शांतिपर्व

अध्यायः १२१

Santi Parva (Sanskrit) · Adhyaya 121
अक्षर का आकार

युधिष्ठिर उवाच।

अयं पितामहेनोक्तो राजधर्मः सनातनः।
कीदृशश्च महादण्डो दण्डे सर्वं प्रतिष्ठितम्।।

देवतानामृषीणां च पितॄणां च महात्मनाम्।
यक्षरक्षः पिशाचानां मर्त्यानां च विशेषतः।।

सर्वेषां प्राणिनां लोके तिर्यक्ष्वपि निवासिनाम्।
सर्वस्यापि महातेजा दण्डः श्रेयानिति प्रभो।।

इत्येतदुक्तं भवता दण्डे वै सचराचरम्।
पश्यतां लोक आयत्तं ससुरासुरमानुषम्।
एतदिच्छाम्यहं श्रोतुं तत्त्वेन भरतर्षभ।।

को दण्डः कीदृशो दण्डः किंरूपः किंपरायणः।
किमात्मकः कथंभूतः कतिमूर्तिः कथं प्रभुः।।

जागर्ति च कथं दण्डः प्रजासु विहितात्मकः।
कश्च पूर्वापरमिदं जागर्ति प्रतिपालयन्।।

कश्च विज्ञायते पूर्वः को वरो दण्डसंज्ञितः।
किंसंस्थश्चाभवद्दण्डः का चास्य गतिरिष्यते।।

भीष्म उवाच।

शृणु कौरव्य यो दण्डो व्यवहारो यथा च सः।
यस्मिन्हि सर्वमायत्तं स धर्म इति केवलः।।

धर्मस्यार्थे महाराज व्यवहार इतीष्यते।
तस्य लोपः कथं न स्याल्लोकेष्विह महात्मनः।।

इत्यर्थं व्यवाहरस्य व्यवहारत्वमिष्यते।
अपि चैतत्पुरा राजन्मनुना प्रोक्तमादितः।।

सुप्रणीतेन दण्डेन प्रियाप्रियसमात्मना।
प्रजा रक्षति यः सम्यग्धर्म एव स केवलः।।

यथोक्तमेतद्वचनं प्रागेव मनुना पुरा।
यन्मयोक्तं वसिष्ठेन ब्रह्मणो वचनं महत्।।

प्रागिदं वचनं प्रोक्तमतः प्राग्वचनं विदुः।
व्यवहारस्य चाख्यानाद्व्यवहार इहोच्यते।।

दण्डान्त्रिवर्गः सततं सुप्रणीतात्प्रवर्तते।
दैवं हि परमो दण्डो रूपतोऽग्निरिवोत्थितः।।

नीलोत्पलदलश्यामश्चतुर्दंष्ट्रश्चतुर्भुजः।
अष्टपान्नैकनयनः शङ्कुकर्णोर्ध्वरोमवान्।।

जटी द्विजिह्वस्ताम्रास्यो मृगराजतनुच्छदः।
एतद्रूपं बिभर्त्युग्रं दण्डो नित्यं दुरासदः।।

असिर्धनुर्गदा शक्तिस्त्रिशूलं मुद्गरः शरः।
मुसलं परशुश्चक्रं प्रासदण्डर्ष्टितोमराः।।

सर्वप्रहरणीयानि यानि यानीह कानिचित्।
दण्ड एव स सर्वात्मा लोके चरति मूर्तिमान्।।

भिन्दंश्छिन्दन्रुजन्कृन्तन्दारयन्पाटयंस्तथा।
घातयन्नभिधावंश्च दण्ड एव चरत्युत।।

असिर्विशसनो धर्मस्तीक्ष्णवर्मा दुरासदः।
श्रीगर्भो विजयः शास्ता व्यवहारः प्रजागरः।।

शास्त्रं ब्राह्मणमन्त्राश्च शास्ता प्रवचनं परम्।
धर्मपालोऽक्षरो गोपः सत्यगो नित्यगो गृहः।।

असङ्गो रुद्रतनयो मनुर्ज्येष्ठः शिवंकरः।
नामान्येतानि दण्डस्य कीर्तितानि युधिष्ठिर।।

दण्डो हि भगवान्विष्णुर्यज्ञो नारायणः प्रभुः।
शश्वद्रुपं महद्बिभ्रन्महात्पुरुष उच्यते।।

तथोक्ता ब्रह्मकन्येति लक्ष्मीर्नीतिः सरस्वती।
दण्डनीतिर्जगद्धात्री दण्डो हि बहुविग्रहः।।

अर्थानर्थौ सुखं दुःखं धर्माधर्मौ बलाबले।
दौर्भाग्यं भागधेयं च पुण्यापुण्ये गुणागुणौ।।

कामाकामावृतुर्मासः शर्वरी दिवसः क्षणः।
अप्रमादः प्रमादश्च हर्षशोकौ शमो दमः।।

दैवं पुरुषकारश्च मोक्षामोक्षौ भयाभये।
हिंसाहिंसे तपो यज्ञः संयमोऽथ विषामृते।।

अन्तश्चादिश्च मध्यं च कृतानां च प्रपञ्चनम्।
मदः प्रमोदो दर्पश्च दम्भो धैर्यं नयानयौ।।

