शांतिपर्व
अध्यायः १३०
युधिष्ठिर उवाच।
त्रैः प्रहीयमाणस्य बह्वमित्रस्य का गतिः।
-- संक्षीणकोशस्य बलहीनस्य भारत।।
--मात्यसहायस्य श्रुतमन्त्रस्य सर्वतः।
ज्यात्प्रच्यवमानस्य गतिमन्यामपश्यतः।।
परचक्राभियातस्य परराष्ट्राणि मृद्गतः।
विग्रहे वर्तमानस्य दुर्बलस्य बलीयसा।।
असंविहितराष्ट्रस्य देशकालावजानतः।
अप्राप्यं च भवेत्सान्त्वं भेदो वाऽप्यतिपीडनात्।
जीवितं त्वर्थहेतोर्वा तत्र किं सुकृतं भवेत्।।
भीष्म उवाच।
गुह्यां मा धर्ममप्राक्षीरतीव भरतर्षभ।
प्रवक्तुं नोत्सहे पृष्टो धर्ममेतं युधिष्ठिर।।
धर्मो ह्यणीयान्वचनाद्वुद्धेश्च भरतर्षभ।
श्रुत्वौपम्यं सदाचारैः साधुर्भवति स क्वचित्।।
कर्मणा बुद्धिपूर्वेण भवत्याढ्ये न वा पुनः।
तादृशोऽयमनुप्रश्नस्तद्ध्यायस्व स्वया धिया।।
उपायं धर्मबहुलं यात्रार्थं शृणु भारत।
नाहमेतादृशे धर्मे बुभूषे धर्मकारणात्।।
दुःखादान इह ह्येष स्यात्तु पश्चात्क्षमो मम।
अभिगम्य मतीनां हि सर्वासामेव निश्चयम्।।
यथायथा हि पुरुषो नित्यं शास्त्रमवेक्षते।
तथातथा विजानाति विज्ञानं चास्य रोचते।।
अविज्ञानादयोगो हि पुरुषस्योपजायते।
विज्ञानादपि योगश्च योगो भूतिकरः परः।।
अशङ्कमानो वचनमनसूयुरिदं शृणु।
राज्ञः कोशक्षयादेव जायते बलसंक्षयः।।
कोशं संजनयेद्राजा नित्यमेभ्यो यथाबलम्।
कालं प्राप्यानुगृह्णीयादेष धर्मोऽत्र सांप्रतम्।।
उपायधर्मं प्राप्यैनं पूर्वैराचरितं जनैः।
अन्यो धर्मः समर्थानामापत्स्वल्पश्च भारत।।
प्रकार्यं प्रोच्यते धर्मो वृत्तिर्धर्मे गरीयसी।
धर्मं प्राप्य यथान्यायं न बलीयान्निषीदति।।
यस्माद्धर्मस्योपचितिरेकान्तेन न विद्यते।
तस्मादापद्यधर्मोऽपि श्रूयते धर्मलक्षणः।।
अधर्मो जायते तस्मिन्निति वै कवयो विदुः।
अनन्तरं क्षत्रियस्य तत्र किं विचिकित्स्यते।।
यथास्य धर्मो न ग्लायेन्नेयाच्छत्रुवशं यथा।
तत्कर्तव्यमिहेत्याहुर्नात्मानमवसादयेत्।।
सर्वात्मनैव धर्मस्य न परस्य न चात्मनः।
सर्वोपायैरुज्जिहीर्षेदात्मानमिति निश्चयः।।
तत्र धर्मविदस्तात निश्चयो धर्मनैपुणैः।
उद्यमं जीवनं क्षात्रे बाहुवीर्यादिति श्रुतिः।।
क्षत्रियो वृत्तिसंरोधे कस्य नादातुमर्हति।
अन्यत्र तापसस्वाच्च श्रोत्रियस्वाच्च भारत।।
यथा वै ब्राह्मणः सीदन्नयाज्यमपि याजयेत्।
अभोज्यमपि चाश्नीयात्तत्रेदं नात्र संशयः।।
पीडितस्य किमद्वारमुत्पथेनार्दितस्य च।
अद्वारतः प्रद्रवति यथा भवति पीडितः।।
तस्य कोशबलग्लान्यां सर्वलोकपराभवः।
भैक्षचर्या न विहिता न च विट्शूद्रजीविका।।
स्वधर्मानन्तरावृत्तिर्याऽन्यामनुपजीवतः।
जहतः प्रथमं कल्पमनुकल्पेन जीवनम्।।
आपद्गतेन धर्माणामन्यायेनोपजीवनम्।
अपि ह्येतद्ब्राह्मणेषु दृष्टं वृत्तिपरिक्षये।।
क्षत्रिये संशयः कस्मादित्येत्निश्चितं सदा।
