शांतिपर्व
अध्यायः १४
वैशंपायन उवाच।
अव्याहरति कौन्तेये धर्मराजे युधिष्ठिरे।
भ्रातृणां ब्रुवतां तांस्तान्विविधान्वेदनिश्चयान्।।
महाभिजनसंपन्ना श्रीमत्यायतलोचना।
अभ्यभाषत राजानं द्रौपदी योषितां वरा।।
आसीनमृषभं राज्ञां भ्रातृभिः परिवारितम्।
सिंहशार्दूलसदृशैर्वारणैरिव यूथपम्।।
अभिमानवती नित्यं विशेषेण युधिष्ठिरे।
लालिता सततं राज्ञा धर्माधर्मनिदर्शिनी।।
आमन्त्रयित्वा सुश्रोणी साम्ना परमवल्गुना।
भर्तारमभिसंप्रेक्ष्य ततो वचनमब्रवीत्।।
द्रौपद्युवाच।
इमे ते भ्रातरः पार्थ शुष्यन्ते स्तोकका इव।
वावाश्यमानास्तिष्ठन्ति न चैनानभिनन्दसे।।
नन्दयैतान्महाराज मत्तानिव महाद्विपान्।
उपपन्नेन वाक्येन सततं दुःखभागिनः।।
कथं द्वैतवने राजन्पूर्वमुक्त्वा तथा वचः।
भ्रातॄनेतान्स्म सहिताञ्शीतवातातपार्दितान्।।
वयं दुर्योधनं हत्वा मृधे भोक्ष्याम मेदिनीम्।
संपूर्णां सर्वकामानामाहवे विजयैषिणः।।
नृवीरांश्च रथान्हत्वा निहत्य च महागजान्।
संस्तीर्य च रथैर्भूमिं ससादिभिररिंदमाः।।
यजेभ विविधैर्यज्ञैः समृद्धैराप्तदक्षिणैः।
वनवासकृतं दुःखं भविष्यति सुखाय नः।।
इत्येतानेवमुक्त्वा त्वं स्वयं धर्मभृतां वर।
कथमद्य पुनर्वीर विनिहंसि मनांसि नः।।
न क्लीबो वसुधां भुङ्क्ते न क्लीबो धनमश्नुते।
न क्लीबस्य गृहे पुत्रा मत्स्याः पङ्क इवासते।।
नादण्डः क्षत्रियो भाति नादण्डो भूमिमश्नुते।
नादण्डस्य प्रजा राज्ञः सुखं विन्दन्ति भारत।।
`सदेवासुरगन्घर्वैरप्सरोभिर्विभूषितम्।
रक्षोभिर्गुह्यकैर्नागैर्मनुष्यैश्च विभूषितम्।।
त्रिवर्गेण च संपूर्णं त्रिवर्गस्यागमेन च।
दण्डेनाभ्याहृतं सर्वं जगद्भोगाय कल्पते।।
स्वायंभुवं महीपाल आगमं शृणु शाश्वतम्।
विप्राणां विदितश्चायं तव चैव विशांपते।।
अराजके हि लोकेऽस्मिन्सर्वतो विद्रुते भयात्।
रक्षार्थमस्य लोकस्य राजानमसृजत्प्रभुः।
महाकायं महावीर्यं पालने जगतः क्षमम्।।
अनिलाग्नियमार्काणामिन्द्रस्य वरुणस्य च।
चन्द्रवित्तेशयोश्चैव मात्रा निर्हृत्य शाश्वतीः।।
यस्मादेषां सुरेन्द्राणां संभवत्यंशतो नृपः।
तस्मादभिभवत्येष सर्वभूतानि तेजसा।।
तपत्यादित्यवच्चैव चक्षूंषि च मनांसि च।
च चैनं भुवि शक्नोति कश्चिदप्यभिवीक्षितुम्।।
