शांतिपर्व
अध्यायः १५२
युधिष्ठिर उवाच।
कच्चित्पितामहेनासीच्छ्रुवं वा दृष्टमेव च।
कच्चिन्मर्त्यो मृतो राजन्पुनरुज्जीवितोऽभवत्।।
भीष्म उवाच।
शृणु पार्थ यथावृत्तमितिहासं पुरातनम्।
गृध्रजम्बुकसंवादं यो वृत्तो वैदिशे पुरे।।
कस्यचिद्ब्राह्मणस्यासीद्दुःखलब्धः सुतो मृतः।
बाल एव विशालाक्षो बालग्रहनिपीडितः।।
दुःखिताः केचिदादाय बालमप्राप्तयोवनम्।
कुलसर्वस्वभूतं वै रुदन्तः शोककर्शिताः।।
बालं मृतं गृहीत्वाऽथ श्मशानाभिमुखाः स्थिताः।
अङ्गेनाङ्गं समाक्रस्य रुरुदुर्भृशदुःखिताः।।
शोचन्तस्तस्य पूर्वोक्तान्भाषितांश्चासकृत्पुनः।
तं बालं भूतले क्षिप्य प्रतिगन्तुं न शक्नुयुः।।
तेषां रुदितशब्देन गृध्रोऽभ्येत्य वचोऽब्रवीत्।
प्रेतात्मकमिमंकाले त्यक्त्वा गच्छत माचिरम्।।
इह पुंसां सहस्राणि स्त्रीसहस्राणि चैव ह।
समानीतानि कालेन हित्वा वै यान्ति बान्धवाः।।
संपश्यत जगत्सर्वं सुखदुःखैरधिष्ठितम्।
संयोगो विप्रयोगश्च पर्यायेणोपलभ्यते।।
गृहीत्वा ये च गच्छन्ति येऽनुयान्ति च तान्मृतान्।
तेऽप्यायुषः प्रमाणेन स्वेन गच्छन्ति जन्तवः।।
अलं स्थित्वा श्मशानेऽस्मिन्गृध्रगोमायुसंकुले।
कङ्कालबहुले घोरे सर्वप्राणिभयंकरे।।
न पुनर्जीवितः कश्चित्कालधर्ममुपागतः।
प्रियो वा यदि वा द्वेष्यः प्राणिनां गतिरीदृशी।।
सर्वेण खलु मर्तव्यं मर्त्यलोके प्रसूयता।
कृतान्तविहिते मार्गे मृतं को जीवयिष्यति।।
दिशान्तोपचितो यावदस्तं गच्छति भास्करः।
गम्यतां स्वमधिष्ठानं सुतस्नेहं विसृज्य वै।।
ततो गृध्रवचः श्रुत्वा विक्रोशन्तस्तदा नृप।
बान्धवास्तेऽभ्यगच्छन्त पुत्रमुत्सृज्य भूतले।।
विनिश्चित्याथ च तदा विक्रोशन्तस्ततस्ततः।
[मृत इत्येव गच्छन्तो निराशास्तस्य दर्शने।।]
निश्चितार्थाश्च ते सर्वे संत्यजन्तः स्वमात्मजम्।
निराशा जीविते तस्य मार्गमावृत्य धिष्ठिताः।।
ध्वाङ्क्षपक्षसवर्णस्तु बिलान्निःसृत्य जम्बुकः।
गच्छमानान्स्म तानाह निर्घृणाः खलु मानुषाः।।
आदित्योऽयं स्थितो मूढाः स्नेहं कुरुत मा भयम्।
बहुरूपो मुहूर्ताच्च जीवेदपि च बालकः।।
दर्भान्भूमौ विनिक्षिप्य पुत्रस्नेहविनाकृताः।
श्मशाने सुतमुत्सृज्य कस्माद्गच्छत निर्घृणाः।।
न वोऽस्त्यस्मिन्सुते स्नेहो बाले मधुरभाषिणि।
