शांतिपर्व

अध्यायः ११५

Santi Parva (Sanskrit) · Adhyaya 115
अक्षर का आकार

युधिष्ठिर उवाच।

पितामह महाप्राज्ञ संशयो मे महानयम्।
संछेत्तव्यस्त्वया राजन्भवान्कुलकरो हि नः।।

पुरुषाणामयं तात दुर्वृत्तानां दुरात्मनाम्।
कथितो वाक्यसंचारस्ततो विज्ञापयामि ते।।

यद्धितं राज्यतन्त्रस्य कुलस्य च सुखोदयम्।
अयत्यां च तदात्वे च क्षेमवृद्धिकरं च तत्।।

पुत्रपौत्राभिरामं च राष्ट्रवृद्धिकरं च यत्।
अन्नपाने शरीरे च हितं यत्तद्ब्रवीहि मे।।

अभिषिक्तो हि यो राजा राज्यस्थो मित्रसंवृत।
समुहृत्समुपेतो वा स कथं रञ्जयेत्प्रजाः।।

यो ह्यसत्प्रग्रहरतिः स्नेहरागबलात्कृतः।
इन्द्रियाणामनीशत्वादसज्जनबुभूषकः।।

तस्य भृत्या विमुखतां यान्ति सर्वे कुलोद्गताः।
न च भृत्यबलैरर्थैः स राजा संप्रयुज्यते।।

एतन्मे चिन्तयानस्य राजधर्मान्दिवानिशम्।
बृहस्पतिसमो बुद्ध्या भवाञ्शंसितुमर्हति।।

शासता पुरुषव्याघ्र त्वं नः कुलहिते रतः।
क्षत्ता चैको महाप्राज्ञो यो नः शंसति सर्वदा।।

त्वत्तः कुलहितं वाक्यं श्रुत्वा राज्यहितोदयम्।
अमृतस्याव्ययस्येव तृप्तः स्वप्स्याम्यहं सुखम्।।

कीदृशाः सन्निकर्षस्था भृत्याः सर्वगुणान्विताः।
कीदृशैः किं कुलीनैर्वा सह यात्रा विधीयते।।

न ह्येको भृत्यरहितो राजा भवति रक्षिता।
राज्यं चेदं जनः सर्वस्तत्कुलीनः प्रशासति।।

भीष्म उवाच।

न च प्रशास्तुं राज्यं हि शक्यमेकेन भारत।।

असहायवता तात नैवार्थाः केचिदप्युत।
लब्धुं लब्धा ह्यपि सदा रक्षितुं भरतर्षभ।।

यस्य भृत्यजनः सर्वो ज्ञानविज्ञानकोविदः।
हितैषी कुलजः स्निग्धः स राज्यफलमश्नुते।।

मन्त्रिणो यस्य कुलजा असंहार्याः सहोषिताः।
नृपतेर्मतिमाप्सन्ते सत्पथज्ञानकोविदाः।।

अनागतविधातारः कालज्ञानविशारदाः।
अतिक्रान्तमशोचन्तः स राज्यफलमश्नुते।।

समदुःखसुखा यस्य सहायाः प्रियकारिणः।
अर्थचिन्तापराः सभ्याः स राज्यफलमश्नुते।।

यस्य नार्तो जनपदः सन्निकर्षगतः सदा।
अक्षुद्रः सत्पथालम्बी स राजा राज्यभाग्भवेत्।।

कोशोऽक्षपटलं यस्य कोशवृद्धिकरैर्नरैः।
आप्तैस्तुष्टैश्च पृष्टैश्च धार्यते स नृपोत्तमः।।

कोष्ठागारमसंहार्यैराप्तैः संचयतत्परैः।
पात्रभूतैरलुब्धैश्च पाल्यमानं गुणी भवेत्।।

व्यवहारश्च नगरे यस्य धर्मफलोदयः।
दृश्यते शङ्खलिखितः स धर्मफलभाङ् नृपः।।

संगृहीतमनुष्यश्च यो राजा राजधर्मवित्।
षङ्‌भागं परिगृह्णाति स धर्मफलमश्नुते।।

।। इति श्रीमन्महाभारते शान्तिपर्वणि
राजधर्मपर्वणि पञ्चदशाधिकशततमोऽध्यायः।। 115।।