आददीत विशिष्टेभ्यो नावसीदेत्कथंचन।।
आर्तानां रक्षितारं च प्रजानां क्षत्रियं विदुः।
तस्मात्संरक्षता कार्यमादानं क्षत्रबन्धुना।।
अन्यत्रापि विहिंसाया वृत्तिर्नेहास्ति कस्यचित्।
अप्यरण्यसमुत्थस्य एकस्य चरतो मुनेः।।
न शङ्खलिखितां वृत्तिं शक्यमास्थाय जीवितुम्।
विशेषतः कुरुश्रेष्ठ प्रजापालनमीप्सता।।
परस्पराभिहरणं राज्ञा राष्ट्रेण चापदि।
नित्यमेव हि कर्तव्यमेष धर्मः सनातनः।।
राजा राष्ट्रं यथापत्सु द्रव्यौधैः परिरक्षति।
राष्ट्रेण राजा व्यसने परिरक्ष्यस्तथा भवेत्।।
कोशं दण्डं बलं मित्रं यदन्यदपि संचितम्।
न कुर्वीतान्तरं राष्ट्रे राजा परिगतः क्षुधा।।
बीजं भक्तेन संपाद्यमिति धर्मविदो विदुः।
अत्रैतच्छम्बरस्याहुर्महामायस्य दर्शनम्।।
धिक्तस्य जीवितं राज्ञो राष्ट्रं यस्यावसीदति।
अवृत्त्यान्यमनुष्योऽपि यो वैदेशिक इत्यपि।।
राज्ञः कोशबलं मूलं कोशमूलं पुनर्बलम्।
तन्मूलं सर्वधर्माणां धर्ममूलाः पुनः प्रजाः।।
नान्यानपीडयित्वेह कोशः शक्यः कुतो बलम्।
तदर्थं पीडयित्वा च न दोषं प्राप्नुमर्हति।।
अकार्यमपि कार्यार्थं क्रियते यज्ञकर्मसु।
एतस्मिन्कारणे राजा न दोषं प्राप्नुमर्हति।।
अर्थार्थमन्यद्भवति विपरीतमथापरम्।
अनर्थार्थमथाप्यन्यत्तत्सर्वं ह्यर्थकारणम्।
एवं बुद्ध्या संप्रपश्येन्मेधावी कार्यनिश्चयम्।।
यज्ञार्थमन्यद्भवति यज्ञोऽन्यार्थस्तथाः परः।
यज्ञस्वार्थार्थमेवान्यत्तत्सर्वं यज्ञसाधकम्।।
उपमामत्र वक्ष्यामि धर्मतत्त्वप्रकाशिनीम्।।
यूपं छिन्दन्ति यज्ञार्थं तत्र ये परिपन्थिः।
द्रुमाः केचन सामन्ता ध्रुवं छिन्दन्ति तानपि।।
ते चापि निपतन्तोऽन्यान्निघ्नन्त्यपि वनस्पतीन्।
एवं कोशस्य महतो ये नराः परिपन्थिनः।
तानहत्वा न पश्यामि सिद्धिमत्र परंतप।।
धनेन जयते लोकमिमं चामुं च भारत।
सत्यं च धर्मवचनं यथा नास्त्यधनस्तथा।।
सर्वोपायैराददीत धनं यज्ञप्रयोजनम्।
न तुल्यदोषः स्यादेवं कार्याकार्येषु भारत।।
नोभौ सभवतो राजन्कथंचिदपि भारत।
न ह्यरण्येषु पश्यामि धनवृद्धानहं क्वचित्।।
यदिदं दृश्यते वित्तं पृथिव्यामिह किंचन।
ममेदं स्यान्ममेदं स्यादित्येवं मन्यते जनः।।
न च राज्ञः समो धर्मः कश्चिदस्ति कथंचन।
धर्मः संशब्दितो राज्ञामापदर्थस्ततोऽन्यथा।।
ज्ञानेन कर्मणा चान्ये तपन्त्यन्ये तपस्विनः।
बुद्ध्या दाक्ष्येण चैवान्ये चिन्वन्ति धनसंचयान्।।
अधनं दुर्बलं प्राहुर्धनेन बलवान्भवेत्।
सर्वं बलवतः प्राप्यं सर्वं तरति कोशवान्।।
कोशो धर्मश्च कामश्च परलोकस्तथा ह्ययम्।
तं धर्मेण विलिप्सेत नाधर्मेण कदाचन।।
।। इति श्रीमन्महाभारते शतसाहस्त्रिकायां संहितायां
वैयासिक्यां शान्तिपर्वणि राजधर्मपर्वणि त्रिंशदधिकशततमोऽध्यायः।। 130।।
समाप्तं च राजधर्मपर्व।। 1।।