः।
यथातत्त्वं क्षितिपते तन्मे निगदतः शृणु।।
लोभात्क्रोधः प्रभवति परदोषैरुदीर्यते।
क्षमया तिष्ठते राजन्क्षमया विनिवर्तते।।
संकल्पाज्जायते कामः सेव्यमानो विवर्धते।
यदा प्राज्ञो विरमते तदा सद्यः प्रणश्यति।।
[परामूया क्रोधलोभावन्तरा प्रतिमुच्यते।
दयया सर्वभूतानां निर्वेदाद्विनिवर्तते।]
अवद्यदर्शनादेति तत्त्वज्ञानाच्च नश्यति।।
अज्ञानप्रभवो मोहः पापाभ्यासात्प्रवर्तते।
यदा प्राज्ञेषु रमते तदा सद्यः प्रणश्यति।।
विरुद्धानीह शास्त्राणि ये पश्यन्ति कुरूद्वह।
विधित्सा जायते तेषां तत्त्वज्ञानान्निवर्तते।।
प्रीतेः शोकः प्रभवति वियोगात्तस्य देहिनः।
यदा निरर्थकं वेत्ति तदा सद्यः प्रणश्यति।।
परासुता क्रोधलोभादभ्यासाच्च प्रवर्तते।
दयया सर्वभूतानां निर्वेदात्सा निवर्तते।।
सत्यत्यागात्तु मात्सर्यमहितानां च सेवया।
एतत्तु क्षीयते तात साधूनामुपसेवनात्।।
कुलाञ्ज्ञानात्तथैश्वर्यान्मदो भवति देहिनाम्।
एभिरेव तु विज्ञातैर्मदः सद्यः प्रणश्यति।।
ईर्ष्या कामात्प्रभवति संहर्षाच्चैव जायते।
इतरेषां तु सत्वानां प्रज्ञया सा प्रणश्यति।।
विभ्रमाल्लोकबाह्यानां द्वेष्यैर्वाक्यैरसंमतैः।
कुत्सा संजायते राजँल्लोकान्प्रेक्ष्याभिशाम्यति।।
प्रतिकर्तुं न शक्ता ये बलस्थायापकारिणे।
असूया जायते तीव्रा कारुण्याद्विनिवर्तते।।
कृपणान्सततं दृष्ट्वा ततः संजायते कृपा।
धर्मनिष्ठां यदा वेत्ति तदा शाम्यति सा कृपा।।
अज्ञानप्रभवो लोभो भूतानां दृश्यते सदा।
अस्थिरत्वं च भोगानां दृष्ट्वा ज्ञात्वा निवर्तते।।
एतान्येव जितान्याहुः प्रशान्तेन त्रयोदश।
एते हि धार्तराष्ट्राणां सर्वे दोषास्त्रयोदश।
त्वया सत्यार्थिना नित्यं विजिता जेष्यता चते।।
।। इति श्रीमन्महाभारते शान्तिपर्वणि
आपद्धर्मपर्वणि एकषष्ट्यधिकशततमोऽध्यायः।। 161।।