शांतिपर्व

अध्यायः १६०

Santi Parva (Sanskrit) · Adhyaya 160
अक्षर का आकार

युधिष्ठिर उवाच।

सत्यं धर्मं प्रशंसन्ति विप्रर्षिपितृदेवताः।
सत्यमिच्छाम्यहं ज्ञातुं तन्मे ब्रूहि पितामह।।

सत्यं किंलक्षणं राजन्कथं वा तदवाप्यते।
सत्यं प्राप्य भवेत्किंच कथं चैव तदुच्यताम्।।

भीष्म उवाच।

चातुर्वर्ण्यस्य धर्माणां संकरो न प्रशस्यते।
धर्मः साधारणः सत्यं सर्ववर्णेषु भारत।।

सत्यं सत्सु सदा धर्मः सत्यं धर्मः सनातनः।
सत्यमेव नमस्येत सत्यं हि परमा गतिः।।

सत्यं धर्मस्तपोयोगः सत्यं ब्रह्म सनातनम्।
सत्यं यज्ञः परः प्रोक्तः सर्वं सत्ये प्रतिष्ठितम्।।

रूपं यदिह सत्यस्य यथावदनुपूर्वशः।
लक्षणं च प्रवक्ष्यामि सत्यस्येह पराक्रमम्।।

प्राप्यते च यथा सत्यं तच्च वेत्तुमिहार्हसि।
सत्यं त्रयोदशावधं सर्वलोकेषु भारत।।

सत्यं च समता चैव दमश्चैव न संशयः।
अमात्सर्यं क्षमा चैव ह्रीस्तितिक्षाऽनसूयता।।

त्यागो ध्यानमथार्यत्वं धृतिश्च सततं दया।
अहिंसा चैव राजेन्द्र सत्याकारास्त्रयोदश।।

सत्यं नामाव्ययं नित्यमविकारि तथैव च।
सर्वधर्माविरुद्धं च योगेनैतदवाप्यते।।

आत्मनीष्टे तथाऽनिष्टे रिपौ च समता तथा।
इच्छाद्वेषं क्षयं प्राप्य कामक्रोधक्षयं तथा।।

दमी नान्यस्पृहा नित्यं गाम्भीर्यं धैर्यमेव च।
अशाठ्यं क्रोधदमनं ज्ञानेनैतदवाप्यते।।

अमात्सर्यं बुधाः प्राहुर्दाने धर्मे च संयमः।
अवस्थितेन नित्यं च सत्येनामत्सरी भवेत्।।

अक्षमायाः क्षमायाश्च प्रियाणीहाप्रियाणि च।
क्षमते स तः साधुस्ततः प्राप्नोति सत्यताम्।।

कल्याणं रुते बाढं धीमान्न ग्लायते क्वचित्।
प्रशान्तवाङ्भना नित्यं ह्रीस्तु धर्मादवाप्यते।।

धर्मार्थहेतोः क्षमते तितिक्षा धर्म उत्तमः।
लोकसंग्रहणार्थं वै सा तु धैर्येण लभ्यते।।

`अनसूया तु गाम्भीर्यं दानेनैतदवाप्यते।'
त्यक्तस्नेहस्य यस्त्यागो विषयाणां तथैव च।
रागद्वेषप्रहीणस्य त्यागो भवति नान्यथा।।

`ध्यानं च शाठ्यमित्युक्तं मौनेनैतदवाप्यते।'
आर्यता नाम भूतानां यः करोति प्रयत्नतः।
शुभं कर्म निराकारो वीतरागस्तथैव च।।

धृतिर्नाम सुखे दुःखे यया नाप्नोति विक्रियाम्।।
तां भजेत सदा प्राज्ञो य इच्छेद्भूतिमात्मनः।।

सर्वथा क्षमिणा भाव्यं तथा सत्यपरेण च।
वीतहर्षभयक्रोधो धृतिमाप्नोति पण्डितः।।

अद्रोहः सर्वभूतेषु कर्मणा मनसा गिरा।
अनुग्रहश्च दानं च सतां धर्मः सनातनः।।

एते त्रयोदशाकाराः पृथक्सत्यैकलक्षणाः।
भजन्ते सत्यमेवेह बृंहयन्ते च भारत।।

नान्तः शक्यो गुणानां च वक्तुं सत्यस्य पार्थिव।
अतः सत्यं प्रशंसन्ति विप्राः सपितृदेवताः।।

नास्ति सत्यात्परो धर्मो नानृतात्पातकं परम्।
स्थितिर्हि सत्यं धर्मस्य तस्मात्सत्यं न लोपयेत्।।

उपैति सत्याद्दानं हि तथा यज्ञाः सदक्षिणाः।
त्रेताग्निहोत्रं वेदाश्च ये चान्ये धर्मनिश्चयाः।।

अश्वमेधसहस्त्रं च सत्यं च तुलया धृतम्।
अश्वमेधसहस्राद्धि सत्यमेव विशिष्यते।।

।। इति श्रीमन्महाभारते शान्तिपर्वणि
आपद्धर्मपर्वणि षष्ट्यधिकशततमोऽध्यायः।। 160।।