शांतिपर्व

अध्यायः १५३

Santi Parva (Sanskrit) · Adhyaya 153
अक्षर का आकार

युधिष्ठिर उवाच।

बलिनः प्रत्यमित्रस्य नित्यमासन्नवर्तिनः।
उण्कारापकाराभ्यां समर्थस्योद्यतस्य च।।

मोहाद्विकत्थनामात्रैरसारोऽल्पबलो लघुः।
वाग्भिरप्रतिरूपाभिरभिद्रुह्य पितामह।।

आत्मनो बलमास्थाय कथं वर्तेत मानवः।
आगच्छतोऽतिक्रुद्धस्य तस्योद्धरणकाम्यया।।

भीष्म उवाच।

अत्राप्युदाहन्तीममितिहासं पुरातनम्।
संवादं भरतश्रेष्ठ शाल्मलेः पवनस्य च।।

हिमवन्तं समासाद्य महानासीद्वनस्पतिः।
वर्षपूगाभिसंवृद्धः शाखामूलपलाशवान्।।

तत्र स्म मत्तमातङ्गा घर्मार्ताः श्रमकर्शिताः।
विश्राम्यन्ति महाबाहो तथाऽन्या मृगजातयः।।

नल्वमांत्रपरीणाहो घनच्छायो वनस्पतिः।
शुकशारिकसंघुष्टः पुष्पवान्फलवानपि।।

सार्थका वणिजश्चापि तापसाश्च वनौकसः।
वसन्ति तत्र मार्गस्थाः सुरम्ये नगसत्तमे।।

तस्य ता विपुलाः शाखा दृष्ट्वा स्कन्धं च सर्वशः।
अभिगम्याब्रवीदेनं नारदो भरतर्षभ।।

अहो नु रमणीयस्त्वमहो चासि मनोहरः।
प्रीयामहे त्वया नित्यं तरुप्रवर शाल्मके।।

सदैव शकुनास्तात मृगाश्चाथ तथा गजाः।
वसन्ति तव संहृष्टा मनोहरतरास्तथा।।

तव शाखा महाशाख स्कन्धांश्च विपुलांस्तथा।
न वै प्रभग्नान्पश्यामि मारुतेन कथंचन।।

किंनु ते पवनस्तात प्रीतिमानथवा सुहृत्।
त्वां रक्षति सदा येन वनेऽत्र पवनो ध्रुवम्।।

भगवान्पवनः स्थानाद्वृक्षानुच्चावचानपि।
पर्वतानां च शिखराण्याचालयति वेगवान्।।

शोषयत्येव पातालं वहन्गन्धवहः शुचिः।
सरांसि सरितश्चैव सागरांश्च तथैव च।।

संरक्षति त्वां पवनः सखित्वेन न संशयः।
तस्मात्त्वं बहुशाखोऽपि पर्णवान्पुष्पवानपि।।

इदं च रमणीयं ते प्रतिभाति वनस्पते।
य इमे विहगास्तात रमन्ते मुदितास्त्वयि।।

एषां पृथक्समस्तानां श्रूयते मधुरस्वरः।
पुष्पसंमोदने काले वाशन्ते हरियूथपाः।।

तथेमे गर्जिता नागाः स्वयूथगणशोभिताः।
घर्मार्तास्त्वां समासाद्य सुखं विन्दति शाल्मके।

तथैव मृगजातीभिरन्याभिरभिशोभसे।
तथा सार्थाधिवासैश्च शोभसे मेरुवद्द्रुम्।।

ब्राह्मणैश्च तपः सिद्धैस्तापसैः श्रमणैस्तथा।
त्रिविष्टपसमं मन्ये तवायतनमेव हि।।

।। इति श्रीमन्महाभारते शान्तिपर्वणि
आपद्धर्मपर्वणि त्रिपञ्चाशदधिकशततमोऽध्यायः।। 153।।