अशक्तिः शक्तिरित्येवं मानस्तम्भौ व्ययाव्ययौ।
विनयश्च विसर्गश्च कालाकालौ च कौरव।।

अनृतं चाज्ञता सत्यं श्रद्धाश्रद्धे तथैव च।
क्लीबता व्यवसायश्च लाभालाभौ जयाजयौ।।

तीक्ष्णता मृदुतात्युग्रमागमानागमौ तथा।
विरोधश्चाविरोधश्च कार्याकार्ये बलाबले।।

असूया चानसूया च धर्माधर्मौ तथैव च।
अपत्रपानपत्रपे ह्रीश्च संपद्विपच्च ह।।

तेजः कर्माणि पाण्डित्यं वाक्शक्तिर्बुद्धितत्वता।
एवं दण्डस्य लोकेऽस्मिञ्जागर्ति बहुरूपता।।

न स्याद्यदीह दण्डो वै प्रमथेयुः परस्परम्।
भयाद्दण्डस्य नान्योन्यं घ्नन्ति चैव युधिष्ठिर।।

दण्डेन रक्ष्यमाणा हि राजन्नहरहः प्रजाः।
राजानं वर्धयन्तीह तस्माद्दण्डः परायणम्।।

व्यवस्थापयते नित्यमिमं लोकं नरेश्वर।
सत्ये व्यवस्थितो धर्मो ब्राह्मणेष्ववतिष्ठते।।

धर्मयुक्ता द्विजश्रेष्ठा देवयुक्ता भवन्ति च।
बभूव यज्ञो देवेभ्यो यज्ञः प्रीणाति देवताः।।

प्रीताश्च देवता लोकमिन्द्रे प्रतिददत्युत।
अत्रं ददाति शक्रश्चाप्यनुगृह्णन्निमाः प्रजाः।।

प्राणाश्च सर्वभूतानां नित्यमन्ने प्रतिष्ठिताः।
तस्मात्प्रजाः प्रतिष्ठन्ते दण्डो जागर्ति तासु च।।

एवंप्नयोजनश्चैव दण्डः क्षत्रियतां गतः।
रक्षप्रजाः स जागर्ति नित्यं स्ववहितोक्षरः।।

ईश्वरः पुरुषः प्राणः सत्वं वृत्तं प्रजापतिः।
भूतात्मा जीव इत्येवं नामभिः प्रोच्यतेऽष्टभिः।।

अददद्दण्डमेवास्मै धृतमैश्वर्यमेव च।
बले नयश्च संयुक्तः सदा पञ्चविधात्मकः।।

कुलं बहुधनामात्याः प्रज्ञा प्रोक्ता बलानि तु।
आहार्यमष्टकैर्द्रव्यैर्बलमन्यद्युधिष्ठिर।।

हस्तिनोऽश्वा रथाः पत्तिर्नावो विष्टिस्तथैव च।
देशिकाश्चादिकाश्चैव तदष्टाङ्गं बलं स्मृतम्।।

अथ चाङ्गस्य युक्तस्य रथिनो हस्तियायिनः।
अश्वारोहाः पदाताश्च मन्त्रिणो रसदाश्च ये।।

भिक्षुकाः प्राड्विवाकाश्च मौहूर्ता दैवचिन्तकाः।
कोशो मित्राणि धान्यं च सर्वोपकरणानि च।।

सप्तप्रकृति चाष्टाङ्गं शरीरमिह तं विदुः।
राज्यस्य दण्डमेवाङ्गं दण्डः प्रभव एव च।।

ईश्वरेण प्रसन्नेन कारणात्क्षत्रियस्य च।
दण्डो दत्तः सदा गोप्ता दण्डो हीदं सनातनम्।।

राजा पूज्यतमो नान्यो यथा धर्मः प्रदर्शितः।
ब्रह्मणा लोकरक्षार्थं स्वधर्मस्थापनाय च।।

भर्तृप्रत्यय उत्पन्नो व्यवहारस्तथाविधः।
तस्याद्य सहितो दृष्टो भर्तृप्रत्ययलक्षणः।।

व्यवहारस्तु वेदात्मा वेदप्रत्यय उच्यते।
मौलश्च नरशार्दूल शास्त्रोक्तश्च तथाऽपरः।।

उक्तो यश्चापि दण्डोऽसौ भर्तृप्रत्ययलक्षणः।
ज्ञेयो नः स नरेन्द्रस्थो दण्डः प्रत्यय एव च।।

दण्डप्रत्ययदृष्टोऽपि व्यवहारात्मकः स्मृतः।
व्यवहारः स्मृतो यश्च स वेदविषयात्मकः।।

यश्च वेदप्रसूतात्मा स धर्मो गुणदर्शनः।
धर्मप्रत्यय उद्दिष्टो यश्च धर्मः कृतात्मभिः।।

व्यवहारः प्रजागोप्ता ब्रह्मदृष्टो युधिष्ठिर।
त्रीन्धारयति लोकान्वै सत्यात्मा भूतिवर्धनः।।

यश्च दण्डः स दृष्टो नो व्यवहारः सनातनः।
व्यवहारश्च दृष्टो यः स वेद इति नः श्रुतिः।।

यश्च वेदः स वै धर्मो यश्च धर्मः स सत्पथः।
ब्रह्मा पितामहः पूर्वं भगवांश्च प्रजापतिः।।

लोकानां स हि सर्वेषां ससुरासुररक्षसाम्।
स मनुष्योरगवतां कर्ता चैव स भूतकृत्।।

ततो नो व्यवहारोऽयं भर्तृप्रत्ययलक्षणः।
तस्मादिदमवोचाम व्यवहारनिदर्शनम्।।

माता पिता च भ्राता च भार्या चैव पुरोहितः।
नादण्ड्यो विद्यते राज्ञो यः स्वधर्मेण तिष्ठति।।

।। इति श्रीमन्महाभारते शान्तिपर्वणि
राजधर्मपर्वणि एकविंशत्यधिकशततमोऽध्यायः।। 121।।