शांतिपर्व

अध्यायः ११८

Santi Parva (Sanskrit) · Adhyaya 118
अक्षर का आकार

भीष्म उवाच।

स श्वा प्रकृतिमापन्नः परं दैन्यमुपागमत्।
ऋषिणा हुंकृतः पापस्तपोवनबहिष्कृतः।।

एवं राज्ञा मतिमता विदित्वा शीलशौचताम्।
आर्जवं प्रकृतिं सत्वं श्रुतं वृत्तं कुलं दमम्।।

अनुक्रोशं बलं वीर्यं प्रभावं प्रशमं क्षमाम्।
भृत्यायेमन्त्रिणो योग्यास्तत्र स्थाप्याः सुरक्षिताः।।

नाषरीक्ष्य महीपालः प्रकर्तुं भृत्यमर्हति।
अकुलीननराकीर्णो न राजा सुखमेधते।।

कुलजः प्राकृतो राजंस्तत्कुलीनतया सदा।
न पापे कुरुते बुद्धिं निन्द्यमानोऽप्यनागसि।।

अकुलीनस्तु पुरुषः प्राकृतः साधुसंक्षयात्।
दुर्लभैश्वर्यतां प्राप्तो निन्दितः शत्रुतां व्रजेत्।।

`काकः श्वानोऽकुलीनश्च बिडालः सर्प एव च।
अकुलीना च या नारी तुल्यास्ते परिकीर्तिताः।।

लोकपालाः सदोद्विग्नाः पश्यन्त्यकुलजान्यथा।
नारीं वा पुरुषं वाऽथ शीलं तत्रापि कारणम्।।

दुष्कुलीना च या स्त्री स्याद्दुष्कुलीनश्च यः पुम।
अहिंसाशीलसंयोगाद्धर्मश्चाऽऽकुलतां व्रजेत्।।

धर्मं प्रति महाराज श्लोकानाह बृहस्पतिः।
शृणु सर्वान्महीपाल हृदि तांश्च करिष्यसि।।

असितं सितकर्माणं यथा दान्तं तपस्विनम्।
वृत्तस्थमपि चण्डालं तं देवा ब्राह्मणं विदुः।।

यदि घातयते कश्चित्पापसत्वं प्रजाहितः।
सर्वसत्वहितार्थाय न तेनासौ विहिंसकः।।

द्वीपिनं शरभं सिंहं व्याघ्रं कुञ्जरमेव च।
महिषं च वराहं च सूकरं श्वानपन्नगान्।।

गोब्राह्मणहितार्थाय बालस्त्रीरक्षणाय च।
वृद्धातुरपरित्राणे यो हिनस्ति स धर्मवित्।।

ब्राह्मणः पापकर्मा च म्लेच्छो वा धार्मिकः शु वः।
श्रेयांस्तत्र भवेन्म्लेच्छो ब्राह्मणः पापकृत्तमः।।

दुष्कुलीनः कुलीनो वा यः कश्चिच्छीलवान्नरः।
प्रकृतिं तस्य विज्ञाय स्थिरां वा यदि वाऽस्थिराम्।।

शीलं वाऽनुत्तमं कर्म कुर्याद्राजा समाहितः।
नियुञ्जीत महीपालो दुर्वृत्तं पापकर्मसु।।'

कुलीनं शिक्षितं प्राज्ञं ज्ञानविज्ञानकोविदम्।
सर्वशास्त्रार्थतत्त्वज्ञं सहिष्णुं देशजं तथा।।

कृतज्ञं बलवन्तं च क्षान्तं दान्तं जितेन्द्रियम्।
अलुब्धं लब्धसंतुष्टं स्वामिमित्रबुभूषकम्।।

सचिवं देशकालज्ञं सर्वसंग्रहणे रतम्।
संस्कृतं युक्तवचनं हितैषिणमतन्द्रितम्।।

युक्ताचारं स्वविषये संधिविग्रहकोविदम्।
शस्तं त्रिवर्गवेत्तारं पौरजानपदप्रियम्।।

सेनाव्यूहनतत्त्वज्ञं बलहर्षणकोविदम्।
इङ्गिताकरातत्त्वज्ञं यात्रासेनाविशारदम्।।

हस्तिशिक्षाश्वतत्त्वज्ञमहंकारविवर्जितम्।
प्रगल्भं दक्षिणं दान्तं बलिनं युक्तमन्त्रिणम्।।