यस्य भाषितमात्रेण प्रसादमधिगच्छत।।
न पश्यध्वं सुतस्नेहो यादृशः पशुपक्षिणाम्।
न तेषां धारयित्वा तान्कश्चिदस्ति फलागमः।।
चतुष्पात्पक्षिकीटानां प्राणिनां स्नेहसङ्गिनाम्।
परलोकगतिस्थानां मुनियज्ञक्रियामिव।।
तेषां पुत्राभिरामाणामिह लोके परत्र च।
न गुणो दृश्यते कश्चित्प्रजाः संधारयन्ति च।।
अपश्यतां प्रियान्पुत्रान्येषां शोको न तिष्ठति।
न ते पोषणसंप्रीता मातापितर एव हि।।
मानुषाणां कुतः स्नेहो येषां शोको न विद्यते।
इमं कुलकरं पुत्रं त्यक्त्वा क्व नु गमिष्यथ।।
चिरं मुञ्चत बाष्पं च चिरं स्नेहेनन पश्यत।
एवंविधानि हीष्टानि दुस्त्यजानि विशेषतः।।
क्षीणस्याथामिशस्तस्य श्मशानाभिमुखस्य च।
बान्धवा यत्र तिष्ठति तत्रान्यो नाधितिष्ठति।।
सर्वस्य दयिताः प्राणाः सर्वः स्नेहं च विन्दति।
तिर्यग्योनिष्वपि संतां स्नेहं पश्यत यादृशम्।।
त्यक्त्वा कथं गच्छथेमं पद्मलोलायतेक्षणम्।
यथा नवोद्वाहकृतं स्नानमाल्यविभूषितम्।
जम्बुकस्य वचः श्रुत्वा कृपणं परिदेवतः।
न्यवर्तन्त तदा सर्वे बालार्थं ते स्म मानुषाः।।
गृध्र उवाच।
अहो बत नृशंसेन जम्बुकेनाल्पमेधसा।
क्षुद्रेणोक्ता हीनसत्वा मानुषाः किं निवर्तथ।।
पञ्चभूतपरित्यक्तं शुष्कं काष्ठत्वमागतम्।
कस्माच्छोचथ निश्चेष्टमात्मानं किं न शोचथ।।
तपः कुरुत वै तीव्रं मुच्यध्वं येन किल्बिषात्।
तपसा लभ्यते सर्वं विलापः किं करिष्यति।।
अनिष्टानि न भाग्यानि जानीत स्वंस्वमात्मना।
येन गच्छति बालोऽयं दत्त्वा शोकमनन्तकम्।।
धनं गावः सुवर्णं च मणिरत्नमथापि च।
अपत्यं च तपोमूलं तपो योगाच्च लभ्यते।।
यथा कृता च भूतेषु प्राप्यते सुखदुःखिता।
गृहीत्वा जायते जन्तुर्दुःखानि च सुखानि च।।
न कर्मणा पितुः पुत्रः पिता व्रा पुत्रकर्मणा।
मार्गेणान्येन गच्छन्ति बद्धाः सुकृतदुष्कृतैः।।
धर्मं चरत यत्नेन तथाऽधर्मान्निवर्तत।
वर्तध्वं च यथाकालं दैवतेषु द्विजेषु च।।
शोकं त्यजत दैन्यं च सुतस्नेहान्निवर्तत।
त्यज्यतामयमाक्रोशस्ततः शीघ्रं निवर्तत।।
यत्करोति शुभं कर्म तथा कर्म सुदारुणम्।
तत्कर्तैव समश्नाति बान्धवानां किमत्र ह।।
इह त्यक्त्वा न तिष्ठन्ति बान्धवा बान्धवं प्रियम्।
स्नेहमुत्सृज्य गच्छन्ति बाष्पपूर्णाविलेक्षणाः।।
