शांतिपर्व

अध्यायः १३१

Santi Parva (Sanskrit) · Adhyaya 131
अक्षर का आकार

युधिष्ठिर उवाच।

क्षीणस्य दीर्घसूत्रस्य सानुक्रोशस्य बन्धुषु।
परिशङ्कितमुख्यस्य दुष्टमन्त्रस्य भारत।।

विरक्तराज्यपौरस्य निर्द्रव्यनिचयस्य च।
असंभावितमित्रस्य भिन्नामात्यस्य सर्वतः।।

परचक्राभियातस्य दुर्बलस्य बलीयसा।
आपन्नचेतसो ब्रूहि किं कार्यमवशिष्यते।।

भीष्म उवाच।

बाह्यश्चेद्विजिगीषुः स्याद्धर्मार्थकुशलः शुचिः।
जवेन सन्धिं कुर्वीत पूर्वं पूर्वं विमोक्षयेत्।।

[योऽधर्मविजिगीषुः स्याद्बलवान्पापनिश्चयः।]
आत्मनः सन्निरोधेन सन्धिं तेनापि रोचयेत्।।

अपास्य राजधानीं वा तरेदन्येन वाऽऽपदम्।
तद्भावभावो द्रव्याणि जीवन्पुनरुपार्जयेत्।।

यास्तु कोशबलत्यागाच्छक्यास्तरितुमापदः।
कस्तत्राधिकमात्मानं संत्यजेदर्थधर्मवित्।।

अपराधाज्जुगुप्सेत का सपत्नधने दया।
न त्वेवात्मा प्रदातव्यः शक्ये सति कथंचन।।

युधिष्ठिर उवाच।

आभ्यन्तरे च कुपिते बाह्ये चोपनिपीडिते।
क्षीणे कोशे श्रुते मन्त्रे किं कार्यमवशिष्यते।।

भीष्म उवाच।

क्षिप्रं वा सन्धिकामः स्यात्क्षिप्रं वा तीक्ष्णविक्रम।
यदाऽपनयनं क्षिप्रमेतद्वै सांपरायिकम्।।

अनुरक्तेन पुष्टेन हृष्टेन जगतीपतिः।
अल्पेनापि स्वसैन्येन भूमिं जयति भूमिपः।।

हतो वा दिवमारोहेद्धत्वा च सुखमावहेत्।
युद्धे हि संत्यजन्प्राणाञ्शक्रस्यैति सलोकताम्।।

सर्वलोकागसं कृत्वा मृदुत्वं गन्तुमेव च।
विश्वासाद्विनयं कुर्यात्संजह्याद्वाऽप्युपानहौ।।

अपचिक्रमिषुः क्षिप्रं सेनां स्वां परिसान्त्वयन्।
विलङ्घयित्वा सत्रेण ततः स्वयमुपक्रमेत्।।

।। इति श्रीमन्महाभारते शान्तिपर्वणि
आपद्धर्मपर्वणि एकत्रिंशदधिकशततमोऽध्यायः।। 131।।