शांतिपर्व
अध्यायः १३२
युधिष्ठिर उवाच।
हीने परमके धर्मे सर्वलोकातिलङ्घने।
सर्वस्मिन्दस्युसाद्भूते पृथिव्यामुपजीवने।।
केन स्विद्ब्राह्मणो जीवेज्जघन्ये काल आगते।
असंत्यजन्पुत्रपौत्राननुक्रोशात्पितामह।।
भीष्म उवाच।
विज्ञानबलमास्थाय जीवितव्यं तथा गते।
सर्वं साध्वर्थमेवेदमसाध्वर्थं न किंचन।।
असाधुभ्योऽर्थमादाय साधुभ्यो यः प्रयच्छति।
आत्मानं संक्रमं कृत्वा कृच्छ्रधर्मकृदेव सः।।
अरोषेणात्मनो राजन्राज्ये स्थितिमकोपयन्।
अदत्तमप्याददीत् भ्रातुर्वित्तं ममेति वा।।
विज्ञानबलपूतो यो वर्तते निन्दितेष्वपि।
वृत्तिविज्ञानवान्धीरः कस्तं वक्तुमिहार्हति।।
येषां बहुकृता बुद्धिस्तेषामन्या न रोचते।
यजसा ते प्रवर्तन्ते बलवन्तो युधिष्ठिर।।
यदैव प्रकृतं शास्त्रं जनस्तदनुवर्तते।
यदैवमध्यासेवन्ते मेध्रावी वाऽप्यथोत्तरम्।।
ऋत्विक्पुरोहिताचार्यान्सत्कृतानभिसत्कृतान्।
न ब्राह्मणान्घातयीत दोषान्प्राप्नोति घातयन्।।
एतत्प्रमाणं लोकस्य चक्षुरेतत्सातनम्।
तत्प्रमाणोऽवगाहेत तेन तत्साध्वसाधु वा।।
हवो ग्रामवास्तव्या दोषान्ब्रूयुः परस्परम्।
न तेषां वचनाद्राजा सत्कुर्याद्धातयीत वा।।
न वाच्यः परिवादो वै न श्रोतव्यः कथंचन।
कर्णौ तत्र पिधातव्यौ गन्तव्यं वा ततोऽन्यतः।।
न सतां शीलमेतद्वै परिवादो न पैशुनम्।
गुणानामेव वक्तारः सन्तो नित्यं युधिष्ठिर।।
यथा समधुरौ दम्यौ सुदान्तौ साधुवाहिनौ।
धुरमुद्यम्य वहतस्तथा वर्तेत वै नृपः।।
यथायथाऽस्य बहवः सहायाः स्युस्तथा चरेत्।
आचारमेव मन्यन्ते गरीयो धर्मलक्षणम्।।
अपरे नैवमिच्छन्ति ये शङ्खलिखिंतप्रियाः।
अर्थे क्षीणेऽथवा लुब्धास्ते ब्रूयुर्वाक्यमीदृशम्।।
आर्षमष्यत्र पश्यन्ति विकर्मस्थस्य पातनम्।
न चार्षात्सदृशं किंचित्प्रमाणं दृश्यते क्वचित्।।
देवा ह्यपि विकर्मस्थं घातयन्ति नराधमम्।
व्याजेन विन्दन्वित्तं हि धर्मतः परिहीयते।।
सर्वतः सत्कृतः सद्भिर्भूतिप्रवरकारणैः।
हृदयेनाभ्यनुज्ञातो यो धर्मस्तं व्यवस्यति।।
यश्चतुर्गुणसंपन्नं धर्मं वेद स धर्मवित्।
अहेरिव हि धर्मस्य पदं दुःखं गवेषितुम्।।
यथा मृगस्य विद्धस्य मृगव्याधः पदं नयेत्।
लक्षेद्रुधिरपातेन तथा धर्मपदं नयेत्।।
यथा सम्यग्वितेन पथा गन्तव्यमप्युत।
राजर्षीणां वृत्तमेतदेवं गच्छ युधिष्ठिर।।
।। इति श्रीमन्महाभारते शान्तिपर्वणि
आपद्धर्मपर्वणि द्वात्रिंशदधिकशततमोऽध्यायः।। 132।।