प्राज्ञो वा यदि वा मूर्खः सधनो निर्धनोऽपि वा।
सर्वः कालवशं याति शुभाशुभसमन्वितः।।
किं करिष्यथ शोचित्वा मृतं किमनुशोचथ।
सर्वस्य हि प्रभुः कालो धर्मतः समदर्शनः।।
यौवनस्थांश्च बालांश्च बृद्धान्गर्भगतानपि।
सर्वानाविशते मृत्युरेवंभूतमिदं जगत्।।
जम्बुक उवाच।
अहो मन्दीकृतः स्नेहो गृध्रेणेहाल्पबुद्धिना।
पुत्रस्नेहाभिभूतानां युष्माकं शोचतां भृशम्।।
समैः सम्यक्प्रयुक्तैश्च वचनैर्हेतुदर्शनैः।
`सर्वमेतत्प्रपद्याशु कुरुध्वं वा विचारणां।'
यद्गच्छथ जलस्थानं स्नेहमुत्सृज्य दुस्त्यजम्।।
अहो पुत्रवियोगेन मृतशून्योपसेवनात्।
क्रोशतां वा भृशं दुःखं विवत्सानां गवामिव।।
अद्य शोकं विजानामि मानुषाणां महीतले।
स्नेहं हि कारणं कृत्वा ममाप्यश्रूण्यथापतन्।।
यत्नो हि सततं कार्यस्ततो दैवेन सिद्ध्यति।
दैवं पुरुषकारश्च कृतान्तेनोपपद्यते।।
अनिर्वेदः सदा कार्यो निर्वेदाद्धि कुतः सुखम्।
प्रयत्नात्प्राप्यते ह्यर्थः कस्माद्गच्छथ निर्दयम्।।
आत्ममांसोपवृत्तं च शरीरार्धमर्यी तनुम्।
पितॄणां वंशकर्तारं वने त्यक्त्वा क्व यास्यथ।।
अथवाऽस्तं गते सूर्ये संध्याकाल उपस्थिते।
ततो नेष्यश्च वा पुत्रमिहस्था वा भविष्यथ।।
गृध्र उवाच।
अद्य वर्षसहस्रं मे साग्रं जातस्य मानुषाः।
न च पश्यामि जीवन्तं मृतं स्त्रीपुंनपुंसकम्।।
मृता गर्भेषु जायन्ते जातमात्रा म्रियन्ति च।
चंक्रमन्तो म्रियन्ते च यौवनस्थास्तथा परे।।
अनित्यानीह भाग्यानि चतुष्पात्पक्षिणामपि।
जङ्गमाजङ्गमानां च ह्यायुरग्रेऽवतिष्ठते।।
इष्टदारवियुक्ताश्च पुत्रशोकान्वितास्तथा।
दह्यमानाः स्म शोकेन गृहं गच्छन्ति नित्यशः।।
अनिष्टानां सहस्राणि तथेष्टानां शतानि च।
उत्सृज्येह प्रयाता वै बान्धवा भृशदुःखिताः।।
त्यज्यतामेष निस्तेजाः शून्यः काष्ठत्वमागतः।
अन्यदेहविषक्तं हि शिशुं काष्ठमुपासथ।।
त्यक्तजीवस्य वै बाष्पं कस्माद्धित्वा न गच्छत।
निरर्थको ह्ययं स्नेहो निष्फलश्च परिश्रमः।।
न च क्षुर्भ्यां न कर्णाभ्यां च शृणोति स पश्यति।
कस्मादेनं सप्नुत्सृज्य न गृहान्गच्छताशु वै।।
मोक्षधर्माश्रितैर्वाक्यैर्हेतुमद्भिः सुनिष्ठुरैः।
भयोक्ता गच्छत क्षिप्रं स्वं स्वमेव निवेशनम्।।
प्रज्ञाविज्ञानयुक्तेन बुद्धिसंज्ञाप्रदायिना।