सोऽग्निर्भवति वायुश्च सोऽर्कः सोमश्च धर्मराट्।
स कुबेरः स वरुणः स महेन्द्रः प्रतापवान्।।
पितामहस्य देवस्य विष्णोः शर्वस्य चैव हि।
ऋषीणां चैव सर्वेषां तस्मिंस्तेजः प्रतिष्ठितम्।।
बालोऽपि नावमन्तव्यो मनुष्य इति भूमिपः।
महती देवता ह्येषा नररूपेण तिष्ठति।।
एकमेव दहत्यग्निर्नरं दुरुपसर्पिणम्।
कुलं दहति राजाग्निः सपशुद्रव्यसंचयम्।।
धृतराष्ट्रकुलं दग्धं क्रोधोद्भूतेन वह्निना।
प्रत्यक्षमेतल्लोकस्य संशयो हि न विद्यते।।
कुलजो वृत्तसंपन्नो धार्मिकश्च महीपतिः।
प्रजानां पालने युक्तः पूज्यते दैवतैरपि।।
कार्यं योऽवेक्ष्य शक्तिं च देशकालौ च तत्वतः।
कुरुते धर्मसिद्ध्यर्थं वैश्वरूप्यं पुनः पुनः।।
तस्य प्रसादे पद्मा श्रीर्विजयश्च पराक्रमे।
मृत्युश्च वसति क्रोधे सर्वतेजोमयो हि सः।।
तं यस्तु द्वेष्टि संमोहात्स विनश्यति मानवः।
तस्य ह्याशुविनाशाय राजाऽपि कुरुते मनः।।
तस्माद्धर्मं यदिष्टेषु स व्यवस्यति पार्थिवः।
अनिष्टं चाप्यनिष्टेषु तद्धर्मं न विचालयेत्।।
तस्यार्थे सर्वभूतानां गोप्तारं धर्ममात्मजम्।।
ब्रह्मतेजोमयं दण्डमसृजत्पूर्वमीश्वरः।।
तस्य सर्वाणि भूतानि स्थावराणि चराणि च।
भयाद्भोगाय कल्पन्ते धर्मान्न विचलन्ति च।।
देशकालौ च शक्तिं च कार्यं चावेक्ष्य तत्वतः।
यथार्हतः संप्रणयेन्नरेष्वन्यायवर्तिषु।।
स राजा पुरुषो दण्डः स नेता शासिता च सः।
वर्णानामाश्रमाणां च धर्मप्रभुरथाव्ययः।।
दण्डः शास्ति प्रजाः सर्वा दण्ड एवाभिरक्षति।
दण्डः सुप्तेषु जागर्ति दण्डं धर्मं विदुर्बुधाः।।
सुसमीक्ष्य धृतो दण्डः सर्वा रञ्जयति प्रजाः।
असमीक्ष्य प्रणीतस्तु विनाशयति सर्वशः।।
यदि न प्रणयेद्राजा दण्डं दण्ड्येष्वतन्द्रितः।
जले मत्स्यानिवाभक्ष्यन्दुर्बलान्बलवत्तराः।।
काकोऽद्याच्च पुरोडाशं श्वा चैवावलिहेद्धविः।
स्वामित्वं न क्वचिच्च स्यात्प्रपद्येताधरोत्तरम्।।
सर्वो दण्डजितो लोको दुर्लभस्तु शुचिर्नरः।
दण्डस्य हि भयात्सर्वं जगद्भोगाय कल्पते।।
देवदानवगन्धर्वा रक्षांसि पतगोरगाः।
तेऽपि भोगाय कल्पन्ते दण्डेनैवाभिपीडिताः।।
दूष्येयुः सर्ववर्णाश्च भिद्येरन्सर्वसेतवः।
सर्वलोकप्रकोपश्च भवेद्दण्डस्य विभ्रमात्।।
यत्र श्यामो लोहिताक्षो दण्डश्चरति पापहा।
प्रजास्तत्र न मुह्यन्ति नेता चेत्साधु पश्यति।।
