शांतिपर्व

अध्यायः १५४

Santi Parva (Sanskrit) · Adhyaya 154
अक्षर का आकार

नारद उवाच।

बन्धुत्वादथवा सख्याच्छाल्मले नात्र संशयः।
कस्मात्त्वां रक्षते नित्यं भीमः सर्वत्रगोऽनिलः।।

तद्भावं परमं वायोः शाल्मके त्वमुपागतः।
तवाहमस्मीति सदा येन रक्षति मारुतः।।

न तं पश्याम्यहं वृक्षं पर्वतं वेश्म चेदृशम्।
यं न वायुबलाद्भग्नं पृथिव्यामिति मे मतिः।।

त्वं पुनः कारणैर्नूनं रक्ष्यसे शाल्मले यथा।
वायुना सपरीवारस्तेन तिष्ठस्यसंशयम्।।

शाल्मलिरुवाच।

न मे वायुः सखा ब्रह्मन्न बन्धुर्मम नारद।
चिरं मे प्रीयते नैव येन मां रक्षतेऽनिलः।।

मम तेजोबलं भीमं वायोरपि हि नारद।
कलामष्टादशीं प्राणैर्न मे प्राप्नोति मारुतः।।

आगच्छन्परुषो वायुर्मया विष्टम्भितो बलात्।
भञ्जन्द्रुमान्पर्वतांश्च यच्चान्यत्स्थाणुजङ्गमम्।।

स मया बहुशो भग्नः प्रभञ्जन्वै प्रभञ्जनः।
तस्मान्न विभ्ये देवर्षे क्रुद्धादपि समीरणात्।।

नारद उवाच।

शाल्मले विपरीतं ते दर्शनं नात्र संशयः।
न हि वायोर्बले नास्ति भूतं तुल्यबलं क्वचित्।।

इन्द्रो यमो वैश्रवणो वरुणश्च जलेश्वरः।
नैतेऽपि तुल्या मरुतः किं पुनस्त्वं वनस्पते।।

यश्च कश्चिदपि प्राणी चेष्टते शाल्मले भुवि।
सर्वत्र भगवान्वायुश्चेष्टाप्राणकरः प्रभुः।।

एष चेष्टयते सम्यक्प्राणिनः सम्यगायतः।
असम्यगायतो भूयश्चेष्टते विकृतं नृषु।।

स त्वमेवंविधं वायुं सर्वसत्वभृतां वरम्।
न पूजयसि पूज्यन्तं किमन्यद्वुद्धिलाघवात्।।

असारश्चापि दुर्मेधाः केवलं बहु भाषसे।
क्रोधादिभिरवच्छन्नो मिथ्या वदसि शाल्मले।।

मम रोषः समुत्पन्नस्त्वय्येवं संप्रभाषति।
ब्रवीम्येष स्वयं वायोस्तव दुर्भाषितं बहु।।

चन्दनैः स्यन्दनैः शालैः सरलैर्देवदारुभिः।
वेतसैर्धन्वनैश्चापि ये चान्ये बलवत्तराः।
तैश्चापि नैवं दुर्बुद्धे क्षिप्तो वायुः कृतात्मभिः।।

तेऽपि जानन्ति वायोश्च बलमात्मन एव च।
तस्मात्ते नावमन्यन्ते श्वसनं तरुसत्तमाः।।

त्वं तु मोहान्न जानीपे वायोर्बलमनन्तकम्।
एवं तस्माद्गमिष्यामि सकाशं मातरिश्वनः।।

।। इति श्रीमन्महाभारते शान्तिपर्वणि
आपद्धर्मपर्वणि चतुःपञ्चाशदधिकशततमोऽध्यायः।। 154।।