शांतिपर्व

अध्यायः ११९

Santi Parva (Sanskrit) · Adhyaya 119
अक्षर का आकार

भीष्म उवाच।

एवं गुणयुतान्भृत्यान्स्वेस्वे स्थाने नराधिपः।
नियोजयति कृत्येषु स राज्यफलमश्नुते।।

न वा स्वस्थानमुत्क्रम्य प्रमाणमपि सत्कृतम्।
आरोप्य चापि स्वस्थानमुत्क्रम्यान्यत्प्रपद्यते।।

स्वजातिगुणसंपन्नाः स्वेषु धर्मेष्ववस्थिताः।
प्रकर्तव्या ह्यमात्यास्तु नास्थाने प्रक्रिया क्षमा।।

अनुरूपाणि कर्माणि भृत्येभ्यो यः प्रयच्छति।
स भृत्यगुणसंपन्नं राजा फलमुपाश्नुते।।

शरभः शरभस्थाने सिंहः सिंह इवोत्थितः।
व्याघ्रो व्याघ्र इव स्थाप्यो द्वीपी द्वीपी यथा तथा।।

कर्मस्विहानुरूपेषु न्यस्या भृत्या यथाविधि।
प्रतिलोमं न भृत्यास्ते स्थाप्याः कर्मफलैषिणा।।

यः प्रमाणमतिक्रम्य प्रतिलोमं नराधिपः।
भृत्यान्स्थापयतेऽबुद्धिर्न स रञ्जयते प्रजाः।।

न बालिशा न च क्षुद्रा नाप्राज्ञा नाजितेन्द्रियाः।
नाकुलीना जनाः पार्श्वे स्थाप्या राज्ञा गुणैषिणा।।

साधवः कुलजाः शूरा ज्ञानवन्तोऽनसूयकाः।
अक्षुद्राः शुचयो दक्षाः स्युर्नराः पारिपार्श्वकाः।।

उद्भूतास्तत्पराः शान्ताश्चौक्षाः प्रकृतिजाः शुभाः।
स्वेस्वे स्थानेऽनुपाकृष्टास्ते स्यू राज्ञो बहिश्चराः।।

सिंहस्य सततं पार्श्वे सिंह एव जनो भवेत्।
असिंहः सिंहसहितः सिंहवल्लभते फलम्।।

यस्तु सिंहः श्वभिः कीर्णः सिंहकर्मफले रतः।
न स सिंहफलं भोक्तुं शक्तः श्वभिरुपासितः।।

एव मेतैर्मनुष्येन्द्र शूरैः प्राज्ञैर्बहुश्रुतैः।
कुलीनैः सह शक्येत कृत्स्ना जेतुं वसुंधरा।।

नावैद्यो नानृजुः पार्श्वे नाप्राज्ञो ना महायशाः।
संग्राह्यो वसुधापालैर्भृत्यो भृत्यवतां वर।।

वाणवद्विसृता यान्ति स्वामिकार्यपरा नराः।
ये भृत्याः पार्थिवहितास्तेषु सान्त्वं सदा चरेत्।।

कोशश्च सततं रक्ष्यो यत्नमास्थाय राजभिः।
कोशमूला हि राजानः कोशवृद्धिकरो भवेत्।।

कोष्ठागारं च ते नित्यं स्फीतं धान्यैः सुसंचितैः।
सदा त्वं सत्सु संन्यस्तधनधान्यपको भव।

नित्ययुक्ताश्च ते भृत्या भवन्तु रणकोविदाः।
वाजिनां च प्रयोगेषु वैशारद्यमिहेष्यते।।

ज्ञातिबन्धुजनावेक्षी मित्रसंबन्धिसत्कृतः।
पौरकार्यहितान्वेक्षई भव कौरवनन्दन।।

एषा ते नैष्ठिकी बुद्धिः प्रज्ञा चाभिहिता मषा।
श्वाते निदर्शनं तात किं भूयः श्रोतुमिच्छसि।।

।। इति श्रीमन्महाभारते शान्तिपर्वणि
राजधर्मपर्वणि एकोनविंशत्यधिकशततमोऽध्यायः।। 119।।