आहुस्तस्य प्रणेतारं राजानं सत्यवादिनम्।
समीक्ष्यकारिणं प्राज्ञं धर्मकामार्थकोविदम्।।
तं राजा प्रणयन्सम्यक्स्वर्गायाभिप्रवर्तते।
कामात्मविषयी क्षुद्रो दण्डेनैव निहन्यते।।
दण्डो हि सुमहातेजा दुर्धरश्चाकृतात्मभिः।
धर्माद्विचलितं हन्ति नृपमेव सबान्धवम्।।
ततो दुर्गं च राष्ट्रं च लोकं च सचराचरम्।
अन्तरिक्षगतांश्चैव मुनीन्देवांश्च हिंसति।।
सोऽसहायेन मूढेन लुब्धेनाकृतबुद्धिना।
अशक्यो न्यायतो नेतुं विषयांश्चैव सेवता।।
शुचिना सत्यसन्धेन नीतिशास्त्रानुसारिणा।
दण्डः प्रणेतुं शक्यो हि सुसहायेन धीमता।।
स्वराष्ट्रे न्यायवर्ती स्याद्भृशदण्डश्च शत्रुषु।
सुहृत्स्वजिह्मः स्निग्धेषु ब्राह्मणेषु क्षमान्वितः।।
एवंवृत्तस्य राज्ञस्तु शिलोञ्छेनापि जीवतः।
विस्तीर्येत यशो लोके तैलबिन्दुरिवाम्भसि।।
अतस्तु विपरीतस्य नृपतेरकृतात्मनः।
संक्षिप्येन यशो लोके घृतबिन्दुरिवाम्भसि।।
देवदेवेन रुद्रेण ब्रह्मणा च महीपते।
विष्णुना चैव देवेन शक्रेण च महात्मना।।
लोकपालैश्च भूतैश्च पाण्डवैश्च महात्मभिः।
धर्माद्विचलिता राजन्धार्तराष्ट्रा निपातिताः।
अधार्मिका दुराचाराः ससैन्या विनिपातिताः।।
तान्निहत्य न दोषस्ते स्वल्पोऽपि जगतीपते।
छलेन मायया वाऽथ क्षत्रधर्मेण वा नृप।।'
मित्रता सर्वभूतेषु दानमध्ययनं तपः।
ब्राह्मणस्यैव धर्मः स्यान्न राज्ञो राजसत्तम।।
असतां प्रतिषेधश्च सतां च परिपालनम्।
एष राज्ञां परो धर्मः समरे चापलायनम्।।
यस्मिन्क्षमा च क्रोधश्च दानादाने भयाभये।
निग्रहानुग्रहौ चोभौ स वै धर्मविदुच्यते।।
न श्रुतेन न दानेन न सांत्वेन न चेज्यया।
त्वयेयं पृथिवी लब्धा न संकोचेन चाप्युत।।
यत्तद्बलममित्राणां तथा वीरसमुद्यतम्।
हस्त्यश्वरथसंपन्नं त्रिभिरङ्गैरनुत्तमम्।।
रक्षितं द्रोणकर्णाभ्यामश्वत्थाम्ना कृपेण च।
तत्त्वया निहतं वीर तस्माद्भुङ्क्ष्व वसुंधराम्।।
जम्बूद्वीपो महाराज नानाजनपदैर्युतः।
त्वया पुरुषशार्दूल दण्डेन मृदितः प्रभो।।
जम्बूद्वीपेन सदृशः क्रौञ्चद्वीपो नराधिप।
अपरेण महामेरोर्दण्डेन मृदितस्त्वया।।
क्रौञ्चद्वीपेन सदृशः शाकद्वीपो नराधिप।
पूर्वेण तु महामेरोर्दण्डेन मृदितस्त्वया।।
उत्तरेण महामेरोः शाकद्वीपेन संमितः।