चौक्षं चौक्षजनाकीर्णं सुवेषं सुखदर्शनम्।
नायकं नीतिकुशलं गुणैः षङ्भिः समन्वितम्।।

अस्तब्धं प्रश्रितं श्लक्ष्णं मृदुवादिनमेव च।
धीरं महर्द्धि च देशकालोपपादकम्।।

सचि यः प्रकुरुते न चैनमवमन्यते।
तस्य विस्तीर्यते राज्यं ज्योत्स्ना ग्रहपतेरिव।।

एतैरेव गुणैर्युक्तो राजा शास्त्रविशारदः।
एष्टव्यो धर्मपरमः प्रजापालनतत्परः।।

धीरो मर्षी शुचिः शीघ्रः काले पुरुषकारवित्।
शुश्रूषुः श्रुतवाञ्श्रोता ऊहापोहविशारदः।।

मेधावी धारणायुक्तो यथान्यायोपपादकः।
दान्तः सदा प्रियाभाषी क्षमावांश्च विपर्यये।।

नातिच्छेत्ता स्वयंकारी श्रद्धालुः सुखदर्शनः।
आर्तहस्तप्रदो नित्यमाप्तामात्यो नये रतः।।

नाहंवादी ननिर्द्वन्द्वो नयत्किंचनकारकः।
कृते कर्मण्यमोघानां कर्ता भृत्यजनप्रियः।।

संगृहीतजनोऽस्तब्धः प्रसन्नवदनः सदा।
त्राता भृत्यजनापेक्षी न क्रोधी सुमहामनाः।।

युक्तदण्डो न निर्दण्डो धर्मकार्यानुशासनः।
चारनेत्रः प्रजावेक्षी धर्मार्थकुशलः सदा।।

राजा गुणशताकीर्ण एष्टव्यस्तादृशो भवेत्।
योधाश्चैव मनुष्येन्द्र सर्वैर्गुणगणैर्वृताः।।

अन्वेष्टव्याः सुपुरुषाः सहाया राज्यधारणे।
न विमानयितव्यास्ते राज्ञा वृद्धिमभीप्सता।।

योधाः समरशौण्डीराः कृतज्ञाः शास्त्रकोविदाः।
धर्मशास्त्रसमायुक्ताः पदातिजनसंवृताः।।

अर्थमानविवृद्धाश्च रथचर्याविशारदाः।
इष्वस्त्रकुशला यस्य तस्येयं नृपतेर्मही।।

`ज्ञातीनामनवज्ञानं भृत्येष्वशठता तथा।
नैपुणं चार्थचर्यासु यस्यैते तस्य सा मही।।

आलस्यं चैव निद्रा च व्यसनान्यतिहास्यता।
यस्तैतानि न विद्यन्ते तस्यैव सुचिरं मही।।

वृद्धसेवी महोत्साहो वर्णानां चैव रक्षिता।
धर्मचर्याः सदा यस्य तस्येयं सुचिरं मही।।

नीतिवर्त्मानुसरणं नित्यमुत्थानमेव च।
रिपूणामनवज्ञानं तस्येयं सुचिरं मही।।

उत्थानं चैव दैवं च तयोर्नानात्वमेव च।।
मनुना वर्णितं पूर्वं वक्ष्ये शृणु तदेव हि।।

उत्थानं हि नरेन्द्राणां बृहस्पतिरभाषत।
नयानयविधानज्ञः सदा भव कुरूद्वह।।

दुर्हृदां छिद्रदर्शी यः सुहृदामुपकारवान्।
विशेषविच्च भृत्यानां स राज्यफलमश्नुते।। '

सर्वसंग्रहणे युक्तो नृपो भवति यः सदा।
उत्थानशीलो मन्त्राढ्यः स राजा राजसत्तमः।।

शक्या चाश्वसहस्रेण वीरारोहेण भारत।
संगृहीतमनुष्येण कृत्स्ना जेतुं वसुंधरा।।

।। इति श्रीमन्महाभारते शान्तिपर्वणि
राजधर्मपर्वणि अष्टादशाधिकशततमोऽध्यायः।। 118।।