शांतिपर्व

अध्यायः १४३

Santi Parva (Sanskrit) · Adhyaya 143
अक्षर का आकार

युधिष्ठिर उवाच।

पितामह महाप्राज्ञ सर्वशास्त्रविशारद।
शरणागतं पालयतो यो धर्मस्तं ब्रवीहि मे।।

भीष्म उवाच।

महान्धर्मो महाराज शरणागतपालने।
अर्हः प्रष्टुं भवांश्चैनं प्रश्नं भरतसत्तम।।

शिबिप्रभृतयो राजन्राजानः शरणं गतान्।
परिपाल्य महात्मानः संसिद्धिं परमां गताः।।

श्रूयते च कपोतेन शत्रुः शरणमागतः।
पूजितश्च यथान्यायं स्वैश्च मांसैर्निमन्त्रितः।।

युधिष्ठिर उवाच।

कथं कपोतेन पुरा शत्रुः शरणमागतः।
स्वमांसं भोजितः कां च गतिं लेभे स भारत।।

भीष्म उवाच।

शृणु राजन्कथां दिव्यां सर्वपापप्रणाशिनीम्।
नृपतेर्मुचुकुन्दस्य कथितां भार्गवेण वै।।

इममर्थं पुरा पार्थ मुचुकुन्दो नराधिपः।
भार्गवं परिपप्रच्छ प्रणतः पुरुषर्षभ।।

तस्मै शुश्रूषमाणाय भार्गवोऽकथयत्कथाम्।
इमां यथा कपोतेन सिद्धिः प्राप्ता नराधिप।।

उशनोवाच।

धर्मिश्चयसंयुक्तां कामार्थसहितां कथाम्।
शृणुष्वावहितो राजन्गदतो मे महाभुजः।।

कश्चित्क्षुद्रसमाचारः पृथिव्यां कालसंमितः।
चचार पृथिवीपाल घोरः शकुनिलुब्धकः।।

काकोल इव कृष्णाङ्गो रूक्षः पापसमाहितः।
यवमध्यः कृशग्रीवो ह्रस्वपादो महाहनुः।।

नैव तस्य सुहृत्कश्चिन्न संबन्धी न बान्धवाः।
बान्धवैः संपरित्यक्तस्तेन रौद्रेण कर्मणा।।

नरः पापसमाचारस्त्यक्तव्यो दूरतो बुधैः।
आत्मानं यो न संधत्ते सोन्यस्य स्यात्कथं हितः।।

ये नृशंसा दुरात्मानः प्राणिप्राणहरा नराः।
उद्वेजनीया भूतानां व्याला इव भवन्ति ते।।

स वै क्षारकमादाय वने हत्वा च पक्षिणः।
चकार विक्रयं तेषां पतङ्गानां जनाधिपः।।

एवं तु वर्तमानस्य तस्य वृत्तिं दुरात्मनः।
अगमत्सुमहान्कालो न चाधर्ममबुध्यत।।

तस्य भार्यासहायस्य रममाणस्य शाश्वतम्।
दैवयोगविमूढस्य नान्या वृत्तिररोचत।।

ततः कदाचित्तस्याथ वनस्थस्य समन्ततः।
पातयन्निव वृक्षांस्तान्सुमहान्वातसंभ्रमः।।

मेघसंकुलमाकाशं विद्युन्मण्डलमण्डितम्।
संछन्नस्तु मुहूर्तेन नौसार्थैरिव सागरः।।

वारिधारासमूहेन संप्रहृष्टः शतक्रतुः।
क्षणेन पूरयामास सलिलेन वसुंधराम्।।

ततो धाराकुले लोके संभ्रमन्नष्टचेतनः।
शीतार्तस्तद्वनं सर्वमाकुलेनान्तरात्मना।।

नैव निम्नं स्थलं वाऽपि सोऽविन्दत विहंगहा।
पूरितो हि जलौघेनन तस्य मार्गो वनस्य तु।।

पक्षिणं वर्षवेगेन हता लीनास्तु पादपात्।
मृगसिहवराहाश्च ये चान्ये तत्र पक्षिणः।।

महता वातवर्षेण त्रासितास्ते वनौकसः।
भयार्ताश्च क्षुधार्ताश्च बभ्रमुः सहिता वने।।

स तु शीतहतैर्गात्रैर्जगामैव न तस्थिवान्।
ददर्श पतितां भूमौ कपोतीं शीतविह्वलाम्।।

दृष्टवाऽऽर्तोपि हि पापात्मा स तां पञ्जरकेऽक्षिपत्।
स्वयं दुःखाभिभूतोऽपि दुःखमेवाकरोत्परे।।

पापात्मा पापकारित्वत्पापमेव चकार सः।
सोऽपश्यत्तरुषण्डेषु मेघनीलं वनस्पतिम्।।

सेव्यमानं विहंगौघैश्छायावासफलार्थिभिः।
धात्रा परोपकाराय स साधुरिव निर्मितः।।

अथाभवत्क्षणेनैव वियद्विमलतारकम्।
महत्सर इवोत्फुल्लं कुमुदच्छुरितोदकम्।
कुसुमाकारताराढ्यमाकाशं निर्मलं बहु।।

घनैर्मुक्तं नभो दृष्ट्वा लुब्धकः शीतविह्वलः।
दिशो विलोकयामास वेलां च सुदुरात्मवान्।।

दूरे ग्रामनिवेशश्च तस्मात्स्थानादिति प्रभो।
कृतबुद्धिर्द्रुमे तस्मिन्वस्तुं तां रजनीं ततः।।

साञ्जलिः प्रणतिं कृत्वा वाक्यमाह वनस्पतिम्।
शरणं यामि यान्यस्मिन्दैवतानीति भारत।।

स शिलायां शिरः कृत्वा पर्णान्यास्तीर्य भूतले।
दुःखेन महताऽऽविष्टस्ततः सुष्वाप पक्षिहा।।

।। इति श्रीमन्महाभारते शान्तिपर्वणि
आपद्धर्मपर्वणि त्रिचत्वारिंशदधिकशततमोऽध्यायः।। 143।।