भद्राश्वः पुरुषव्याघ्र दण्डेन मृदितस्त्वया।।
द्वीपाश्च सान्तरद्वीपा नानाजनपदाश्रयाः।
विगाह्य सागरं वीर दण्डेन मृदितास्त्वया।।
एतान्यप्रतिमेयानि कृत्वा कर्माणि भारत।
न प्रीयसे महाराज पूज्यमानो द्विजातिभिः।।
स त्वं भ्रातॄनिमान्दृष्ट्वा प्रतिनन्दस्व भारत।
ऋषभानिव संमत्तान्गजेन्द्रान्गर्जितानिव।।
अमरप्रतिमाः सर्वे शत्रुसाहाः परंतपाः।
एकैकोऽपि सुखायैषां मम स्यादिति मे मतिः।।
किं पुनः पुरुषव्याघ्राः पतयो मे नरर्षभाः।
समस्तानीन्द्रियाणीव शरीरस्य विचेष्टने।।
अनृतं नाब्रवीच्छ्वश्रूः सर्वज्ञा सर्वदर्शिनी।
युधिष्ठिरस्त्वां पाञ्चालि सुखे धास्यत्यनुत्तमे।।
इत्वा राजसहस्राणि बहून्याशुपराक्रमः।
तद्व्यर्थं संप्रपश्यामि मोहात्तव जनाधिप।।
येषामुन्मत्तको ज्येष्ठः सर्वे तेऽप्यनुसारिणः।
तवोन्मादान्महाराजसोन्मादाः सर्वपाण्डवाः।।
यदि हि स्युरनुन्मत्ता भ्रातरस्ते नराधिप।
बद्ध्वा त्वां नास्तिकैः सार्धं प्रशासेयुर्वसुंधराम्।।
कुरुते मूढ एवं हि यः श्रेयो नाधिगच्छति।
धूपैरञ्जनयोगैश्च नस्यकर्मभिरेव च।।
`उन्मत्तिरपनेतव्या तव राजन्यदृच्छया।'
भेषजैः स चिकित्स्यः स्याद्य उन्मार्गेण गच्छति।।
साहं सर्वाधमा लोके स्त्रीणां भरतसत्तम।
तथा विनिकृता पुत्रैर्याऽहमिच्छामि जीवितुम्।।
धृतराष्ट्रसुता राजन्नित्यमुत्पथगामिनः।
तादृशानां वधे दोषं नाहं पश्यामि कर्हिचित्।।
इमांश्चोशनसा गीताञ्श्लोकाञ्श्रृणु नराधिप।।
आत्महन्ताऽर्थहन्ता च बन्धुहन्ता विषप्रदः।
अकारणेन हन्ता च यश्च भार्यां परामृशेत्।।
निर्दोषं वधमेतेषां षण्णामप्याततायिनाम्।
ब्रह्मा प्रोवाच भगवान्भार्गवाय महात्मने।।
ब्रह्मक्षत्रविशां राजन्सत्पथे वर्तिनामपि।
प्रसह्यागारमागम्य हन्तारं गरदं तथा।।
अभक्ष्यापेयदातारमग्निदं च निशातयेत्।
मार्ग एष महीपानां गोब्राह्मणवधेषु च।।
केशग्रहे च नारीणामपि युध्येत्पितामहम्।
ब्रह्माणं देवदेवेशं किं पुनः पापकारिणम्।।
गोब्राह्मणार्थे व्यसने च राज्ञां राष्ट्रोपमर्दे स्वशरीरहेतोः।
स्त्रीणां च विक्रुष्टरुतानि श्रुत्वा विप्रोऽपि युध्येत महाप्रभावः।।
धर्माद्विचलितं विप्रं निहन्यादाततायिनम्।
तस्यान्यत्र वधं विद्वान्मनसाऽपि न चिन्तयेत्।।
गोब्राह्मणवधे वृत्तं मन्त्रत्राणार्थमेव च।
