शांतिपर्व

अध्यायः १२०

Santi Parva (Sanskrit) · Adhyaya 120
अक्षर का आकार

युधिष्ठिर उवाच।

राजवृत्तान्यनेकानि त्वया प्रोक्तानि भारत।
पूर्वैः पूर्वनियुक्तानि राजधर्मार्थवेदिभिः।।

तदेव विस्तरेणोक्तं पूर्ववृत्तं सतां मतम्।
प्रणेयं राजधर्माणां प्रब्रूहि भरतर्षभ।।

भीष्म उवाच।

रक्षणं सर्वभूतानामिति क्षात्रं परं मतम्।
तद्यथा रक्षणं कुर्यात्तथा शृणु महीपते।।

यथा बर्हाणि चित्राणि बिभर्ति भुजगाशनः।
तथा बहुविधं राजा रूपं कुर्वीत् धर्मवित्।।

तैक्ष्ण्यं जिह्नत्वमादानं सत्यमार्जवमेव च।
मध्यस्थाः सत्वमातिष्ठंस्तथा वै सुखमृच्छति।।

यस्मिन्नर्थे यथैव स्यात्तदूर्णं रूपमादिशेत्।
बहुरूपस्य राज्ञो हि सूक्ष्मोऽप्यर्थो न सीदति।।

नित्यं रक्षितमन्त्रः स्याद्यथा मूकः शरच्छिखी।
श्लक्ष्णाक्षरगतः श्रीमान्भवेच्छास्त्रविशारदः।।

आयव्ययेषु युक्तः स्याज्जलस्रवणेष्विव।
शैलाद्वर्षोदकानीव द्विजान्सिद्धान्समाश्रयेत्।
आत्मार्थं हि सदा राजा कुर्याद्धर्मध्वजोत्तमम्।।

नित्यमुद्यतदण्डः स्यादाचारे चाप्रमादवान्।
लोके चायव्ययौ दृष्ट्वा वृक्षाद्वृक्षमिवाव्रजेत्।।

आज्ञावान्स्यात्स्वयूथ्येषु भौमानि चरणैः किरन्।
जतिपक्षः परिस्पन्देत्प्रेक्षेद्वैकल्यमात्मनः।।

दोषान्विवृणुयाच्छत्रोः परपक्षांश्च सूदयेत्।
क ननेष्विव पुष्पाणि बहिरर्थान्समाचरेत्।।

उच्छ्रितानाश्रयेत्स्फूतान्नरेन्द्रानचलोपमान्।
श्रयेच्छायामिव ज्ञातिं गुप्तं शरणमाश्रयेत्।।

प्रावृषीवासितग्रीवो माद्येत निशि निर्जने।
मायूरेण गुणेनैव स्त्रीभिरारक्षितश्चरेत्।।

न जह्याच्च तनुत्राणं रक्षेदात्मानमात्मना।
चारभूमिष्विव ततान्पाशांश्च परिवर्जयेत्।।

प्रणयेद्वाऽपि तां भूमिं प्रणश्येद्ग्रहणे पुनः।
`एवं मयूरधर्मेण वर्तयन्सततं नरः।'
हन्यात्क्रुद्धानतिविषांस्ताञ्जिह्मगतयोऽहिताः।।

नासूयेच्चावगर्ह्याणि सन्निवासान्निवासयेत्।
सदा बर्हिसमं कामं प्रशस्तं कृतमाचरेत्।
सर्वतश्चाददेत्प्रज्ञां पतङ्गं गहनेष्विव।।

एवं मयूरवद्राजा स्वराज्यं परिपालयेत्।
आत्मबुद्धिकरीं नीतिं विदधीत विचक्षणः।।

आत्मसंयमनं बुद्ध्या परबुद्ध्या विचारणाम्।
बुद्ध्या चात्मगुणप्राप्तिरेतच्छास्त्रनिदर्शनम्।।

परं विश्वासयेत्साम्ना स्वशक्तिं चोपलक्षयेत्।
आत्मनः परिमर्शेन बुद्धिं बुद्ध्या विचारयेत्।।

सान्त्वयोगमतिः प्राज्ञः कार्याकार्यप्रयोजनकः।
निगूढबुद्धेर्धीरस्य वक्तव्ये वक्ष्यते तथा।।

