शांतिपर्व
अध्यायः १४४
भीष्म उवाच।
अथ वृक्षस्य शाखायां विहंगः ससुहृज्जनः।
दीर्घकालोषितो राजंस्तत्र चित्रतनूरुहः।।
तस्य कल्यगता भार्या चरितुं नाभ्यवर्तत।
प्राप्तां च रजनीं दृष्ट्वा स पक्षी पर्यतप्यत।।
वातवर्षं महच्चासीन्न चागच्छति मे प्रिया।
किंनु तत्कारणं येन साऽद्यापि न निवर्तते।।
अपि स्वस्ति भवेत्तस्याः प्रियाया मम कानने।।
तया विरहितं हीदं शून्यमद्य गृहं मम।
पुत्रपौत्रवधूभृत्यैराकीर्णमपि सर्वतः।
भार्याहीनं गृहस्थस्य शून्यमेव गृहं भवेत्।।
न गृहं गृहमित्याहुर्गृहिणी गृहमुच्यते।
गृहं तु गृहिणीहीनमरण्यसदृशं मतम्।।
यदि सा रक्तेत्रान्ता चित्राङ्गी मधुरस्वरा।
अद्य नाभ्येति मे कान्ता न कार्यं जीवितेन मे।।
न भुङ्क्ते मय्यभुक्ते या नास्नाते स्नाति सुव्रता।
नातिष्ठत्युपतिष्ठेन शेते च शयिते मयि।।
हृष्टे भवति सा हृष्टा दुःखिते मयि दुःखिता।
प्रोपिते दीनवदना क्रुद्धे च प्रियवादिनी।।
पतिधर्मव्रता साध्वी प्राणेभ्योऽपि गरीयसी।
यस्य स्यात्तादृशी भार्या धन्यः स पुरुषो भुवि।।
सा हि श्रान्तं क्षुधार्तं च जानीते मां तपस्विनी।
अनुरक्ता स्थिरा चैव भक्ता स्निग्धा यशस्विनी।।
वृक्षमूलेऽपि दयिता यस्य तिष्ठति तद्गृहम्।
प्रासादोपि तया हीनः कान्तार इति निश्चितम्।।
धर्मार्थकामकालेषु भार्या पुंसः सहायिनी।
विदेशगमने चास्य सैव विश्वासकारिका।।
भार्या हि परमो ह्यर्थः पुरुषस्येह पट्यते।
असहायस्य लोकेऽस्मिँल्लोकयात्रासहायिनी।।
तथा रोगाभिभूतस्य नित्यं कृच्छ्रगतस्य च।
नास्ति भार्यासमं मित्रं नरस्यार्तस्य भेषजम्।।
नास्ति भार्यासमो बन्धुर्नास्ति भार्यासमा गतिः।
नास्ति भार्यासमो लोके सहायो धर्मसंग्रहे।।
यस्य भार्या गृहे नास्ति साध्वी च प्रियवादिनी।
अरण्यं तेन गन्तव्यं यथाऽरण्यं तथा गृहम्।।
भीष्म उवाच।
एवं विलपतस्तस्य द्विजस्यार्तस्य वै तदा।
गृहीता शकुनिघ्नेन भार्या शुश्राव भारतीम्।।
कपोत्युवाच।
अहोऽतीव सुभाग्याऽहं यस्या मे दयितः पतिः।
असतो वा सतो वाऽपि गुणानेवं प्रभाषते।।
सा हि स्त्रीत्यवगन्तव्या यस्य भर्ता तु तुष्यति।
तुष्टे भर्तरि नारीणां तुष्टाः स्युः सर्वदेवताः।
अग्निसाक्षिकमप्येतद्भर्ता हि शरणं परम्।।
दावाग्निनेव निर्दग्धा सपुष्पस्तबका लता।
भस्मीभवति सा नारी यस्या भर्ता न तुष्यति।।
इति संचिन्त्य दुःखार्ता भर्तारं दुःखितं तदा।
कपोती लुब्धकेनापि गृहीता वाक्यमब्रवीत्।।
हन्त वक्ष्यामि ते श्रेयः श्रुत्वा तु कुरु तत्तथा।
शरणागतसंत्राता भव कान्त विशेषतः।।
एष शाकुनिकः शेते तव वासं समाश्रितः।
शीतार्तश्च क्षुधार्तश्च पूजामस्मै समाचर।।
यो हि कश्चिद्द्विजं हन्याद्गां वा लोकस्य मातरम्।
शरणागतं च यो हन्यात्तुल्यं तेषां च पातकम्।।
अस्माकं विहिता वृत्तिः कापोती जातिधर्मतः।
सा न्याय्याऽऽत्मवता नित्यं त्वद्विधेनानुवर्तितुं।।
यस्तु धर्मं यथाशक्ति गृहस्थो ह्यनुवर्तते।
स प्रेत्य लभते लोकानक्षयानिति शुश्रुम्।।
स त्वं संतानवानद्य पुत्रवानपि च द्विज।
त्वं स्वदेहे दयां त्यक्त्वा धर्मार्थौ परिगृह्य य।
पूजामस्मै प्रयुङ्क्ष्व त्वं प्रीयेतास्य मनो यथा।।
शरीरे मा च संतापं कुर्वीथास्त्वं विहगंम।
शरीरयात्रावृत्त्यर्थमन्यान्दारानुपैष्यसि।।
इति सा शकुनी वाक्यं पञ्जरस्था तपस्विनी।
अतिदुःखान्विता प्रोक्त्वा भर्तारं समुदैक्षत।।
।। इति श्रीमन्महाभारते शान्तिपर्वणि
आपद्धर्मपर्वणि चतुश्चत्वारिंशदधिशततमोऽध्यायः।। 144।।