वच्चं श्राविता नूनं मानुषाः संनिवर्तथ।।
[शोको द्विगुणतां याति दृष्ट्वा स्मृत्वा च चेष्टितम्।
इत्येतद्वचनं श्रुत्वा सन्निवृत्तास्तु मानुषाः।
अपश्यत्तं तदा सुप्तं द्रुतमागत्य जम्बुकः।।]
जम्बुक उवाच।
इमं कनकवर्णाभं भूषणैः समलंकृतम्।
गृध्रवाक्यात्कथं पुत्रं त्यक्ष्यध्वं पितृपिण्डदम्।।
न स्नेहस्य च विच्छेदो विलापरुदितस्य च।
मृतस्यास्य परित्यागात्तापो वै भविता ध्रुवम्।।
श्रूयते शम्बुके शूद्रे हते ब्राह्मणदारकः।
जीवितो धर्ममासाद्य रामात्सत्यपराक्रमात्।।
तथा श्वैत्यस्य राजर्षेर्बालो दिष्टान्तमागतः।
मुनिना धर्मनिष्ठेन मृतः संजीवितः पुनः।।
तथा कश्चिद्भवेत्सिद्धो मुनिर्वा देवतापि वा।
कृपणानामनुक्रोशं कुर्याद्वो रुदतामिह।।
इत्युक्तास्ते न्यवर्तन्त शोकार्ताः पुत्रवत्सलाः।
अङ्के शिरः समाधाय रुरुदुर्बहुविस्तरम्।
तेषां रुदितशब्देन गृध्रोऽभ्येत्य वचोऽब्रवीत्।।
अश्रुपातपरिक्लिन्नः पाणिस्पर्शप्रपीडितः।
धर्मराजप्रयोगाच्च दीर्घनिद्रां प्रवेशितः।।
`तपसाऽपि हि संयुक्तो जनः कालेन हन्यते।
सर्वस्नेहावसक्तानामिदं हि स्नेहवर्तनम्।।'
बालवृद्धसहस्राणि सदा संत्यज्य बान्धवाः।
दिनानि चैव रात्रीश्च दुःखं तिष्ठन्ति भूतले।।
अलं निर्बन्धमागत्य शोकस्य परिवारणम्।
अप्रत्ययं कुतो ह्यस्य पुनरद्येह जीवितम्।।
`नैष जम्बुकवाक्येन पुनः प्राप्स्यति जीवितम्।'
मृतस्योत्सृष्टदेहस्य पुनर्देहो न विद्यते।।
नैव मूर्तिप्रदानेन जम्बुकस्य शतैरपि।
न स जीवयितुं शक्यो बालो वर्षशतैरपि।।
अथ रुद्रः कुमारो वा ब्रह्मा वा विष्णुरेव च।
वरमस्मै प्रयच्छन्ति ततो जीवेदयं शिशुः।।
नैव बाष्पविमोक्षेण न वा श्वासकृतेन च।
न दीर्घरुदितेनायं पुनर्जीवं गमिष्यति।।
अहं च क्रोष्टुकश्चैव यूयं ये चास्य बान्धवाः।
धर्माधर्मौ गृहीत्वेह सर्वे वर्तामहेऽध्वनि।।
अप्रियं परुषं चापि परद्रोहं परस्त्रियम्।
अधर्ममनृतं चैव दूरात्प्राज्ञो विवर्जयेत्।।
धर्मं सत्यं श्रुतं न्याय्यं महतीं प्राणिनां दयाम्।
अजिह्नत्वमशाठ्यं च यत्नतः परिमार्गत।।
मातरं पितरं वाऽपि बान्धवान्सुहृदस्तथा।
जीवतो ये न पश्यति तेषां धर्मविपर्ययः।।
यो न पश्यति चक्षुर्भ्यां नेङ्गते च कथंचन।
तस्य निष्ठावसानान्ते रुदन्ताः किं करिष्यथ।।
