शांतिपर्व

अध्यायः ११६

Santi Parva (Sanskrit) · Adhyaya 116
अक्षर का आकार

`युधिष्ठिर उवाच।

न सन्ति कुलजा यत्र सहायाः पार्थिवस्य तु।
अकुलीनाश्च कर्तव्या न वा भरतसत्तम्।।'

भीष्म उवाच।

अत्राप्युदाहरन्तीममितिहासं पुरातनम्।
निदर्शनं परं लोके सज्जनाचरितं सदा।।

अस्यैवार्थस्य सदृशं यच्छ्रुतं मे तपोवने।
जामदग्न्यस्य रामस्य यदुक्तमृषिसत्तमैः।।

वने महति कस्मिंश्चिदमनुष्यनिषेविते।
ऋषिर्मूलफलाहारो नियतो नियतेन्द्रियः।।

दीक्षादमपरिश्रान्तः स्वाध्यायपरमः शुचिः।
उपवासविशुद्धात्मा सततं सत्पथे स्थितः।।

तस्य संदृश्य सद्भावमुपविष्टस्य धीमतः।
सर्वे सत्वाः समीपस्था भवन्ति वनचारिणः।।

सिंहा व्याघ्राः सशरभा मत्ताश्चैव महागजाः।
द्वीपिनः खङ्गभल्लूका ये चान्ये भीमदर्शनाः।।

ते सुखप्रश्नदाः सर्वे भवन्ति क्षतजाशनाः।
तस्यर्षेः शिष्यवच्चैव चित्तज्ञाः प्रियकारिणः।।

उक्त्वा च ते सुखप्रश्नं सर्वे यान्ति यथासुखम्।
ग्राम्यस्त्वेकः पशुस्तत्र नाजहात्स महामुनिम्।।

भक्तोऽनुरक्तः सततमुपवासकृशोऽबलः।
फलमूलोत्तराहारः शान्तः शिष्टाकृतिर्यथा।।

तस्यर्षेरुपविष्टस्य पादमूले महामतेः।
मनुष्यवद्गतो भावं स्नेहबद्धोऽभवद्भृशम्।।

ततोऽभ्ययान्महारौद्रो द्वीपी क्षतजभोजनः।
श्वार्थमत्यर्थमुद्धुष्टः क्रूरः कालइवान्तकः।।

लेलिह्यमानस्तृषितः पुच्छास्फोटनतत्परः।
व्यादितास्यः क्षुधाः भुग्नः प्रार्थयानस्तदामिषम्।।

दृष्ट्वा तं क्रूरमायान्तं जीवितार्थी नराधिप।
प्रोवाच श्वा मुनिं तत्र तच्छृणुष्व विशांपते।।

श्वशत्रुर्भगवन्नेष द्वीपी मां हन्तुमिच्छति।
त्वत्प्रसादाद्भयं न स्यादस्मान्मम महामुने।
[तथा कुरु महाबाहो सर्वज्ञस्त्वं न संशयः।।

स मुनिस्तस्य विज्ञाय भावज्ञो भयकारणम्।
रुतज्ञः सर्वसत्वानां तमैश्वर्यसमन्वितः।।]

मुनिरुवाच।

न भयं द्वीपिनः कार्यं मृत्युतस्ते कथंचन।
एष श्वरूपरहितो द्वीपी भवसि पुत्रक।।

ततः श्वा द्वीपितां नीतो जाम्बूनदनिभाकृति।
चित्राङ्गो विस्फुरद्दंष्ट्रो वने वसति निर्भयः।।

तं दृष्ट्वा संमुखे द्वीपी आत्मनः सदृशं पशुम्।
अविरुद्धस्ततस्तस्य क्षणेन समपद्यत।।

ततोऽभ्ययान्महारौद्रो व्यादितास्यः क्षुधान्विः।
द्वीपिनं लेलिहन्वक्रं व्याघ्रो रुधिरलालसः।।

व्याघ्रं दृष्ट्वा क्षुधा भुग्नं दंष्ट्रिणं वनचारिणम्।
द्वीपि जीवितरक्षार्थमृषिं शरणमेयिवान्।।

ततः संवासजं स्नेहमृषिणा कुर्वता तदा।
स द्वीपी व्याघ्रतां नीतो रिपुभ्यो बलवत्तरः।।

ततोऽदृष्ट्वा स शार्दूलो नाभ्यघ्नत्तं विशांपते।
स तु श्चा व्याघ्रतां प्राप्य बलवान्पिशिताशनः।।

न मूलफलभोगेषु स्पृहामप्यकरोत्तदा।
यथा मृगपतिर्नित्यं प्रकाङ्क्षति वनौकसः।
तथैव स महाराज व्याघ्रः समभवत्तदा।।

।। इति श्रीमन्महाभारते शान्तिपर्वणि
राजधर्मपर्वणि षोडशाधिकशततमोऽध्यायः।। 116।।