शांतिपर्व

अध्यायः १२८

Santi Parva (Sanskrit) · Adhyaya 128
अक्षर का आकार

राजोवचा।

वीरद्युम्न इति ख्यातो राजाऽहं दिक्षु विश्रुतः।
भूरिद्युम्नं सुतं नष्टमन्वेष्टुं वनमागतः।।

एकः पुत्रः स विप्राग्र्य बाल एव च सोऽनघः।
न दृश्यते वने चास्मिंस्तमन्वेष्टुं चराम्यहम्।।

ऋषभ उवाच।

इत्युक्ते तेन वचने राज्ञा मुनिरधोमुखः।
तूष्णीमेवाभवत्तत्र न च प्रत्युक्तवान्नृपम्।।

स हि तेन पुरा विप्रो राज्ञा नात्यर्थमानितः।
आशाकृतश्च राजेन्द्र तपो दीर्घं समाश्रितः।।

प्रतिग्रहमहं राज्ञां न करिष्ये कथंचन।
अन्येषां चैव वर्णानामिति कृत्वा धियं तदा।।

आशा हि पुरुषं बालमालापयति तस्थूषी।
तामहं व्यपनेष्यामि इति कृत्वा व्यवस्थितः।
[वीरद्युम्नस्तु तं भूयः पप्रच्छ मुनिसत्तमम्।।]

राजोवाच।

आशायाः किंच वृत्तं वै किंचेह भुवि दुर्लभम्।
ब्रवीतु भगवानेतत्त्वं हि धर्मार्थदर्शिवान्।।

ऋषभ उवाच।

ततः संस्मृत्य तत्सर्वं स्मारयिष्यन्निवाब्रवीत्।
राजानं भगवान्विप्रस्ततः कृशतनुस्तदा।।

ऋषिरुवाच।

कृशत्वेन समं राजन्नाशाया विद्यते नृप।
तस्या वै दुर्लभत्वाच्च प्रार्थितः पार्थिवो मया।।

राजोवाच।

कृशाकृशे मया ब्रह्मन्गृहीते वचनात्तव।
दुर्लभत्वं च तस्यैव वेदवाक्यमिवाद्विजे।।

संशयस्तु महाप्राज्ञ संजातो हृदये मम।
तन्मुने मम तत्त्वेन वक्तुमर्हसि पृच्छतः।।

त्वत्तः कृशतरं किंनु ब्रवीतु भगवानिदम्।
यदि गुह्यं न ते विप्र लोके किंचेह दुर्लभम्।।

कृश उवाच।

दुर्लभोऽप्यथवा नास्ति योऽर्थी धृतिमवाप्नुयात्।
स दुर्लभतरस्तात योऽर्थिनं नावमन्यते।।

सत्कृत्य नोपक्रियते परं शक्त्या यथार्थतः।
या सक्ता सर्वभूतेषु साऽऽशा कृशतरी मया।।

कृतघ्नेषु च या सक्ता नृशंसेष्वलसेषु च।
अपकारिषु चासक्ता साऽऽशा कृशतरी मया।।

एकपुत्रः पिता पुत्रे नष्टे वा प्रोषितेऽपि वा।
प्रवृत्तिं यो न जानाति साऽऽशा कृशतरी मता।।

प्रसवे चैव नारीणां वृद्धानां पुत्रकारिता।
तथा नरेन्द्र धनिनां साऽशा कृशतरी मता।।

प्रदानकाङ्क्षिणीनां च कन्यानां वयसि स्थिते।
श्रुत्वा कथास्तथायुक्ताः साऽऽशा कृशतरी मता।।

एतच्छ्रुत्वा ततो राजन्स राजा सावरोधनः।
संस्पृश्य पादौ शिरसा निपपात द्विजर्षभे।।

राजोवाच।

प्रसादये त्वां भगवन्पुत्रेणेच्छामि संगमम्।
यदेतदुक्तं भवता संप्रति द्विजसत्तम।
वृणीष्व च वरान्विप्र यानिच्छसि यथाविधि।
अब्रवीच्चैव तद्वाक्यं राजा राजीवलोचनः।।

सत्यमेतत्त्वया विप्र यथोक्तं नान्यथा मृषा।।

ततः प्रहस्य भगवांस्तनुर्धर्मभृतां वरः।
पुत्रमस्यानयत्क्षिप्रं तपसा च श्रुतेन च।।

स समानीय तत्पुत्रं तमुपालभ्य पार्थिवम्।
आत्मानं दर्शयामास धर्मं धर्मभृतांवरः।।

स दर्शयित्वा चात्मानं दिव्यमद्भुतदर्शनम्।
विपाप्मा विगतक्रोधश्चचार वनमन्तिकात्।।

एतदॄष्टं मया राजंस्त्वत्तश्च वचनं श्रुतम्।
आशामपनय त्वाशु ततः कृषतरीमिमाम्।।

भीष्म उवाच।

स तथोक्तस्तदा राजन्नृषभेण महात्मना।
सुमित्रोऽपानयत्क्षिप्रमाशां कृशतरीं ततः।।

एवं त्वमपि कौन्तेय श्रुत्वा वाणीमिमां मम।
स्थिरो भव महाराज हिमवानिव निश्चलः।।

त्वं हि श्रुत्वा च पृष्ट्वा च कृच्छ्रेष्वर्थेषु तेष्विह।
श्रुत्वा मम महाराज न संतप्तुमिहार्हसि।।

।। इति श्रीमन्महाभारते शान्तिपर्वणि
राजधर्मपर्वणि अष्टाविंशत्यधिकशततमोऽध्यायः।। 128।।