शांतिपर्व

अध्यायः १५५

Santi Parva (Sanskrit) · Adhyaya 155
अक्षर का आकार

भीष्म उवाच।

एवमुक्त्वा तु राजेन्द्र शाल्मलिं ब्रह्मवित्तमः।
नारदः पवने सर्वं शाल्मलेर्वाक्यमब्रवीत्।।

नारद उवाच।

हिमवत्पृष्ठजः कश्चिच्छाल्मलिः परिवारवान्।
बृहन्मूलो बृहच्छायः स त्वां वायोऽवमन्यते।।

बहुव्याक्षेपयुक्तानि त्वामाह वचनानि सः।
न युक्तानि मया वायो तानि वक्तुं तवाग्रतः।।

जानामि त्वामहं वायो सर्वप्राणभृतां वरम्।
वरिष्ठं च गरिष्ठं च सर्वलोकेश्वरं प्रभुम्।।

भीष्म उवाच।

एतत्तु वचनं श्रुत्वा नारदस्य समीरणः।
शाल्मलिं तमुपागम्य क्रुद्धो वचनमब्रवीत्।।

वायुरुवाच।

शाल्मले नारदो गच्छंस्त्वयोक्तो मद्विगर्हणम्।
अहं वायुः प्रभावं ते दर्शयाम्यात्मनो बलम्।।

नाहं त्वां नाभिजानामि विदितश्चासि मे द्रुम।
पितामहः प्रजासर्गे त्वयि विश्रान्तवान्प्रभुः।।

तस्य विश्रमणादेव प्रसादौ मत्कृतस्तव।
अभूत्तस्य प्रसादात्त्वां न भज्यामि द्रुमाधम।।

यन्मां त्वमवजानीषे यथाऽन्यं प्राकृतं तथा।
दर्शयाम्येष चात्मानं यथा मां नावमन्यसे।।

भीष्म उवाच।

एवमुक्तस्ततः प्राह शाल्मलिः प्रहसन्निव।
पवन त्वं वने क्रुद्धो दर्शयात्मानमात्मना।।

मयि वै मुच्यतां क्रोधः किं मे क्रुद्धः करिष्यसि।
न ते बिभेमि पवन यद्यपि त्वं स्वयं प्रभुः।
बलाधिकोऽहं त्वत्तश्च न भीः कार्या मया तव।।

ये तु बुद्ध्या हि बलिनस्ते भवन्ति बलीयसः।
प्राणमात्रबला ये वै नैव ते बलिनो मताः।।

इत्येवमुक्तः पवनः श्व इत्येवाब्रवीद्वचः।
दर्शयिष्यामि ते तेजस्ततो रात्रिरुपागमत्।।

अथ निश्चित्य मनसा शाल्मलिर्वैरधारणम्।
पश्यमानस्तदात्मानमसमं मातरिश्वना।।

नारदे यन्मया प्रोक्तं वचनं प्रति तन्मृषा।
असमर्थो ह्यहं वायोर्बलेन बलवान्हि सः।।

मारुतो बल्यान्नित्यं यथा वै नारदोऽब्रवीत्।
अहं तु दुर्बलोऽन्येभ्यो वृक्षेभ्यो नात्र संशयः।।

किं तु बुद्ध्या समो नास्ति मम कश्चिद्वनस्पतिः।
तदहं बुद्धिमास्थाय भयं त्यक्ष्ये समीरणात्।।

यदि तां बुद्धिमास्थाय तिष्ठेयुः पर्णिनो वने।
अरिष्टाः स्युः सदा क्रुद्धात्पवनान्नात्र संशयः।।

ते तु बाला न जानन्ति यथा नैतान्समीरणः।
समीरयेत संक्रुद्धो यथा जानाम्यहं तथा।।

भीष्म उवाच।

ततो निश्चित्य मनसा शाल्मलिः क्षुभितस्तदा।
शाखाः स्कन्धान्प्रशाखाश्च स्वयमेव व्यशातयत्।।

स परित्यज्य शाखाश्च पत्राणि कुसुमानि च।
प्रभाते वायुमायान्तं प्रेक्षते स्म वनस्पतिः।।

ततः क्रुद्धः श्वसन्वायुः पातयन्वै महाद्रुमान्।
आजगामाथ तं देशमास्ते यत्र स शाल्मलिः।।

तं हीनपर्णं पतिताग्रशाखं
निशीर्णपुष्पं प्रसमीक्ष्य वायुः।
उवाच वाक्यं स्ययमान एवं
मुदायुतः शाल्मलिं रुग्णशाखम्।।

वायुरुवाच।

अहमप्येवमेव त्वां कुर्यां वै शाल्मले रुषा।
आत्मना यत्कृतं कृच्छ्रं शाखानामपकर्षणम्।।

हीनपुष्पाग्रशाखस्त्वं शीर्णाङ्कुरपलाशकः।
आत्मदुर्मन्त्रितेनेह मद्वीर्यवशगः कृतः।।

भीष्म उवाच।

एतच्छ्रुत्वा वचो वायोः शाल्मलिर्व्रीडितस्तदा।
अतप्यत वचः स्मृत्वा नारदो यत्तदाऽब्रवीत्।।

एवं हि राजशार्दूल दुर्बलः सन्वलीयसा।
वैरमासञ्जते बालस्तप्यते शाल्मलिर्यथा।।

तस्माद्वैरं न कुर्वीत दुर्बलो बलवत्तरैः।
शोचेद्धि वैरं कुर्वाणो यथा वै शाल्मलिस्तथा।।

न हि वैरं महात्मानो विवृण्वन्त्यपकारिषु।
शनैः शनैर्महाराज दर्शयन्ति स्म ते बलम्।।

वैरं न कुर्वीत नरो दुर्बुद्धिर्बुद्धिजीविना।
बुद्धिर्वुद्धिमतो याति तूलष्विव हुताशनः।।

न हि बुद्ध्या समं किंचिद्विद्यते पुरुषे नृप।
तथा बलेन राजेन्द्र न समोऽस्तीह कश्चन।।

तस्मात्क्षमेत बालाय जडान्धवधिराय च।
बलाधिकाय राजेन्द्र तद्दृष्टं त्वयि शत्रुहन्।।

अक्षौहिण्यो दशैका च सप्त चैव महाद्युते।
बलेन न समा राजन्नर्जुनस्य महात्मनः।।

निहताश्चैव भग्नाश्च पाण्डवेन यशस्विना।
चरता बलमास्थाय पाकशासनिना मृधे।।

उक्ताश्च ते राजधर्मा आपद्धर्माश्च भारत।
विस्तरेण महाराज किं भूयः प्रव्रवीमि ते।।

।। इति श्रीमन्महाभारते शान्तिपर्वणि
आपद्धर्मपर्वणि पञ्चषच्चाशदधिकशततमोऽध्यायः।। 155।।