शांतिपर्व
अध्यायः १५१
शौनक उवाच।
तस्मात्तेऽहं प्रवक्ष्यामि धर्ममावृतचेतसे।
श्रीमन्महाबलस्तुष्टः स्वयं धर्ममवेक्षसे।।
पुरस्ताद्दारुणे भूत्वा सुचित्रतरमेव तत्।
अनुगृह्णाति भूतानि स्वेन वृत्तेन पार्थिवः।।
कृत्स्ने नूनं सदसती इति लोको व्यवस्यति।
यत्र त्वं तादृशो भूत्वा धर्ममेवानुपश्यसि।
दर्पं हित्वा पुनश्चापि भोगांश्च तप आस्थितः।
इत्येतदभिभूतानामद्भुतं जनमेजय।।
योऽदुर्बलो भवेद्दाता कृपणो वा तपोधनः।
अनाश्चर्यं तदित्याहुर्नातिदूरेण वर्तते।।
तप एव हि कार्पण्यं समग्रमसमीक्षितम्।
तच्चेत्समीक्षयैव स्याद्भवेत्तस्मिंस्तपो गुणः।।
यज्ञो दानं दया वेदाः सत्यं च पृथिवीपते।
पञ्चैतानि पवित्राणि षष्ठं सुचरितं तपः।।
तदेव राज्ञां परमं पवित्रं जनमेजय।
तेन सम्यग्गृहीतेन श्रेयांसं धर्ममाप्स्यसि।।
पुण्यदेशाभिगमनं पवित्रं परमं स्मृतम्।
अत्राप्युदाहरन्तीमां गाथां गीतां ययातिना।।
यो मर्त्यः प्रतिपद्येत आयुर्जीवेन वा पुनः।
यज्ञमेकं ततः कृत्वा तत्संन्यस्य तपश्चरेत्।।
पुण्यमाहुः कुरुक्षेत्रं कुरुक्षेत्रात्सरस्वतीम्।
सरस्वत्याश्च तीर्थानि तीर्थेभ्यश्च पृथूदकम्।।
यत्रावगाह्य स्थित्वा च नैनं श्वोमरणं तपेत्।
महासरः पुष्कराणि प्रभासोत्तरमानसे।।
कालोदकं च गन्तासि लब्धायुर्जीविते पुनः।
सरस्वतीदृषद्वत्योः सेवमानोऽनुसंज्वरेत्।
स्वाध्यायशील एतेषु सर्वेष्वेवमुपस्पृशेत्।।
त्यागधर्मं पवित्राणां संन्यासं मनुरब्रवीत्।।
अत्राप्युदाहरन्तीमाः गाथाः सत्यवता कृताः।
यथा कुमारः सत्यो वै नैव पुण्यो न पापकृत।
न ह्यस्ति सर्वभूतेषु दुःखमस्मिन्कुतः सुखम्।।
एवं प्रकृतिभूतानां सर्वसंसर्गयायिनाम्।
त्यजतां जीवितं प्रायो निवृत्ते पुण्यपापके।
यत्त्वेव राज्ञो ज्यायिष्ठं कार्याणां तद्ब्रवीमि ते।।
बलेन संविभागैश्च जय स्वर्गं पुनीष्व च।
यस्यैव बलमोजश्च स धर्मस्य प्रभुर्नरः।।
ब्राह्मणानां सुखार्थं त्वं पर्येहि पृथिवीमिमाम्।
यथैवैतान्पुरा क्षेप्सीस्तथैवैतान्प्रसादय।।
अपि धिक्क्रियमाणोऽपि तर्ज्यमानोऽप्यनेकधा।
आत्मनो दर्शनं विद्वान्नाहर्ताऽस्मीति मा क्रुधः।
घटमानः स्वकार्येषु कुरु निःश्रेयसं परम्।।
हिमाग्निघोरसदृशो राजा भवति कश्चन।
लाङ्गलाशिकल्पो वा भवेदन्यः परंतपः।।
न विशेषेण गन्तव्यमचिकित्सेन वा पुनः।
न जातु नाहमस्मीति प्रसक्तव्यमसाधुषु।।
विकर्मणा तप्यमानः पापात्पापः प्रमुच्यते।
नैतत्कुर्या पुनरिति द्वितीयात्परिमुच्यते।।
चरिष्ये धर्ममेवेति तृतीयात्परिमुच्यते।
शुचिस्तीर्थान्यनुचरन्बहुत्वात्परिमुच्यते।।
कल्याणमनुकर्तव्यं पुरुषेण बुभूषता।
ये सुगन्धीनि सेवन्ते तथागन्धा भवन्ति ते।।
ये दुर्गन्धीनि सेवन्ते तथागन्धा भवन्ति ये।
तपश्चर्यापरः सत्यं पापाद्विपरिमुच्यते।।
संवत्सरमुपास्याग्निमभिशस्तः प्रमुच्यते।
त्रीणि वर्षाण्युपास्याग्निं भ्रूणहा विप्रमुच्यते।।
महासरः पुष्कराणि प्रभासोत्तरमानसे।
अभ्येत्य योजनशतं भ्रूणहा विप्रमुच्यते।।
यावतः प्राणिनो हन्यात्तज्जातीयांस्तु तावतः।
प्रमीयमाणानुन्मोच्य प्राणिहा विप्रमुच्यते।।
अपि चाप्सु निमज्जेत जपंस्त्रिरघमर्षणम्।
यथाऽश्वमेधावभृथस्तथा तन्मनुरब्रवीत्।।
क्षिप्रं प्रणुदते पापं सत्कारं लभते तथा।
अपि चैनं प्रसीदन्ति भूतानि जडमूकवत्।।
बृहस्पतिं देवगुरुं सुरासुराः
समेत्य सर्वे नृपते त्वयुज्जत।
धर्मे फलं हेतुकृते महर्षे
तथेतरस्मिन्नरके पापलोक्ये।।
उभे तु यस्य सुकृते भवेतां
किं तत्तयोस्तत्र जयोत्तरं स्यात्।
आचक्ष्व तत्कर्मफलं महर्षे
कथं पापं नुदते धर्मशीलः।।
बृहस्पतिरुवाच।
कृत्वा पापं पूर्वमबुद्धिपूर्वं
पुण्यानि चेत्कुरुते बुद्धिपूर्वम्।
स तत्पापं नुदते कर्मशीलो
वासो यथा मलिनं क्षारयुक्त्या।।
पापं कृत्वा हि मन्येत नाहमस्तीति पुरुषः।
चिकीर्षेदेव कल्याणं श्रद्दधानोऽनसूयकः।।
छिद्राणि वसनस्येव साधुना संवृणोति सः।
यः पापं पुरुषः कृत्वा कल्याणमभिपद्यते।।
आदित्यः पुनरुद्यन्वा तमः सर्वं व्यपोहति।
कल्याणमाचरन्नेवं सर्वपापं व्यपोहति।।
भीष्म उवाच।
एवमुक्त्वा तु राजानमिन्द्रोतो जनमेजयम्।
याजयामास विधिवद्वाजिमेधेन शौनकः।।
ततः स राजा व्यपनीतकल्मषः
श्रिया युतः प्रज्वलितोऽनुरूपया।
विवेश राज्यं स्वममित्रकर्शनो
यथा दिवं पूर्णवपुर्निशाकरः।।
।। इति श्रीमन्महाभारते शान्तिपर्वणि
आपद्धर्मपर्वणि एकपञ्चाशदधिकशततमोऽध्यायः।। 151।।