संनिकृष्टां कथां प्राज्ञो यदि बुद्ध्या बृहस्पतिः।
स्वभावमेष्यते तप्तं कृष्णायसमिवोदके।।

अनुयुञ्जीत सत्यानि सर्वाण्येव महीपतिः।
आगमैरुपदिष्टानि स्वस्य चैव परस्य च।।

मृदुं क्रूरं तथा प्राज्ञं शूरं चार्थविधानवित्।
स्वकर्मणि नियुञ्जीत ये चान्ये वचनाधिकाः।।

अप्यदृष्टानि युक्तानि स्वानुरूपेषु कर्मसु।
सर्वांस्ताननुवर्तेत स्वरांस्तन्त्रीरिवायताः।।

धर्माणामविरोधेन सर्वेषां प्रियमाचरेत्।
ममायमिति राजा यः सपर्वत इवाचलः।।

व्यवहारं समाधाय सूर्यो रश्मीनिवायतान्।
धर्ममेवाभिरक्षेत कृत्वा तुल्ये प्रियाप्रिये।।

कुलप्रकृतिदेशानां धर्मज्ञान्मृदुभाषिणः।
मध्ये वयसि निर्दोषान्हिते युक्ताञ्जितक्लमान्।।

अलुब्धाञ्शिक्षितान्दान्तान्धर्मेषु परिनिष्ठितान्।
स्थापयेत्सर्वकार्येषु राजा सर्वार्थरक्षिणः।।

एतेन च प्रकारेण कृत्यानामागतिं गतिम्।
युक्त्या समनुतिष्ठेन तुष्टश्चारैः पुरस्कृतः।।

अमोघक्रोधहर्शस्य स्वयं कृत्याऽनुदर्शिनाः।
आत्मप्रत्ययकोशस्य वसुदैव वसुंधरा।।

व्यक्तश्चानुग्रहो यस्य यथोक्तश्चापि निग्रहः।
गुप्तात्मा गुप्तराष्ट्रस्य स राजा राजधर्मवित्।।

नित्यं राष्ट्रमवेक्षेत गोभिः सूर्य इवातपन्।
चारांश्चानुचरान्विद्यात्तथा बुद्ध्या स्वयं चरेत्।।

कालप्राप्तमुपादद्यान्नार्थं राजा प्रसूचयेत्।
अहन्यहनि संदुह्यान्महीं गामिव बुद्धिमान्।।

यथाक्रमेण पुष्पेभ्यश्चिनोति मधु षट्‌पदः।
तथा द्रव्यमुपादाय राजा कुर्वीत संचयम्।।

यद्धि गुप्तावशिष्टं स्यात्तद्वित्तं धर्मकामयोः।
संचयान्न विसर्गी स्याद्राजा शास्त्रविदात्मवान्।।

नार्थमल्पं परिभवेन्नावमन्येत शात्रवान्।
बुद्ध्याऽनुबुद्ध्या चात्मानं न चाबुद्धेषु विश्वसेत्।।

धृतिर्दाक्ष्यं संयमो बुद्धिरात्मा
धैर्यं शौर्यं देशकालाप्रमादः।
अल्पस्य वा महतो वा विवृद्धौ
धनस्यैतान्यष्ट समिंधनानि।।

अग्निस्तोको वर्धतेऽप्याज्यसिक्तो
बीजं चैकं बहुसहस्रमेति।
क्षयोदयौ विपुलौ सन्नियम्यौ
तस्मादल्पं नावमन्येत वित्तम्।।

बालोऽप्यबालः स्थविरो रिपुर्यः।
सदा प्रमत्तं पुरुषं निहन्यात्।
कालेनान्यस्तस्य मूलं हरेत्
कालज्ञानं पार्थिवाना वरिष्ठम्।।

हरेत्कीर्ति धर्ममस्योपरुन्ध्या
दर्थे विघ्नं वीर्यमस्योपहन्यात्।
रिपुर्द्वेष्टा दुर्बलो वा बली वा
तस्माच्छत्रोर्नैव बिभ्येद्यथात्मा।।

