शांतिपर्व
अध्यायः १२
वैशंपायन उवाच।
अर्जुनस्य वचः श्रुत्वा नकुलो वाक्यमब्रवीत्।
राजानमभिसंप्रेक्ष्य सर्वधर्मभृतां वरम्।।
अनुरुध्य महाप्राज्ञो भ्रातुश्चित्तमरिंदम।
व्यूढोरस्को महाबाहुस्ताम्रास्यो मितभाषिता।।
नकुल उवाच।
विशाखयूपे देवानां सर्वेषामग्नयश्चिताः।
तस्माद्विद्वि महाराज देवाः कर्मफले स्थिताः।।
अनास्तिकानां भूतानां प्राणदाः पितरश्च ये।
तेऽपि कर्मैव कुर्वन्ति विधिं पश्यस्व पार्थिव।।
वेदवादापविद्धास्तु तान्विद्धि भृशनास्तिकान्।
न हि वेदोक्तमुत्सृज्य विप्रः सर्वेषु कर्मसु।।
देवयानेन नाकस्य पृष्ठमाप्नोति भारत।
अत्याश्रमानयं सर्वानित्याहुर्वेदमिश्चयाः।।
ब्राह्मणाः श्रुतिसंपन्नास्तान्निबोध नराधिप।
वित्तानि धर्मलब्धानि क्रतुमुख्येष्ववासृजन्।।
कृतात्मा स महाराज स वै त्यागी स्मृतो नरः।।
अनवेक्ष्य सुखादानं तथैवोर्ध्वं प्रतिष्ठितः।
आत्मत्यागी महाराज स त्यागी तापसो मतः।।
अनिकेतः परिपतन्वृक्षमूलाश्रयो मुनिः।
अयाचकः सदायोगी स त्यागी पार्थ भिक्षुकः।।
क्रोधहर्षावनादृत्य पैशुन्यं च विशेषतः।
विप्रो वेदानधीते यः स त्यागी गुरुपूजकः।।
आश्रमांस्तुलया सर्वान्धृतानाहुर्मनीषिणः।
एकतश्च त्रयो राजन्गृहस्थाश्रम एकतः।।
समीक्ष्य तुलया पार्थ कामं स्वर्गं च भारत।
अयं पन्था महर्षीणाप्रियं लोकविदां गतिः।।
इति यः कुरुते भावं स त्यागी भरतर्षभ।
नरः परित्यज्य गृहान्वनमेति विमूढवत्।।
यदा कामान्समीक्षेत धर्मवैतंसिको नरः।
अथैनं मृत्युपाशेन कण्ठे बध्नाति सृत्युराट्।।
अभिमानकृतं कर्म नैतत्फलवदुच्यते।
त्यागयुक्तं महाराज सर्वमेव महाफलम्।।
शमो दमस्तथा धैर्यं सत्यं शौचमथार्जवम्।
यज्ञो धृतिश्च धर्मश्च नित्यमार्षो विधिः स्मृतः।।
पितृदेवातिथिकृते समारम्भोऽत्र शस्यते।
अत्रैव हि महाराज त्रिवर्गः केवलं फलम्।।
एतस्मिन्वर्तमानस्य विधौ विप्रनिषेविते।
त्यागिनः प्रसृतस्येह नोच्छित्तिर्विद्यते क्वचित्।।
असृजद्धि प्रजा राजन्प्रजापतिरकल्मषः।
मां यक्ष्यन्तीति धर्मात्मा यज्ञैर्विविधदक्षिणैः।।
वीरुधश्चैव वृक्षांश्च यज्ञार्थं वै तथौषधीः।
पशूंश्चैव तथा मेध्यान्यज्ञार्थानि हवींषि च।।
गृहस्थाश्रमिणस्तच्च यज्ञकर्माविरोधितम्।
तस्माद्गार्हस्थ्यमेवेह दुष्करं दुर्लभं तथा।।
तत्संप्राप्य गृहस्था ये पशुधान्यधनान्विताः।
न यजन्ते महाराज शाश्वतं तेषु किल्विषम्।।
स्वाध्याययज्ञा ऋषयो ज्ञानयज्ञास्तथा परे।
अथापरे महायज्ञान्मनस्येव वितन्वते।।
`इदमन्यन्महाराज विद्वद्भिः कथितं मम।
भूमिरग्निश्च वायुश्च न चापो न दिवाकरः।।
नक्षत्राणि न चन्द्रश्च न दिशः काल एव च।
शब्दः स्पर्शश्च रूपं च न गन्धो न रसः क्वचित्।।
न च सन्ति प्रमाणानि यैः प्रमेयं प्रसाध्यते।
प्रत्यक्षमनुमानं न नोपमानमथागमः।।
नार्थापत्तिर्न चैतिह्यं न दृष्टान्तो न संशयः।
न क्वचिन्निर्णयो राजन्न धर्माधर्म एव च।।
तिर्यक्व स्थावरं चैव न देवा न च मानुषाः।
वर्णाश्रमविभागाश्च न च कर्ता न कामकृत्।
न चार्थश्च विभूतिश्च न चार्थस्य विचेष्टितम्।।
तमोभूतमिदं सर्वमनालोकं जगन्नृप।
