शांतिपर्व

अध्यायः १५०

Santi Parva (Sanskrit) · Adhyaya 150
अक्षर का आकार

भीष्म उवाच।

एवमुक्तः प्रत्युवाच तं मुनिं जनमेजयः।
गर्ह्यं भवान्गर्हयते निन्द्यं निन्दति मां पुनः।।

धिक्कार्यं मां धिक्कुरुते तस्मात्त्वाऽहं प्रसादये।
सर्वं हीदं स्वकृतं मे ज्वलाम्यग्नाविवाहितम्।।

स्वकर्माण्यभिसंधाय नाभिनन्दति मे मनः।
प्राप्तं घोरं भयं नूनं मया वैवस्वतादपि।।

तत्तु शल्यमनिर्हृत्य कथं शक्ष्यामि जीवितुम्।
सर्वं मन्युं विनीय त्वमभि मां वद शौनक।।

[महानासं ब्राह्मणानां भूयो वक्ष्यामि सांप्रतम्।]
`गन्ता गतिं ब्राह्मणानां भविष्याम्यर्थवान्पुनः।'
अस्तु शेषं कुलस्यास्य मा पराभूदिदं कुलम्।।

न हि नो ब्रह्मशप्तानां शेषं भवितुमर्हति।
स्तुतीरलभमानानां संविदं वेद निश्चयात्।।

निन्दमानः स्वमात्मानं भूयो वक्ष्यामि सांप्रतम्।
भूयश्चैवाभिमज्जन्ति निर्धर्मा निर्जला इव।।

न ह्ययज्ञा अमुं लोकं प्राप्नुवन्ति कथंचन।
अवाक्च प्रपतिष्यन्ति पुलिन्दशवरा इव।।

अविज्ञायैव मे प्रज्ञां बालस्येव स पण्डितः।
ब्रह्मन्पितेव पुत्रस्य प्रीतिमान्भव शौनक।।

शौनक उवाच।

किमाश्चर्यं यतः प्राज्ञो बहुकुर्यादसांप्रतम्।
इति वै पण्डितो भूत्वा भूतानां को नु तप्यते।।

प्रज्ञाप्रासादमारुह्य अशोच्यः शोचते जनान्।
जगतीस्थानिवाद्रिस्थः प्रज्ञया प्रतिपत्स्यति।।

न चोपलभते कश्चिन्न चाश्चर्याणि पश्यति।
निर्विण्णात्मा परोक्षो वा धिक्कृतः सर्वसाधुषु।।

विदित्वा भवतो वीर्यं माहात्म्यं चैव चागमे।
कुरुष्वेह यथाशान्ति ब्रह्मा शरणमस्तु ते।।

तद्वै वारित्रकं तात ब्राह्मणानामकुप्यताम्।
अथवा तप्यसे पापे धर्मं चेदनुपश्यसि।।

जनमेजय उवाच।

अनुतप्ये च पापेन न चाधर्मं चराम्यहम्।
बुभूषेद्भजमानं च प्रीतिमान्भव शौनक।।

शौनक उवाच।

छित्त्वा दम्भं च मानं च प्रीतिमिच्छामि ते नृप।
सर्वभूतहिते तिष्ठ धर्मं चैव प्रतिस्मरन्।।

न भयान्न च कार्पण्यान्न लोभात्त्वामुपाह्वये।
तां मे दैवीं गिरं सत्यां शृणु त्वं ब्राह्मणैः सह।।

सोऽहं न केनचिच्चार्थी त्वां च धर्मादुपाह्वये।
क्रोशतां सर्वभूतानां हाहाधिगिति जल्पताम्।।

वक्ष्यन्ति मामधर्मज्ञं त्यक्ष्यन्ति सुहृदो जनाः।
ता वाचः सुहृदः श्रुत्वा संज्वरिष्यन्ति मे भृशं।।

केचिदेव महाप्राज्ञाः प्रतिज्ञास्यन्ति कार्यताम्।
जानीहि मत्कृतं तात ब्राह्मणान्प्रति भारत।।

यथा ते सत्कृताः क्षेमं लभेरंस्त्वं तथा कुरु।
प्रतिजानीहि चाद्रोहं ब्राह्मणानां नराधिप।।

जनमेजय उवाच।

नैव वाचा न मनसा पुनर्जातु न कर्मणा।
द्रोग्धाऽस्मि ब्राह्मणान्विप्र चरणावेव ते स्पृशे।।

।। इति श्रीमन्महाभारते शान्तिपर्वणि
आपद्धर्मपर्वणि पञ्चाशदधिकशततमोऽध्यायः।। 150।।