शांतिपर्व

अध्यायः १४५

Santi Parva (Sanskrit) · Adhyaya 145
अक्षर का आकार

भीष्म उवाच।

सपत्न्या वचनं श्रुत्वा धर्मयुक्तिसमन्वितम्।
हर्षेण महता युक्तो वाक्यं व्याकुललोचनः।।

तं वै शाकुनिकं दृष्ट्वा विधिदृष्टेन कर्मणा।
स पक्षी पूजयामास यत्नात्तं पक्षिजीविनम्।।

उवाच स्वागतं तेऽद्य ब्रूहि किं करवाणि ते।
सतांपश्च न कर्तव्यः स्वगृहे वर्तते भवान्।।

तद्ब्रवीतु भवान्क्षिप्रं किं करोमि किमिच्छसि।
प्रणयेन ब्रवीमि त्वां त्वं हि नः शरणागतः।।

अरावप्युचितं कार्यमातिथ्यं गृहमागते।
छेत्तुमप्यागते छायां नोपसंहरते द्रुमः।।

शरणागतस्य कर्तव्यमातिथ्यं हि प्रयत्नतः।
पञ्चयज्ञप्रवृत्तेन गृहस्थेन विशेषतः।।

पञ्चयज्ञांस्तु यो मोहान्न करोति गृहाश्रमी।
तस्य नायं न च परो लोको भवति धर्मतः।।

तद्ब्रूहि मां सुविस्रब्धो यत्त्वं वाचा वदिष्यसि।
तत्करिष्याम्यहं सर्वं मा त्वं शोके मनः कृथाः।।

तस्य तद्वचनं श्रुत्वा शकुनेर्लुब्धकोऽब्रवीत्।
बाधते खलु मां शीतं संत्राणं हि विधीयताम्।।

एवमुक्तस्तनः पक्षी पर्णान्यास्तीर्य भूतले।
यथा शुष्काणि यत्नेन ज्वलनार्थं द्रुतं ययौ।।

स---वाऽङ्गारकर्मान्तं गृहीत्वाऽग्निमथागमत्।
तथा शुष्केषु पर्णेषु पावकं सोऽप्यदीपयत्।।

स--प्तं महत्कृत्वा तमाह शरणागतम्।
----- सुविस्रब्धः स्वगात्राण्यकुतोभयः।।

-- तथोक्तस्तथेत्युक्त्वा लुब्धो गात्राण्यतापयत्।
अग्निप्रत्यागतप्राणस्ततः प्राह विहंगमम्।।

हर्षेण महताऽऽविष्टो वाक्यं व्याकुललोचनः।
तथेमं शकुनिं दृष्ट्वा विधिदृष्टेन कर्मणा।।

दत्तमाहारमिच्छामि त्वया क्षुद्बाधते हि माम्।
स तद्वचः प्रतिश्रुत्य वाक्यमाह विहंगमः।।

न मेऽस्ति विभवो येन नाशयेयं क्षुधां तव।
उत्पन्नेन हि जीवामो वयं नित्यं वनौकसः।।

संचयो नास्ति चास्माकं मुनीनामिव कानने।
इत्युक्त्वा तं तदा तत्र विवर्णवदनोऽभवत्।।

कथं नु खलु कर्तव्यमिति चिन्तापरस्तदा।
बभूव भरतश्रेष्ठ गर्हयन्वृत्तिमात्मनः।।

मुहूर्ताल्लब्धसंज्ञस्तु स पक्षी पक्षिघातिनम्।
उवाच तर्पयिष्ये त्वां मुहूर्तं प्रतिपालय।।

इत्युक्त्वा शुष्कपर्णैस्तु समुज्ज्वाल्य हुताशनम्।
हर्षेण महताऽऽविष्टः कपोतः पुनरब्रबीत्।।

ऋषीणां देवतानां च पितृणां च महात्मनाम्।
युतः पूर्वं मया धर्मो महानतिथिपूजने।।

कुरुष्वानुग्रहं सौम्य सत्यमेतद्ब्रबीमि ते।
निश्चिता खलु मे बुद्धिरतिथिप्रतिपूजने।।

ततः कृतप्रतिज्ञो वै स पक्षी प्रहसन्निव।
तमग्निं त्रिः परिक्रम्य प्रविवेश महामतिः।।

अग्निमध्ये प्रविष्टं तु लुब्धो दृष्ट्वा च पक्षिणम्।
चिन्तयामास मनसा किमिदं वै मया कृतम्।।

अहो मम नृशंसस्य गर्हितस्य स्वकर्मणा।
अधर्मः सुमहान्धोरो भविष्यति न संशयः।।

एवं बहुविधं भूरि विललाप स लुब्धकः।
गर्हयन्स्वानि कर्माणि द्विजं दृष्ट्वा तथाऽऽगतम्।।

।। इति श्रीमन्महाभारते शान्तिपर्वणि
आपद्धर्मपर्वणि पञ्चचत्वारिंशदधिकशततमोऽध्यायः।। 145।।