इत्युक्तास्ते सुतं त्यक्त्वा भूमौ शोकपरिप्लुताः।
दह्यमानाः सुतस्नेहात्प्रययुर्बान्धवा गृहम्।।
जम्बुक उवाच।
दारुणो मर्त्यलोकोऽयं सर्वप्राणिविनाशनः।
इष्टबन्धुवियोगश्च तथेहाल्पं च जीवितम्।।
बह्वलीकमसत्यं चाप्यतिवादाप्रियंवदम्।
इमं प्रेक्ष्य पुनर्भावं दुःखशोकविवर्धनम्।
न मे मानुषलोकोऽयं मुहूर्तमपि रोचते।।
अहो धिग्गृध्रवाक्येन यथैवाबुद्धयस्तथा।
कथं गच्छथ निःस्नेहाः सुतस्नेहं विसृज्य च।।
प्रदीप्ताः पुत्रशोकेन सन्निवर्तथ मानुषाः।
श्रुत्वा गृध्रस्य वचनं पापस्येहाकृतात्मनः।।
सुखस्यानन्तरं दुःखं दुःखस्यानन्तरं सुखम्।
सुखदुःखावृते लोके नास्ति सौख्यमनन्तकम्।।
इमं क्षितितले त्यक्त्वा बालं रूपसमन्वितम्।
कुलशोभाकरं मूढाः पुत्रं त्यक्त्वा क्व यास्यथ।।
रूपयौवनसंपन्नं द्योतमानमिव श्रिया।
जीवन्तमेव पश्यामि मनसा नात्र संशयः।।
विनाशेनास्य न हि वै सुखं प्राप्स्यथ मानुषाः।
पुत्रशोकाभितप्तानां मृतमप्यद्य वः क्षमम्।।
दुःखसंभावनं कृत्वा धारयित्वा सुखं स्वयम्।
त्यक्त्वा गमिष्यथ क्वाद्य समुत्सृज्याल्पबुद्धिवत्।।
भीष्म उवाच।
तथा धर्मविरोधेन प्रियमिथ्याभिधायिनाम्।
श्मशानवासिना नित्यं रात्रिं मृगयता नृप।।
ततो मध्यस्थतां नीता वचनैरमृतोपमैः।
जम्बुकेन स्वकार्यार्थं बान्धवास्तत्र वारिताः।।
गृध्र उवाच।
अयं प्रेतसमाकीर्णो यक्षराक्षससेवितः।
दारुणः काननोद्देशः कौशिकैरभिनादितः।।
भीमः सुघोरश्च तथा नीलमेघसमप्रभः।
अस्मिञ्शवं परित्यज्य प्रेतकार्याण्युपासत।।
भानुर्यावन्न यात्यस्तं यावच्च विमला दिशः।
तावदेनं परित्यज्य प्रेतकार्याण्युपासत।।
नदन्ति परुषं श्येनाः शिवाः क्रोशन्ति दारुणम्।
मृगेन्द्राः प्रतिनर्दन्ति रविरस्तं च गच्छति।।
चिता धूमेन नीलेन संरज्यन्ते च पादपाः।
श्मशाने च निराहाराः प्रतिनर्दन्ति देवताः।।
सर्वे विकृतदेहाश्चाप्यस्मिन्देशे सुदारुणे।
युष्मान्प्रधर्षयिष्यन्ति विकृता मांसभोजिनः।।
क्रूरश्चायं वनोद्देशो भयमद्य भविष्यति।
त्यज्यतां काष्ठभूतोऽयं मुच्यतां जाम्बुकं वचः।।
यदि जम्बुकवाक्यानि निष्फलान्यनृतानि च।
श्रोष्यथ भ्रष्टविज्ञानास्ततः सर्वे विनङ्क्ष्यथ।।
जम्बुक उवाच।
स्थीयतां वो न भेतव्यं यावत्तपति भास्करः।
तावदस्मिन्सुते स्नेहादनिर्वेदेन वर्तत।।
