शांतिपर्व

अध्यायः १२९

Santi Parva (Sanskrit) · Adhyaya 129
अक्षर का आकार

युधिष्ठिर उवाच।

नामृतस्येव पर्याप्तिर्ममास्ति ब्रुवति त्वयि।
[यथाहि स्वात्मवृत्तिस्थस्तथा तृप्तोऽस्मि भारत।।]

तस्मात्कथय भूयोऽपि त्वं ममेह पितामह।
[न हि तृप्तिमहं यामि पिबन्धर्मामृतं हि ते।।]

भीष्म उवाच।

अत्राप्युदाहरन्तीममितिहासं पुरातनम्।
गौतमस्य च संवादं यमस्य च महात्मनः।।

पारियात्रं गिरिं प्राप्य गौतमस्याश्रमो महान्।
वसते गौतमो यत्र तपसा दग्धकिल्विषः।।

पृष्टिं वर्षसहस्राणि सोऽतप्यद्गौतमस्तपः।
तमुग्रतपसा युक्तं भावितं सुमहामुनिम्।।

उपयातो नरव्याघ्र लोकपालो यमस्तदा।
तमपश्यत्सुतपसमृषिं वै गौतमं तदा।।

स तं विदित्वा ब्रह्मर्षियेममागतमोजसा।
प्राञ्जलिः प्रणतो भूत्वा उपसृप्तस्तपोधनः।।

तं धर्मराजो दृष्ट्वैव नमस्कृत्य द्विजोत्तमम्।
न्यमन्त्रयत धर्मेण क्रियतां किमिति ब्रुवन्।।

गौतम उवाच।

मातापितृभ्यामानृण्यं किं कृत्वा समवाप्नुयात्।
कथं च लोकानाप्नोति पुरुषो दुर्लभाञ्शुभान्।।

यम उवाच।

तपः शौचवता नित्यं सत्यधर्मरतेन च।
मातापित्रोरहरहः पूजनं कार्यमञ्जसा।।

अश्वमेधैश्च यष्टव्यं बहुभिः स्वाप्तदक्षिणैः।
तेन लोकानवाप्नोति पुरुषोऽद्भुतदर्शनान्।।

।। इति श्रीमन्महाभारते शान्तिपर्वणि
राजधर्मपर्वणि एकोनत्रिंशदधिकशततमोऽध्यायः।। 129।।