शांतिपर्व

अध्यायः १४९

Santi Parva (Sanskrit) · Adhyaya 149
अक्षर का आकार

युधिष्ठिर उवाच।

अबुद्धिपूर्वं यत्पापं कुर्याद्भरतसत्तम।
मुच्यते स कथं तस्मादेनसस्तद्ब्रवीहि मे।।

भीष्म उवाच।

अत्र ते वर्तयिष्यामि पुराणमृषिसंस्तुतम्।
इन्द्रोतः शौनको विप्रो यदाह जनमेजयम्।।

आसीद्राजा महावीर्यः पारिक्षिज्जनमेजयः।
अबुद्धिजा ब्रह्महत्या तमागच्छन्महीपतिम्।।

ब्राह्मणाः सर्व एवैनं तत्यजुः सपुरोहिताः।
स जगाम वनं राजा दह्यमानो दिवानिशम्।।

प्रजाभिः स परित्यक्तश्चकार कुशलं महत्।
अतिवेलं तपस्तेपे दह्यमानः स मन्युना।।

ब्रह्महत्यापनोदार्थमपृच्छद्ब्राह्मणान्बहून्।
पर्यटन्पृथिवीं कृत्स्नां देशेदेशे नराधिपः।।

तत्रेतिहासं वक्ष्यामि धर्मस्यास्योपवृंहणम्।
दह्यमानः पापकृत्या जगाम जनमेजयः।।

चरिष्यमाण इन्द्रोतं शौनकं संशितव्रतम्।
समासाद्योपजग्राह पादयोः परिपीडयन्।।

ततो भीतो महाप्राज्ञो जगर्हे सुभृशं तदा।
कर्ता पापस्य महतो भ्रूणहा किमिहागतः।।

किं तवास्मासु कर्तव्यं मा मां द्राक्षीः कथंचन।
गच्छगच्छ न ते स्थानं प्रीणात्यस्मानिति ब्रुवन्।।

रुधिरस्येव ते गन्धः शवस्येव च दर्शनम्।
अशिवः शिवसंकाशो मृतो जीवन्निवाटसि।।

अन्तर्भृत्युरशुद्धात्मा पापमेवानुचिन्तयन्।
प्रबुध्यसे प्रस्वपिपि वर्तसे परमे सुखे।।

मोघं ते जीवितं राजन्परिक्लिष्टं च जीवसि।
पापायैव हि सृष्टोऽसि कर्मणेह यवीयसे।।

बहुकल्याणमिच्छन्त ईहन्ते पितरः सुतान्।
तपसा दैवतेज्याभिर्वन्दनेन तितिक्षया।।

पितृवंशमिमं पश्य त्वत्कृते निधनं गतम्।
निरर्थाः सर्व एवैषामाशाबन्धास्त्वदाश्रयाः।।

यान्पूजयन्तो विन्दन्ति स्वर्गमायुर्यशः प्रजाः।
तेषु ते संततं द्वेषो ब्राह्मणेषु निरर्थकः।।

इमं लोकं विमुच्य त्वमवाङ्भूर्धा पतिष्यसि।
अशाश्वतीः शाश्वतीश्च समाः पापेन कर्मणा।।

स्वाद्यमानो जन्तुशतैस्तीक्ष्णदंष्ट्रैरयोमुखैः।
ततश्च पुनरावृत्तः पापयोनिं गमिष्यसि।।

यदिदं मन्यसे राजन्नायमस्ति कुतः परः।
प्रतिस्मारयितारस्त्वां यमदूता यमक्षये।।

।। इति श्रीमन्महाभारते शान्तिपर्वणि
आपद्धर्मपर्वणि एकोनपञ्चाशदधिकशततमोऽध्यायः।। 149।।