निहन्यात्क्षत्रियो विप्रं स्वकुटुम्बस्य चाप्तये।।
तस्करेण नृशंसेन धर्मात्प्रचलितेन च।
क्षत्रबन्धुः परं शक्त्या युध्येद्विप्रेण संयुगे।।
आततायिनमायान्तमपि वेदान्तपारगम्।
जिघांसन्तं जिघांसीयान्न तेन भ्रूणहा भवेत्।।
ब्राह्मणः क्षत्रियो वैश्यः शूद्रो वाऽप्यन्त्यजोपि वा।
न हन्याद्ब्राह्मणं शान्तं तृणेनापि कदाचन।।
ब्राह्मणायावगुर्याद्यः स्पृष्ट्वा गुरुतरं महत्।
वर्षाणां त्रिशतं पापः प्रतिष्ठां नाधिगच्छति।।
सहस्राणि च वर्षाणि निहत्य नरके पतेत्।
तस्मान्नैवावगुर्याद्धि नैव शस्त्रं निपातयेत्।।
शोणितं यावतः पांसून्गृह्णातीति हि धारणा।
तावतीः स समाः पापो नरके परिवर्तते।।
त्वगस्थिभेदं विप्रस्य यः कुर्यात्कारयेत वा।
ब्रह्महा स तु विज्ञेयः प्रायश्चित्ती नराधमः।।
श्रोत्रियं ब्राह्मणं हत्वा तथाऽऽत्रेयीं च ब्राह्मणीम्।
चतुर्विशतिवर्षाणि चरेद्ब्रह्महणो व्रतम्।।
द्विगुणां ब्रह्महत्येयं सर्वैः प्रोक्ता महर्षिभिः।
प्रायश्चित्तमकुर्वाणं कृताङ्कं विप्रवासयेत्।।
ब्राह्मणं क्षत्रियं वैश्यं शूद्रं वा घातयेन्नृपः।
ब्रह्मघ्नं तस्करं चैव माभूदेवं चरिष्यति।।
छित्त्वा हस्तौ च पादौ च नासिकोष्ठौ च भूपतिः।
ब्रह्मघ्नं चोत्तमं पापं नेत्रोद्धारेण योजयेत्।।
शूद्रस्यैव स्मृतो दण्डस्तद्वद्राजन्यवैश्ययोः।
प्रायश्चित्तमकुर्वाणं ब्राह्मणं तु प्रवासयेत्।।
क्षत्रियं वैश्यशूद्रौ च शस्त्रेणैव च घातयेत्।
ब्रह्मघ्नान्ब्राह्मणात्राजा कृताङ्कान्विप्रवासयेत्।।
विकलेन्द्रियांस्त्रिवर्णांश्च चण्डालैः सह वासयेत्।
तैश्च यः संपिबेत्कश्चित्स पिबन्ब्रह्महा भवेत्।।
प्रेतानां न च देयानि पिण्डदानानि केनचित्।।
कृष्णवर्णा विरूपा च निर्णीता लम्बमूर्धजा।
दुनोत्यदृष्ट्वा कर्तारं ब्रह्महत्येति तां विदुः।।
ब्रह्मघ्नेन पिबन्तश्च विप्रा देशाः पुराणि च।
अचिरादेव पीड्यन्ते दुर्भिक्षव्याधितस्करैः।।
ब्राह्मणं पापकर्माणं विप्राणामाततायिनम्।
क्षत्रियं वैश्यशूद्रौ च नेत्रोद्धारेण योजयेत्।।
दुर्बलानां बलं राजा बलिनो ये च साधवः।
बलिनां दुर्बलानां च पापानां मृत्त्युरिष्यते।।
सदोषमपि यो हन्यादश्राव्य जगतीपते।
दुर्बलं बलवन्तं वा स पराजयमर्हति।।