न चात्मा विद्यमानोपि मनसा योगमिच्छति।।
अचेतनं मनस्त्वासीदात्मा एव सचेतनः।
ईश्वरश्चेतनस्त्वेकस्तेनेदं गहनीकृतम्।
मन्त्राश्च चेतना राजन्न च देहेन योजिताः।।
तेन विश्वसृजो नाम ऋषयो मन्त्रदेवताः।
चैतन्यमीश्वरात्प्राप्य ब्रह्माण्डं तैर्विनिर्मितम्।।
इष्ट्वा विश्वसृजं यज्ञं निर्मितः प्रपितामहः।
सृष्टिस्तेन समारब्धा प्रसादादीश्वरस्य च।।
चैतन्यमीश्वरस्येदं सचेतनमिदं जगत्।
योगेन च समाविष्टं जगत्कृत्स्नं च शंभुना।।
धर्मश्चार्थश्च कामश्च उक्तो मोक्षश्च संक्षये।
ब्रह्मणः परमेशस्य ईश्वरेण यदृच्छया।।
अज्ञो जन्तुरनीशश्च भाजनं सुखदुःखयोः।
ईश्वरप्रेरितो गच्छेत्स्वर्गं वा श्वभ्रमेव वा।।
प्रधानं पुरुषः चैव आत्मानं सर्वदेहिनाम्।
मनसा विषयैश्चैव चेतनेन प्रचोदिताः।
सुखदुःखेन युज्यन्ते कर्मभिश्च प्रचोदिताः।।
वर्णाश्रमविभागाश्च ईश्वरेण प्रवर्तिताः।
सदेवासुरगन्धर्वं येनेदं निर्मितं जगत्।।
त्वं चान्ये च महाराज ईश्वरस्य वशे स्थिताः।
जीवन्ते च म्रियन्ते च न स्वतन्त्राः कथंचन।।
हित्वाहित्वा च भूतानि हत्वा सर्वमिदं जगत्।
यजन्ते कर्मणा देवा न स पापेन लिप्यते।।
हिंसात्मकानि कर्माणि सर्वेषां गृहमेधिनाम्।
देवतानामृषीणां च ते च यान्ति परां गतिम्।।
पातिताः शत्रवः पूर्व सर्वत्र वसुधाधिपैः।
प्रजानां हितकामैश्च आत्मनश्च हितैषिभिः।
यदि तत्र भवेत्पापं कथं ते स्वर्गमास्थिताः।
न प्राप्ता नरकं राजन्वेष्टिताः पापकर्मभिः।।'
एवं मनःसमाधानं मार्गमातिष्ठतो नृप।
द्विजातेर्ब्रह्मभूतस्य स्पृहयन्ति दिवौकसः।।
स रत्नानि विचित्राणि संहृतानि ततस्ततः।
मखेष्वनभिसन्त्यज्य नास्तिक्यमभिजल्पसि।।
कुटुम्बमास्थिते त्यागं न पश्यामि नराधिप।
राजसूयाश्वमेधेषु सर्वमेधेषु वा पुनः।।
ये चान्ये क्रतवस्तात ब्राह्मणैरभिपूजिताः।
तैर्यजस्व महीपाल शक्रो देवपतिर्यथा।
राज्ञः प्रमाददोषेण दस्युभिः परिमुष्यताम्।
अशरण्यः प्रजानां यः स राजा कलिरुच्यते।।
अश्वान्गाश्चैव दासीश्च करेणूश्च स्वलंकृताः।
ग्रामाञ्जनपदांश्चैव क्षेत्राणि च गृहाणि च।।
अप्रदाय द्विजातिभ्यो मात्सर्याविष्टचेतसः।
वयं ते राजकलयो भविष्याम विशांपते।।
अदातारोऽशरण्याश्च राजकिल्विषभागिनः।
दुःखानामेव भोक्तारो न सुखानां कदाचन।।
अनिष्ट्वा च महायज्ञैरकृत्वा च पितृस्वधाम्।
तीर्थेष्वनभिसंप्लुत्य प्रव्रजिष्यसि चेत्प्रभो।।
छिन्नाभ्रमिव गन्तासि विलयं मारुतेरितम्।
लोकयोरुभयोर्भ्रष्टो ह्यन्तराले व्यवस्थितः।।
अन्तर्बहिश्च यत्किंचिन्मनोव्यासङ्गकारकम्।
परित्यज्य भवेत्त्यागी न हित्वा प्रतितिष्ठति।।
एतस्मिन्वर्तमानस्य विधौ विप्रनिषेविते।
ब्राह्मणस्य महाराज नोच्छित्तिर्विद्यते क्वचित्।।
निहत्य शत्रूंस्तरसा समृद्धाञ्शक्रो यथा दैत्यबलानि सङ्ख्ये।
कः पार्थ शोचेन्निरतः स्वधर्मे पूर्वैः स्मृते पार्थिवशिष्टजुष्टे।।
क्षात्रेण धर्मेण पराक्रमेण जित्वा महीं मन्त्रविद्भ्यः प्रदाय।
नाकस्य पृष्ठेऽसि नरेन्द्र गन्ता न शोचितव्यं भवताऽद्य पार्थ।।
।। इति श्रीमन्महाभारते शान्तिपर्वणि
राजधर्मपर्वणि द्वादशोऽध्यायः।। 12।।