स्वैरं रुदन्तो विस्रब्धाश्चिरं स्नेहेन पश्यत।
`दारुणेऽस्मिन्वनोद्देशे भयं वो न भविष्यति।।
अयं सौम्यो वनोद्देशः पितृणां निधनाकरः।'
स्थीयतां यावदादित्यः किंवः क्रव्यादभाषितैः।।
यदि गृध्रस्य वाक्यानि तीव्राणि रभसानि च।
गृह्णीत मोहितात्मानः सुतो वो न भविष्यति।।
भीष्म उवाच।
गृध्रो नास्तमितेऽभ्येति तिष्ठेन्नक्तं च जम्बुकः।
मृतस्य तं परिजनमूचतुस्तौ क्षुधान्वितौ।।
स्वकार्यबद्धकक्षौ तौ राजन्गृध्रोऽथ जम्बुकः।
क्षुत्पिपासापरिश्रान्तौ शास्त्रमालम्ब्य जल्पतः।।
तयोर्विज्ञानविदुषोर्द्वयोर्मृगपतत्रिणोः।
वाक्यैरमृतकल्पैस्तैः प्रतिष्ठन्ते व्रजन्ति च।।
शोकदैन्यसमाविष्टा रुदन्तस्तस्थिरे तदा।
स्वकार्यकुशलाभ्यां ते संभ्राम्यन्ते ह नैपुणात्।।
तथा तयोर्विवदतोर्विज्ञानविदुषोर्द्वयोः।
बान्धवानां स्थितानां चाप्युपातिष्ठत शंकरः।।
देव्या प्रणोदितो देवः कारुण्यार्द्रीकृतेक्षणः।
ततस्तानाह मनुजान्वरदोऽस्मीति शंकरः।।
ते प्रत्यूचुरिदं वाक्य दुःखिताः प्रणताः स्थिताः।
एकपुत्रविहीनानां सर्वेष्नां जीवितार्थिनाम्।
पुत्रस्य नो जीवदानाज्जीवितं दातुमर्हसि।।
एवमुक्तः स भगवान्वारिपूर्णेन पाणिना।
जीवं तस्मै कुमाराय प्रादाद्वर्षशतानि वै।।
तथा गोमायुगृध्राभ्यां प्राददत्क्षुद्विनाशनम्।
वरं पिनाकी भगवान्सर्वभूतहिते रतः।।
ततः प्रणम्य ते देवं श्रेयोहर्षसमन्विताः।
कृतकृत्याः सुसंहृष्टाः प्रातिष्ठन्त तदा विभो।।
अनिर्वेदेन दीर्घेण निश्चयेन ध्रुवेण च।
देवदेवप्रसादाच्च क्षिप्रं फलमवाप्यते।।
पश्य दैवस्य संयोगं बान्धवाना च निश्चयम्।
कृपणानां तु रुदतां कृतमश्रुप्रमार्जनम्।।
पश्य चाल्पेन कालेन निश्चयाध्वेषणेन च।
प्रसादं शंकरात्प्राप्य दुःखिताः सुखमाप्नुवन्।।
ते विस्मिताः प्रहृष्टाश्च पुत्रसंजीवनात्पुनः।
बभूवुर्भरतश्रेष्ठ प्रसादाच्छंकरस्य वै।।
ततस्ते त्वरिता राजंस्त्यक्त्वा शोकं शिशूद्भवम्।
विविशुः पुत्रमादाय नगरं हृष्टमानसाः।।
एषा बुद्धिः समस्तानां चातुर्वर्ण्येन दर्शिता।।
धर्मार्थमोक्षसंयुक्तमितिहासं पुरातनम्।
श्रुत्वा मनुष्यः सततमिहामुत्र प्रमोदते।।
।। इति श्रीमन्महाभारते शान्तिपर्वणि
आपद्धर्मपर्वणि द्विपञ्चाशदधिकशततमोऽध्यायः।। 152।।