क्षयं शत्रोः संचयं पालनं वा
उभावर्थौ सहितौ धर्मकामौ।
ततश्चान्यन्मतिमान्संदधीत
तस्माद्राजा बुद्धिमन्तं श्रयेत।।

बुद्धिर्दीप्ता बलवन्तं हिनस्ति
बलं बुद्ध्या पाल्यते वर्धमानम्।
शत्रुर्बुद्ध्या सीदते पीड्यमानो
बुद्धिपूर्वं कर्म यत्तत्प्रशस्तम्।।

सर्वान्कामान्कामयानो हि धीरः
सत्वेनाल्पेनाप्नुते हीनदोषः।
यश्चात्मानं प्रार्थयतेऽर्थ्यमानैः
श्रेयः पात्रं पूरयते च नाल्पम्।।

तस्माद्राजा प्रगृहीतः प्रजासु
मूलं लक्ष्म्याः सर्वशो ह्याददीत।
दीर्घं कालं ह्यपि संपीड्यमानो
व्युष्यात्संपद्व्यवसायेन शक्त्या।।

विद्या तपो वा विपुलं धनं वा
सर्वं ह्येतद्व्यवसायेन शक्यम्।
ब्रह्मायत्तं निवसति देहवत्सु
तस्माद्विद्याद्व्यवसायं प्रभूतम्।।

यत्रासते मतिमन्तो मनस्विनः
शक्रो विष्णुर्यत्र सरस्वती च।
वसन्ति भूतानि च यत्र नित्यं
तस्माद्विद्वान्नावमन्येत देहम्।।

लुब्धं हन्यात्संप्रदानाद्धि नित्यं
लुब्धस्तृप्तिं परवित्तस्य नैति।
सर्वो लुब्धः सर्वगुणोपभोगो
योऽर्थैर्हीनो धर्मकामौ जहाति।।

धनं भोगं पुत्रदारं समृद्धिं
सर्वं लुब्धः प्रार्थयते परेषाम्।
लुब्धे दोषाः संभवन्तीह सर्वे
तस्माद्राजा न प्रगृह्णीत् लुब्धम्।।

संदर्शनेन पुरुषं जघन्यमपि चोदयेत्।
आरम्भान्द्विषतां प्राज्ञः सर्वार्थांश्च प्रसूदयेत्।।

धर्मान्वितेषु विज्ञाता मन्त्रगुप्तिंश्च पाण्डव।
आप्तो राजन्कुलीनश्च पर्याप्तो राष्ट्रसंग्रहे।।

विविप्रयुक्तान्नरदेवधर्मा
नुक्तान्समासेन निबोध बुद्ध्या।
इमान्विदध्यादनुसृत्य यो वै
राजा महीं पालयितुं स शक्तः।।

सुनीतिजं यस्य विधानजं सुखं
धर्मप्रणीतं विधिवत्प्रसिद्ध्यति।
न निन्द्यते तस्य गतिर्महीपते
स विन्दते राज्यसुखं ह्यनुत्तमम्।।

धनैर्विशिष्टान्मतिशीलपूजिता
न्गुणोपपन्नान्युधि दृष्टविक्रमान्।
गुणेषु युक्तानचिरादिवात्मवां
स्ततोऽभिसंधाय निहन्ति शात्रवान्।।

पश्येदुपायान्विविधेषु कर्मसु
न चानुपायेन मतिं निवेशयेत्।
श्रियं विशिष्टां विपुलं यशो धनं
न दोषदर्शी पुरुषः समश्नुते।।

प्रीतिप्रवृत्तिं विनिवर्तनं च
सुहृसु विज्ञाय विचार्य चोभयोः।
यदेव मित्रं गुरुभारमावहे
त्तदेव सुस्निग्धमुदाहरेद्बुधः।।

एतान्मयोक्तांश्चर राजधर्मा
न्नृणां च गुप्तौ मतिमादधत्स्व।
अवाप्स्यसे पुण्यफलं सुखेन
सर्वो हि लोको नृप धर्ममूलः।।

।। इति श्रीमन्महाभारते शान्तिपर्वणि
राजधर्मपर्वणि विंशत्यधिकशततमोऽध्यायः।। 120।।