शांतिपर्व

अध्यायः १५६

Santi Parva (Sanskrit) · Adhyaya 156
अक्षर का आकार

युधिष्ठिर उवाच।

पापस्य यदधिष्ठानं यतः पापं प्रवर्तते।
एतदिच्छाम्यहं श्रोतुं तत्त्वेन भरतर्षभ।।

भीष्म उवाच।

पापस्य यदधिष्ठानं तच्छृणुष्व नराधिप।
एको लोभो महाग्राहो लोभात्पापं प्रवर्तते।।

अतः पापमधर्मश्च तथा दुःखमनुत्तमम्।
निकृत्या मूलमेतद्धि येन पापकृतो जनाः।।

लोभात्क्रोधः प्रभवति लोभात्कामः प्रवर्तते।
लोभान्मोहश्च माया च मानस्तम्भः परासुता।।

अक्षमा ह्रीपरित्यागः श्रीनाशो धर्मसंक्षयः।
अभिध्याऽप्रख्यता चैव सर्वं लोभात्प्रवर्तते।।

अत्यागश्च कुतर्कश्च विकर्मसु च याः क्रियः।
कुलविद्यामदश्चैव रूपैश्वर्यमदस्तथा।।

सर्वभूतेष्वभिद्रोहः सर्वभूतेष्वसत्कृतिः।
सर्वभूतेष्वविश्वासः सर्वभूतेष्वनार्जवम्।।

हरणं परवित्तानां परदाराभिमर्शनम्।
वाग्वेगो मनसो वेगो निन्दावेगस्तथैव च।।

उपस्थोदरयोर्वेगो मृत्युवेगश्च दारुणः।
ईर्ष्यावेगश्च बलवान्मिथ्यावेगश्च दुर्जयः।।

रसवेगश्च दुर्वार्यः श्रोत्रवेगश्च दुःसह।
कुत्सा विकत्था मात्सर्यं पापं दुष्कर्मकारिता।
साहसानां च सर्वेषामकार्याणां क्रियास्तथा।।

आतौ बाल्ये च कौमारे यौवने चापि मानवाः।
न त्यजन्त्यात्मकर्मैकं यन्न जीर्यति जीर्यतः।।

यो न पूरयितुं शक्यो लोभः प्रीत्या कथंचन।
नित्यं गम्भीरतोयाभिरापगाभिरिवोदधिः।।

न प्रहृष्यति यो लोभैः कामैर्यश्च न तृप्यति।
यो न देवैर्न गन्धर्वैर्नासुरैर्न महोरगैः।।

ज्ञायते नृप तत्त्वेन सर्वैर्भूतगणैस्तथा।
स लोभः सह मोहेन विजेतव्यो जितात्मना।।

दम्भो द्रोहश्च निन्दा च पैशून्यं मत्सरस्तथा।
भवन्त्येतानि कौरव्य लुब्धानामकृतात्मनाम्।।

सुमहान्त्यपि शास्त्राणि धारयन्तो बहुश्रुताः।
छेत्तारः संशयानां च क्लिश्यन्तीहाल्पबुद्धयः।।

द्वेपक्रोधप्रसक्ताश्च शिष्टाचारबहिष्कृताः।
अन्तःक्षुरा वाङ्भधुराः कृपाश्छन्नास्तृणैरिव।।

धर्मवैतंसिकाः क्षुद्रा मुष्णन्ति ध्वजिनो जगत्।
कुर्वते च बहून्मार्गांस्तान्हेतुबलमाश्रिताः।
सर्वमार्गान्विलुम्पन्ति लोभज्ञानेष्ववस्थिताः।।

धर्मस्य ह्रियमाणस्य लोभग्रस्तैर्दुरात्मभिः।
याया विक्रियते संस्था ततः साऽपि प्रपद्यते।।

दर्पः बोधो मदः स्वप्नो हर्षः शोकोऽभिमानिता।
एत हि कौरव्य दृश्यन्ते लुब्धबुद्धिषु।।

एताना टान्बुद्धस्व नित्यं लोभसमन्वितान्।
शिष्टांस्तु परिपृच्छेथा यान्वक्ष्यामि शुचिव्रतान्।।

येष्वावृत्तिभयं नास्ति परलोकभयं न च।
नामिपेषु प्रसङ्गोऽस्ति न प्रियेष्वप्रियेषु च।।

शिष्टाचारः प्रियो येषु दमो येषु प्रतिष्ठितः।
सुखं दुःखं समं येषां सत्यं येषां परायणम्।।

दातारो न ग्रहीतारो दयावन्तस्नथैव च।
पितृदेवातिथेयाश्च नित्योद्युक्तास्तथैव च।।

सर्वोपकारिणो वीराः सर्वधर्मानुपालकाः।
सर्वभूतहिताश्चैव सर्वदेयाश्च भारत।।

न ते चालयितुं शक्या धर्मव्याहारकारिणः।
न तेषां भिद्यते वृत्तं यत्पुरा साधुभिः कृतम्।।

न त्रासिनो न चपला न रौद्राः सत्पथे स्थिताः।
ते सेव्याः साधुभिर्नित्यमसाधूंश्च विवर्जयेत्।।

कामक्रोधव्यपेता ये निर्ममा निरहंकृताः।
सुव्रताः स्थिरमर्यादास्तानुपास्व च पृच्छ च।।

न वागर्थं यशोर्थं वा धर्मस्तेपां युधिष्ठिर।।
अवश्यं कार्य इत्येव शरीरस्य क्रियास्तथा।।

त भयं क्रोधचापल्ये न शोकस्तेषु विद्यते।
न धर्मध्वजिनश्चैव न गुह्यं किंचिदास्थिताः।।

येष्वलोभस्तथाऽमोहो ये च सत्यार्जवे स्थिताः।
तेषु कौन्तेय रज्येथा येषां न भ्रश्यते पुनः।।

ये न हृष्यन्ति लाभेषु नालाभेषु व्यथन्ति च।
निर्ममा निरहंकाराः सत्वस्थाः समदर्शिनः।।

लाभालाभौ सुखदुःखे च तात
प्रियाप्रिये मरणं जीवितं च।
समानि येषां स्थिरविक्रमाणां
बुभुत्सतां सत्यपथे स्थितानाम्।।

धर्मप्रियांस्तान्सुमहानुभावान्
दान्तोऽप्रमत्तश्च समर्चयेथाः।
दैवात्सर्वे गुणवन्तो भवन्ति
शुभाशुभे वाक्प्रलापास्तथाऽन्ये।।

।। इति श्रीमन्महाभारते शान्तिपर्वणि
आपद्धर्मपर्वणि षट्‌पञ्चाशदधिकशततमोऽध्यायः।। 156।।