शांतिपर्व
अध्यायः ११७
भीष्म उवाच।
व्याघ्रश्वोटजमूलस्थस्तृप्तः सुप्तो हतैर्मृगैः।
नागभागात्तमुद्देशं मत्तो मेघ इवोत्थितः।।
प्र--करटः प्रांशुः पद्मी विततकुम्भकः।
सु--णो महाकायो मेघगम्भीरनिः स्वनः।।
तं दृष्ट्वा कुञ्जरं मत्तमायान्तं बलगर्वितम्।
व्या हस्तिभयान्त्रस्तस्तमृषिं शरणं ययौ।।
ततोऽनयत्कुञ्जरत्वं व्याघ्रं तमृषिसत्तमः।
महमेघोपमं दृष्ट्वा स भीतो ह्यभवद्गजः।।
ततः कमलषण्डानि सल्लकीगहनानि च।
व्य--रत्स मुदायुक्तः पझरेणुविभूषितः।।
कदचिद्दममाणस्य हस्तिनः संमुखं तदा।
ऋषेस्तस्योटस्थस्य कालोऽगच्छद्दिवानिशम्।।
अथाजगाम तं देशं केसरी केसरारुणः।
गिन्विन्दरजो भीमः सिंहो नागकुलान्तकः।।
तं--- सिंहमायान्तं नागः सिंहभयार्दितः।
ऋषिं शरणमापेदे वेपमानो भयातुरः।।
स त-ः सिंहतां नीतो गजेन्द्रो मुनिना तदा।
तं च नागणयत्सिंहं तुल्यजातिसमन्वयात्।।
दृष्ट्वा च सोऽभवत्सिंहो वन्यो हिंसन्नवाग्बलः।
स चाश्रपेऽवसत्सिंहस्तस्मिन्नेव सुखी वने।।
न चान्ये क्षुद्रपशवस्तपोवनसमीपतः।
व्यदृश्यन्त तदा त्रस्ता जीविताकाङ्क्षिणस्तथा।।
कदाचित्कालयोगेन सर्वप्राणिविहिंसकः।
बलवान्क्षतजाहारो नानासत्वभयंकरः।।
अष्टपादर्ध्वनयनः शरभो वनगोचरः।
तं सिंहं हन्तुमागच्छन्मुनेस्तस्य निवेशने।।
`तं दृष्ट्वा शरभं यान्तं सिंहः परभयान्वितः।
ऋषिं शरणमापेदे वेपमानः कृताञ्जलिः।।'
सं मुनिः शरभं चक्रे बलोत्कटमरिंदम।
ततः स शरभो वन्यो मुनेः शरभमग्रतः।
दृष्ट्वा बलिनमत्युग्रं द्रुतं संप्राद्रवद्वनम्।।
स एवं शरभस्थाने न्यस्तो वै मुनिना तदा।
मुनेः पार्श्वगतो नित्यं शरभः सुखमाप्तवान्।।
ततः शरभसंत्रस्ताः सर्वे मृगगणा वनात्।
दिशः संप्राद्रवत्राजन्भयाज्जीवितकाङ्क्षिणः।।
शरभोऽप्यतिसंहृष्टो नित्यं प्राणिवधे रतः।
फलमूलाशनं कर्तुं नैच्छत्स पिशिताशनः।।
ततः क्षुद्रसमाचारो बलेन च समन्वितः।
इयेष तं मुनिं हन्तुमकृतज्ञः कृतान्वयः।।
`चिन्तयामास च तदा शरभः श्वानपूर्वकः।।
अस्य प्रभावात्संप्राप्तो वाङ्भात्रेणैव केवलम्।
शरभत्वं सुदुष्प्रापं सर्वभूतभयंकरम्।।
अन्येऽप्यत्र भयत्रस्ताः सन्ति सत्वा भयार्दिताः।
मुनिमाश्रित्य जीवन्तो मृगाः पक्षिगणास्तथा।।
तेषामपि कदाचिच्च शरभत्वं प्रयच्छति।
सर्वसत्वोत्तमं लोके बलं यत्र प्रतिष्ठितम्।।
पक्षिणामप्ययं दद्यात्कदाचिद्गारुडं बलम्।।
यावदन्यस्य संप्रीतः कारुण्यं तु समाश्रितः।
न ददाति बलं तुष्टः सत्वस्यान्यस्य कस्यचित्।।
तावदेनमहं विप्रं वधिष्यामि च शीघ्रतः।
स्थातुं मया शक्यमिह मुनिघातान्न संशयः।।'
ततस्तेन तपःशक्त्या विदितो ज्ञानचक्षुषा।
विज्ञाय च मुनिः प्राज्ञस्ततः शापं प्रयुक्तवान्।।
`अहमग्निप्रभो नाम मुनिर्भृगुकुलान्वयः।
मनसा निर्दहेयं च जगत्संधारयामि च।।
मम वश्यं जगत्सर्वं देवा यच्च चराचरम्।
सन्ति देवाश्च ये भीताः स्वधर्मं न त्यजन्ति ये।
स्वधर्माच्चलितान्सर्वान्वाङ्भात्रेणापि निर्दहे।।
किमङ्ग त्वं मया नीतः शरभत्वमनामयम्।
क्रूरः स सर्वभूतेषु हीनश्चाशुचिरेव च।।'
श्वा त्वं द्वीपित्वमापन्नो द्वीपी व्याघ्रत्वमागतः।
व्याघ्रान्नागो मदपटुर्नागः सिंहत्वमागतः।।
सिंहस्त्वं बलमापन्नो भूयः शरभतां गतः।
मया स्नेहपरीतेन विसृष्टो न कुलान्वयः।।
यस्मादेवमपापं मां पाप हिंसितुमिच्छसि।
तस्मात्स्वयोनिमापन्नः पुनः श्वानो भविष्यसि।।
ततो मुनिजनद्वेष्टा दुष्टात्मा प्राकृतोऽबुधः।
ऋषिणा शरभः शप्तस्तद्रूपं पुनराप्तवान्।।
।। इति श्रीमन्महाभारते शान्तिपर्वणि
राजधर्मपर्वणि सप्तदशाधिकशततमोऽध्यायः।। 117।।