राजाज्ञां प्राड्विवाकं च नेच्छेद्यच्चापि निष्पतेत्।
साक्षिणं साधुवाक्यं च जितं तमपि निर्दिशेत्।।
बन्धनान्निष्पतेद्यच्च प्रतिभूर्न ददाति च।
कुलजश्च धनाढ्यश्च स पराजयमर्हति।।
राजाज्ञया समाहूतो यो न गच्छेत्सभां नरः।
बलवन्तमुपाश्रित्य सायुधः स पराजितः।।
तं दण्डेन विनिर्जित्य महासाहसिकं नरम्।
वियुक्तदेहसर्वस्वं परलोकं विसर्जयेत्।।
मृतस्यापि न देयानि पिण्डदानानि केनचित्।
दत्त्वा दण्डं प्रयच्छेत मध्यमं पूर्वसाहयम्।।
कुलस्त्रीव्यभिचारं च राष्ट्रस्य च विमर्दनम्।
ब्रह्महत्यां च चौर्यं च राजद्रोहं च पञ्चमम्।।
युद्धादन्यत्र हिंसायां सुरापस्य च कीर्तने।
महान्तं गुरुतल्पे च मित्रद्रोहे च पातकम्।।
न कथंचिदुपेक्षेत महासाहसिकं नरम्।
सर्वस्वमपहृत्याशु ततः प्राणैर्वियोजयेत्।।
त्रिषु वर्णेषु यो दण्डः प्रणीतो ब्रह्मणा पुरा।
महासाहसिकं विप्रं कृताङ्कं विप्रवासयेत्।।
साहस्रो वा भवेद्दण्डः काञ्चनो देहनिष्क्रिया।
चतुर्णामपि वर्णानामेवमाहोशना कविः।।
नारीणां बालवृद्धानां गोपतेश्च महामतिः।
पापानां दुर्विनीतानां प्राणान्तं च बृहस्पतिः।
दण्डमाह महाभाग सर्वेषामाततायिनाम्।।
सर्वेषां पापबुद्धीनां पापकर्मैव क्वुर्वताम्।
धृतराष्ट्रस्य पुत्राणां दण्डो निर्दोष इष्यते।
सौबलस्य च दुर्बुद्धेः कर्णस्य च दुरात्मनः।।
पश्यतां चैव शूराणां याऽहं द्यूते सभां तदा।
रजस्वला समानीता भवतां पश्यतां नृप।
वाससैकेन संवीता तव दोषेण भूपते।।
माभूद्धर्मविलोपस्ते धृतराष्ट्रकुलक्षयात्।
क्रोधाग्निना तु दग्धं च सपशुद्रव्यसंचयम्।।
साऽहमेवंविधं दुःखं संप्राप्ता तव हेतुना।
आदित्यस्य प्रसादेन न च प्राणैर्वियोजिता।।
रक्षिता देवदेवेन जगतः कालहेतुना।
दिवाकरेण देवेन विवस्त्रा न कृता तदा'।।
एतेषां यतमानानां न मेऽद्य वचनं मृषा।
त्वं तु सर्वां महीं त्यक्त्वा कुरुषे स्वयमापदम्।।
यथाऽऽस्तां संमतौ राज्ञां पृथिव्यां राजसत्तम्।
मांधाता चाम्बरीषश्च तथा राजन्विराजसे।।
प्रशाधि पृथिवीं देवीं प्रजा धर्मेण पालयन्।
सपर्वतवनद्वीपां मा राजन्विमना भव।।
यजस्व विविधैर्यज्ञैर्युध्यस्वारीन्प्रयच्छ च।
धनानि भोगान्वासांसि द्विजातिभ्यो नृपोत्तम।।
।। इति श्रीमन्महाभारते शान्तिपर्वणि
राजधर्मपर्वणि चतुर्दशोऽध्यायः।। 14।।