शांतिपर्व
अध्यायः १३
सहदेव उवाच।
न बाह्यं द्रव्यमुत्सृज्य सिद्धिर्भवति भारत।
शारीरं द्रव्यमुत्सृज्य सिद्धिर्भवति वा न वा।।
बाह्यद्रव्यविमुक्तस्य शारीरेष्वनुगृध्यतः।
यो धर्मो यत्सुखं वा स्याद्द्विषतां तत्तथाऽस्तु नः।।
शारीरंद्रव्यमुत्सृज्य पृथिवीमनुशासतः।
यो धर्मो यत्सुखं वा स्यात्सुहृदां तत्तथाऽस्तु नः।।
द्व्यक्षरस्तु भवेन्मृत्युरुयक्षरं ब्रह्म शाश्वतम्।
ममेति द्व्यक्षरो मृत्युर्न ममेति च शाश्वतम्।।
ब्रह्ममृत्यू ततो राजन्नात्मन्येव समाश्रितौ।
अदृश्यमानौ भूतानि योजयेतामसंशयम्।।
अविनाशोऽस्य सत्वस्य नियतो यदि भारत।
हित्वा शरीरं भूतानां न हिंसा प्रतिपत्स्यते।।
अथापि च सहोत्पत्तिः सत्वस्य प्रलयस्तथा।
नष्टे शरीरे नष्टः स्याद्वृथा च स्यात्क्रियापथः।।
तस्मादेकान्तमुत्सृज्य पूर्वैः पूर्वतरैश्च यः।
पन्था निषेवितः सद्भिः स निषेव्यो विजानता।।
`स्वायंभुवेन मनुना तथाऽन्यैश्तक्रवर्तिभिः।
यद्ययं ह्यधमः पन्थाः कस्मात्तैस्तैर्निषेवितः।।
कृतत्रेतादियुक्तानि गुणवन्ति च भारत।
युगानि बहुशस्तैश्च भुक्तेयमवनी नृप।।'
लब्ध्वाऽपि पृथिवीं कृत्स्नां सहस्थावरजङ्गमाम्।
न भुङ्क्ते यो नृपः सम्यक्किंफलं तस्य जीविते।।
अथवा वसतो राजन्वने वन्येन जीवतः।
द्रव्येषु यस्य ममता मृत्योरास्ये स वर्तते।।
बाह्यान्तराणां भूतानां स्वभावं पश्य भारत।
ये तु पश्यन्ति तद्भूतं मुच्यन्ते ते महाभयात्।।
भवान्पिता भवान्माता भवान्भ्राता भवान्गुरुः।
दुःखप्रलापानार्तस्य तन्मे त्वं क्षन्तुमर्हसि।।
तथ्यं वा यदि वाऽतथ्यं यन्मयैतत्प्रभाषितम्।
तद्विद्वि पृथिवीपाल भक्त्या भरतसत्तम।।
।। इति श्रीमन्महाभारते शान्तिपर्वणि
राजधर्मपर्वणि त्रयोदशोऽध्यायः।। 13।।