शांतिपर्व
अध्यायः १४२
युधिष्ठिर उवाच।
यदिदं घोरमुद्दिष्टमश्रद्धेयमिवानृतम्।
अस्तिस्विद्दस्युमर्यादा यामयं परिवर्जयेत्।।
संमुह्यामि विपीदामि धर्मो मे शिथिलीकृतः।
उद्यमं नाधिगच्छामि कुतश्चित्परिचिन्तयन्।।
भीष्म उवाच।
नैतच्छ्रुत्वागमादेव तव धर्मानुशासनम्।
प्रज्ञासमभिहारोऽयं कविभिः संभृतं मधु।।
बाह्याः प्रतिविधातव्याः प्रज्ञा राज्ञा ततस्ततः।
बहुशाखेन धर्मेण यत्रैषा संप्रसिध्यते।।
बुद्धिं संजनयेद्राज्ञां धर्ममाचरतां सदा।
जयो भवति कौरव्य सदा तद्वृद्धिरेव च।।
बुद्धिश्रेष्ठा हि राजानो जयन्ति विजयैषिणः।
धर्मः प्रतिविधातव्यो बुद्ध्या राज्ञा ततस्ततः।।
नैकशाखेन धर्मेण राज्ञो धर्मो विधीयते।
दुर्बलस्य कुतः प्रज्ञा पुरस्तादनुदाहृता।।
अद्वैधज्ञः प्रतिद्वैधे संशयं प्राप्नुमर्हति।
बुद्धिद्वैधं विधातव्यं पुरस्तादेव भारत।।
पार्श्वतः कारणं राज्ञो विषूच्यस्त्वापगा इव।
जनास्तूच्चरितं धर्मं विजान्त्यन्यथाऽन्यथा।।
सम्यग्विज्ञानिनः केचिन्मिथ्याविज्ञानिनः परे।
तद्वै यथायथं बुद्ध्वा ज्ञानमाददते सताम्।।
परिमुष्णन्ति शास्त्राणि धर्मस्य परिपन्थिनः।
वैषम्यमर्थविद्यानां निरर्थाः ख्यापयन्ति ते।।
आजिजीविषवो विद्यां यशः कामौ समन्तनः।
ते सर्वे नृप पापिष्ठा धर्मस्य परिपन्थिनः।।
अपक्वमतयो मन्दा न जानन्ति यथातथम्।
तथा ह्यशास्त्रकुशलाः सर्वत्रायुक्तिनिष्ठिताः।।
परिमुष्णन्ति शास्त्राणि शास्त्रदोषानुदर्शिनः।
विज्ञानमथ विद्यानां न सम्यगिति मे मतिः।।
निन्दया परविद्यानां स्वविद्यां ख्यापयन्ति च।
वागास्तिक्यानुनीताश्च दुग्धविद्याफला इव।।
तान्विद्यावणिजो विद्धि राक्षसानिव भारत।
व्याजेन कृत्स्नो विहितो धर्मस्ते परिहास्यते।।
न धर्मवचनं वाचा नैव बुद्ध्येति नः श्रुतम्।
इति बार्हस्पत्यविज्ञानं प्रोवाच मघवा स्वयम्।।
न त्यव वचनं किंचिदनिमित्तादिहोच्यते।
स्वविनीतेन शास्त्रेण ह्यविद्यः स्यादथापरः।।
लोकयात्रामिहैके तु धर्मं प्राहुर्मनीषिणः।
समुद्दिष्टं सतां धर्मं स्वयमूहेत् पण्डितः।।
अमर्षाच्छास्त्रसंमोहादनिमित्तादिहोच्यते।
शास्त्रं प्राज्ञस्य वदतः समूहे यात्यदर्शनम्।।
आगमागतया बुद्ध्या वचनेन प्रशस्यते।
अज्ञानाज्ज्ञानहेतुत्वाद्वचनं साधु मन्यते।।
अनुपागतमेवेदं शास्त्रमेवमपार्थकम्।
दैतेयानुशना प्राह संशयच्छेदनं पुरा।।
ज्ञानमप्यपदिश्यं हि यथा नास्ति तथैव तत्।
तेन संच्छिन्नमूलेन कस्तोषयितुमिच्छति।।
पुनर्व्यवसितं यो वा नेदं वाक्यमुपाश्नुते।
उग्रायैव हि सृष्टोऽसि कर्मणे तत्त्वमीक्षसे।।
अग्रे मामन्ववेक्षस्व राजन्योऽयं बुभूषते।
यथा प्रमुच्यते त्वन्यो यदर्थं न प्रमोदते।।
अजोऽश्वः क्षत्रमित्येतत्सदृशं ब्रह्मणा कृतम्।
तस्मान्नतैक्ष्ण्याद्भूतानां यात्रा काचित्प्रसिद्ध्यति।।
यस्त्ववध्यवधे दोषः स वध्यस्यावधे स्मृतः।
एषा ह्येव तु मर्यादा यामयं परिवर्जयेत्।।
तस्मात्तीक्ष्णः प्रजा राजा स्वधर्मे स्थापयत्युत।
अन्योन्यं भक्षयन्तो हि प्रचरेयुर्वृका इव।।
यस्य दस्युगणा राष्ट्रे ध्वाङ्क्षा मत्स्याञ्जलादिव।
विहरन्ति परस्वानि स वै क्षत्रियपांसनः।।
कुलीनान्सचिवान्कृत्वा वेदविद्यासमन्वितान्।
प्रशाधि पृथिवीं राजन्प्रजा धर्मेण पालयन्।।
विहीनजन्मकर्माणि यः प्रगृह्णाति भूमिपः।
उभयस्याविशेषज्ञस्तद्वै क्षत्रं नपुंसकम्।।
नैवोग्रं नैव चानुग्रं धर्मेणेह प्रशस्यते।
उभयं न व्यतिक्रामेदुग्रो भूत्वा मृदुर्भव।।
कष्टः क्षत्रियधर्मोऽयं सौहृदं त्वयि मे स्थितम्।
उग्रकर्मणि सृष्टोऽसि तस्माद्राज्यं प्रशाधि वै।।
`अरुष्टः कस्यचिद्राजन्नेवमेव समाचर।'
अशिष्टनिग्रहो नित्यं शिष्टस्य परिपालनम्।
एवं शुक्रोऽब्रवीद्धीमानापत्सु भरतर्षभ।।
युधिष्ठिर उवाच।
अस्ति चेदिह मर्यादा यामन्यो नातिलङ्घयेत्।
पृच्छामि त्वां सतां श्रेष्ठ तन्मे ब्रूहि पितामह।।
भीष्म उवाच।
ब्राह्मणानेव सेवेत विद्याबृद्धांस्तपस्विनः।
श्रुतचारित्रवृत्ताढ्यान्पवित्रं ह्येतदुत्तमम्।।
शुश्रूषा तु महाराज सान्त्वं विप्रेषु नित्यदा।
क्रुद्धैर्हि विप्रैः कर्माणि कृतानि बहुधा नृप।।
तेषां प्रीत्या यशो मुख्यमप्रीत्या परमं भयम्।
प्रीत्या ह्यमृतवद्विप्राः क्रुद्धाश्चैव यथोरगाः।।
।। इति श्रीमन्महाभारते शान्तिपर्वणि
राजधर्मपर्वणि द्विचत्वारिंशदधिकशततमोऽध्यायः।। 142।।