शांतिपर्व

अध्यायः ११

Santi Parva (Sanskrit) · Adhyaya 11
अक्षर का आकार

अर्जुन उवाच।

अत्रैवोदाहरन्तीममितिहासं पुरातनम्।
तापसैः सह संवादं शक्रस्य भरतर्षभ।।

`शक्यं पुनररण्येषु सुखमेतेन जीवितुम्।'
केचिद्गृहान्परित्यज्य वनमभ्यागमन्द्विजाः।
अजातश्मश्रवो मन्दाः कुले जाताः प्रवव्रजुः।।

धर्मोऽयमिति मन्वानाः समृद्धा धर्मचारिणः।
त्यक्त्वा भ्रातॄन्पितॄंश्चैव तानिन्द्रोऽन्वकृपायत।।

स तान्बभाषे मघवान्पक्षीभूत्वा हिरण्मयः।
सुदुष्करं मनुष्यैस्तु यत्कृतं विघसाशिभिः।।

पुण्यं भवति कर्मैषां प्रशस्तं चैव जीवितम्।
सिद्धार्थास्ते गतिं मुख्यां प्राप्ताः कर्मपरायणाः।।

ऋषय ऊचुः।

अहो बतायं शकुनिर्विघसाशान्प्रशंसति।
अस्मान्नूनमयं शास्ति वयं च विघसाशिनः।।

शकुनिरुवाच।

नाहं युष्मान्प्रशंसामि पङ्कदिग्धान्रजस्वलान्।
उच्छिष्टभोजिनो मन्दानन्ये वै विघसाशिनः।।

ऋषय ऊचुः।

इदं श्रेयः परमिति वयमेवममंस्महि।
शकुने ब्रूहि यच्छ्रेयो वयं ते श्रद्दधामहे।।

शकुनिरुवाच।

यदि मां नाभिशङ्कध्वं विभज्यात्मानमात्मना।
ततोऽहं वः प्रवक्ष्यामि याथातथ्यं हितं वचः।।

ऋषय ऊचुः।

शृणुमस्ते वचस्तात पन्थानो विदितास्तव।
नियोगे चैव धर्मात्मन्स्थातुमिच्छाम शाधि नः।।

शकुनिरुवाच।

चतुष्पदां गौः प्रवरा लोहानां काञ्चनं वरम्।
शब्दानां प्रवरो मन्त्रो ब्राह्मणो द्विपदां वरः।।

मन्त्रोऽयं जातकर्मादिर्ब्राह्मणस्य विधीयते।
जीवतोऽपि यथाकालं श्मशाननिधनान्तकः।।

कर्माणि वैदिकान्यस्य स्वर्ग्यः पन्थास्त्वनुत्तमः।
अथ सर्वाणि कर्माणि मन्त्रसिद्धानि चक्षते।
आम्नायदृढवादीनि तथा सिद्धिरिहेष्यते।।

मासार्धमासा ऋतव आदित्यशशितारकम्।
ग्रसन्ते कर्म भूतानि तदिदं कर्मशंसिनाम्।।

सिद्धिक्षेत्रमिदं पुण्यमयमेवाश्रमो महान्।।

अथ ये कर्म निन्दन्तो मनुष्याः कापथं गताः।
मूढानामर्थहीनानां तेषामेनस्तु विद्यते।।

देववंशान्पितृवंशान्ब्रह्मवंशांश्च शाश्चतान्।
संत्यज्य मूढा वर्तन्ते ततो यान्त्यशुचीन्पथः।।

एतद्वोऽस्तु तपोयुक्तं ददामीत्यृषिचोदितम्।
तस्मात्तदध्यावसतस्तपस्वित्वमिहोच्यते।।

देववंशान्ब्रह्मवंशान्पितृवंशांश्च शाश्वतान्।
संविभज्य गुरोश्चर्यां तद्वै दुष्करमुच्यते।।

देवा वै दुष्करं कृत्वा विभूतिं परमां गताः।
तस्माद्गार्हस्थ्यमुद्वोढुं दुष्करं प्रब्रवीमि वः।।

तपः श्रेष्ठं प्रजानां हि मूलमेतन्न संशयः।
कुटुम्वविधिनाऽनेन यस्मिन्सर्वं प्रतिष्ठितम्।।

एतद्विदुस्तपो विप्रा द्वन्द्वातीता विमत्सराः।
एतस्माद्वनमध्ये तु लोकेषु तप उच्यते।।

दुराधर्षं पदं चैव गच्छन्ति विघसाशिनः।
सायंप्रातर्विभज्यान्नं स्वकुटुम्बे यथाविधि।।

दत्त्वाऽतिथिभ्यो देवेभ्यः पितृभ्यः स्वजनाय च।
अवशिष्टानि येऽश्नन्ति तानाहुर्विघसाशिनः।।

तस्मात्स्वधर्ममास्थाय सुव्रताः सत्यवादिनः।
लोकस्य गुरवो भूत्वा ते भवन्त्यनुपस्कृताः।।

त्रिदिवं प्राप्य शक्रस्य स्वर्गलोके विमत्सराः।
वसन्ति शाश्वतान्वर्षाञ्जना दुष्करकारिणः।।

अर्जुन उवाच।

ततस्ते तद्वचः श्रुत्वा धर्मार्थसहितं हितम्।
उत्सृज्य नास्तिकमतिं गार्हस्थ्यं धर्ममाश्रिताः।।

तस्मात्त्वमपि सर्वज्ञ धैर्यमालम्ब्य शाश्वतम्।
प्रशाधि पृथिवीं कृत्स्नां हतामित्रां नरोत्तम।।

।। इति श्रीमन्महाभारते शान्तिपर्वणि
राजधर्मपर्वणि एकादशोऽध्यायः।। 11।।